0/7 readHide transliteration
नैवेह किं चनाग्र आसीत् । मृत्युनैवेदम् आवृतम् आसीद् अशनायया । अशनाया हि मृत्युः । तन् मनो ऽकुरुतात्मन्वी स्याम् इति । सो ऽर्चन्न् अचरत् । तस्यार्चत आपो ऽजायन्त । अर्चते वै मे कम् अभूद् इति । तद् एवार्क्यस्यार्कत्वम् । कं ह वा अस्मै भवति य एवम् एतद् अर्क्यस्यार्कत्वं वेद
naiveha kiṃ canāgra āsīt | mṛtyunaivedam āvṛtam āsīd aśanāyayā | aśanāyā hi mṛtyuḥ | tan mano 'kurutātmanvī syām iti | so 'rcann acarat | tasyārcata āpo 'jāyanta | arcate vai me kam abhūd iti | tad evārkyasyārkatvam | kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
1.2.1 नैवेह किं चनाग्र आसीत् । मृत्युनैवेदम् आवृतम् आसीद् अशनायया । अशनाया हि मृत्युः । तन् मनो ऽकुरुतात्मन्वी स्याम् इति । सो ऽर्चन्न् अचरत् । तस्यार्चत आपो ऽजायन्त । अर्चते वै मे कम् अभूद् इति । तद् एवार्क्यस्यार्कत्वम् । कं ह वा अस्मै भवति य एवम् एतद् अर्क्यस्यार्कत्वं वेद 1.2.2 आपो वा अर्कः । तद् यद् अपां शर आसीत् तत् समहन्यत । सा पृथिव्य् अभवत् । तस्याम् अश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः 1.2.3 स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् । स एष प्राणस् त्रेधाविहितः । तस्य प्राची दिक् शिरो ऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक् पुच्छम् असौ चासौ च सक्थ्यौ । दक्षिणा चोदीची च पार्श्वे । द्यौः पृष्ठम् अन्तरिक्षम् उदरम् इयम् उरः । स एषो ऽप्सु प्रतिष्ठितः । यत्र क्व चैति तद् एव प्रतितिष्ठत्य् एवं विद्वान् 1.2.4 सो ऽकामयत -- द्वितीयो म आत्मा जायेतेति । स मनसा वाचं मिथुनं समभवद् अशनाया मृत्युः । तद् यद् रेत आसीत् स संवत्सरो ऽभवत् । न ह पुरा ततः संवत्सर आस । तम् एतावन्तं कालम् अबिभर् यावान्त् संवत्सरः । तम् एतावतः कालस्य परस्ताद् असृजत । तं जातम् अभिव्याददात् । स भाण् अकरोत् । सैव वाग् अभवत् 1.2.5 स ऐक्षत यदि वा इमम् अभिमंस्ये कनीयो ऽन्नं करिष्य इति । स तया वाचा तेनात्मनेदं सर्वम् असृजत यद् इदं किञ्च -- ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् । स यद्-यद् एवासृजत तत्तद् अत्तुम् अध्रियत । सर्वं वा अत्तीति तद् अदितेर् अदितित्वम् । सर्वस्यात्ता भवति सर्वम् अस्यान्नं भवति य एवम् एतद् अदितेर् अदितित्वं वेद 1.2.6 सो ऽकामयत -- भूयसा यज्ञेन भूयो यजेयेति । सो ऽश्राम्यत् । स तपो ऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यम् उदक्रामत् । प्राणा वै यशो वीर्यम् । तत् प्राणेषूत्क्रान्तेषु शरीरं श्वयितुम् अध्रियत । तस्य शरीर एव मन आसीत् 1.2.7 सो ऽकामयत -- मेध्यं म इदं स्याद् आत्मन्व्य् अनेन स्याम् इति । ततो ऽश्वः समभवत् । यद् अश्वत् तन् मेध्यम् अभूद् इति तद् एवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनम् एवं वेद । तम् अनवरुध्यैवामन्यत । तं संवत्सरस्य परस्ताद् आत्मन आलभत । पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सर्वदेवत्यं प्रोक्षितं प्राजापत्यम् आलभन्ते । एष वा अश्वमेधो य एष तपति । तस्य संवत्सर आत्मा । अयम् अग्निर् अर्कः । तस्येमे लोका आत्मानः । ताव् एताव् अर्काश्वमेधौ । सो पुनर् एकैव देवता भवति मृत्युर् एव । अप पुनर्मृत्युं जयति । नैनं मृत्युर् आप्नोति । मृत्युर् अस्यात्मा भवति । सर्वम् आयुर् एति । एतासां देवतानाम् एको भवति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.