0/28 readHide transliteration
द्वया ह प्राजापत्या देवाश् चासुराश् च ततः कानीयसा एव देवा ज्यायसा असुराः । त एषु लोकेष्व् अस्पर्धन्त । ते ह देवा ऊचुर् हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति
dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ | ta eṣu lokeṣv aspardhanta | te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
1.3.1 द्वया ह प्राजापत्या देवाश् चासुराश् च ततः कानीयसा एव देवा ज्यायसा असुराः । त एषु लोकेष्व् अस्पर्धन्त । ते ह देवा ऊचुर् हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति 1.3.2 ते ह वाचम् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यो वाग् उदगायत् । यो वाचि भोगस् तं देवेभ्य आगायत् । यत् कल्याणं वदति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यद् एवेदम् अप्रतिरूपं वदति । स एव स पाप्मा 1.3.3 अथ ह प्राणम् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यः प्राण उदगायत् । यः प्राणे भोगस् तं देवेभ्य आगायत् । यत् कल्याणं जिघ्रति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यद् एवेदम् अप्रतिरूपं जिघ्रति । स एव स पाप्मा 1.3.4 अथ ह चक्षुर् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यश् चक्षुर् उदगायत् । यश् चक्षुषि भोगस् तं देवेभ्य आगायत् । यत् कल्याणं पश्यति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा यद् एवेदम् अप्रतिरूपं पश्यति । स एव स पाप्मा 1.3.5 अथ ह श्रोत्रम् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यः श्रोत्रम् उदगायत् । यः श्रोत्रे भोगस् तं देवेभ्य आगायत् । यत् कल्याणं शृणोति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा । यद् एवेदम् अप्रतिरूपं शृणोति । स एव स पाप्मा 1.3.6 अथ ह मन ऊचुस् त्वं न उद्गायेति । तथेति तेभ्यो मन उदगायत् । यो मनसि भोगस् तं देवेभ्य आगायत् । यत् कल्याणं संकल्पयति तद् आत्मने । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविध्यन् । स यः स पाप्मा । यद् एवेदम् अप्रतिरूपं संकल्पयति । स एव स पाप्मा । एवम् उ खल्व् एता देवताः पाप्मभिर् उपासृजन् । एवम् एनाः पाप्मनाविध्यन् 1.3.7 अथ हेमम् आसन्यं प्राणम् ऊचुस् त्वं न उद्गायेति । तथेति तेभ्य एष प्राण उदगायत् । ते ऽविदुर् अनेन वै न उद्गात्रात्येष्यन्तीति । तम् अभिद्रुत्य पाप्मनाविव्यत्सन् । स यथाश्मानम् ऋत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः । ततो देवा अभवन्, परासुरा । भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद 1.3.8 ते होचुः -- क्व नु सो ऽभूद् यो न इत्थम् असक्तेति । अयम् आस्ये ऽन्तर् इति । सो ऽयास्य आङ्गिरसो ऽङ्गानां हि रसः 1.3.9 सा वा एषा देवता दूर् नाम । दूरं ह्य् अस्या मृत्युर् । दूरं ह वा अस्मान् मृत्युर् भवति य एवं वेद 1.3.10 सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्य यत्रासां दिशाम् अन्तस् तद् गमयां चकार । तद् आसां पाप्मनो विन्यदधात् । तस्मान् न जनम् इयान् नान्तम् इयान् नेत् पाप्मानं मृत्युम् अन्ववायानीति 1.3.11 सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्याथैना मृत्युम् अत्यवहत् 1.3.12 सा वै वाचम् एव प्रथमाम् अत्यवहत् । सा यदा मृत्युम् अत्यमुच्यत सो ऽग्निर् अभवत् । सो ऽयम् अग्निः परेण मृत्युम् अतिक्रान्तो दीप्यते 1.3.13 अथ प्राणम् अत्यवहत् । स यदा मृत्युम् अत्यमुच्यत स वायुर् अभवत् । सो ऽयं वायुः परेण मृत्युम् अतिक्रान्तः पवते 1.3.14 अथ चक्षुर् अत्यवहत् । तद् यदा मृत्युम् अत्यमुच्यत स आदित्यो ऽभवत् । सो ऽसाव् आदित्यः परेण मृत्युम् अतिक्रान्तस् तपति 1.3.15 अथ श्रोत्रम् अत्यवहत् । तद् यदा मृत्युम् अत्यमुच्यत ता दिशो ऽभवन् । ता इमा दिशः परेण मृत्युम् अतिक्रान्ताः 1.3.16 अथ मनो ऽत्यवहत् । तद् यदा मृत्युम् अत्यमुच्यत स चन्द्रमा अभवत् । सो ऽसौ चन्द्रः परेण मृत्युम् अतिक्रान्तो भाति । एवं ह वा एनम् एषा देवता मृत्युम् अतिवहति य एवं वेद 1.3.17 अथात्मने ऽन्नाद्यम् आगायत् । यद् धि किञ्चान्नम् अद्यते ऽनेनैव तद् अद्यते । इह प्रतितिष्ठति 1.3.18 ते देवा अब्रुवन् । एतावद् वा इदं सर्वं यद् अन्नम् । तद् आत्मन आगासीः । अनु नो ऽस्मिन्न् अन्न आभजस्वेति । ते वै माभिसंविशतेति । तथेति तं समन्तं परिण्यविशन्त । तस्माद् यद् अनेनान्नम् अत्ति तेनैतास् तृप्यन्ति । एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्य् अन्नादो ऽधिपतिर् य एवं वेद । य उ हैवंविदं स्वेषु प्रतिर् बुभूषति न हैवालं भार्येभ्यो भवति । अथ य एवैतम् अनुभवति यो वैतम् अनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति 1.3.19 सो ऽयास्य आङ्गिरसो ऽङ्गानां हि रसः । प्राणो वा अङ्गानां रसः । प्राणो हि वा अङ्गानां रसः । तस्माद् यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति तद् एव तच् छुष्यति । एष हि वा अङ्गानां रसः 1.3.20 एष उ एव बृहस्पतिः । वाग् वै बृहती । तस्या एष पतिस् तस्माद् उ बृहस्पतिः 1.3.21 एष उ एव ब्रह्मणस्पतिः । वाग् वै ब्रह्म । तस्या एष पतिस् तस्माद् उ ब्रह्मणस्पतिः 1.3.22 एष उ एव साम । वाग् वै सामैष सा चामश् चेति तत् साम्नः सामत्वम् । यद् व् एव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस् त्रिभिर् लोकैः समो ऽनेन सर्वेण तस्माद् व् एव साम । अश्नुते साम्नः सायुज्यं सलोकताम् । य एवम् एतत् साम वेद 1.3.23 एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीदं सर्वम् उत्तब्धम् । वाग् एव गीथा । उच् च गीथा चेति । स उद्गीथः 1.3.24 तद् धापि ब्रह्मदत्तश् चैकितानेयो राजानं भक्षयन्न् उवाच । अयं त्यस्य राजा मूर्धानं विपातयताद् यद् इतो ऽयास्य आङ्गिरसो ऽन्येनोदगायद् इति । वाचा च ह्य् एव स प्राणेन चोदगायद् इति 1.3.25 तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्माद् आर्त्विज्यं करिष्यन् वाचि स्वरम् इच्छेत । तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् । तस्माद् यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य स्वं भवति । भवति हास्य स्वं य एवम् एतत् साम्नः स्वं वेद 1.3.26 तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवम् एतत् साम्नः सुवर्णं वेद 1.3.27 तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य वै वाग् एव प्रतिष्ठा । वाचि हि खल्व् एष एतत् प्राणः प्रतिष्ठितो गीयते । अन्न इत्य् उ हैक आहुः 1.3.28 अथातः पवमानानाम् एवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात् तद् एतानि जपेत् । असतो मा सद् गमय, तमसो मा ज्योतिर् गमय, मृत्योर् मामृतं गमयेति । स यद् आहासतो मा सद् गमयेति । मृत्युर् वा असत् सद् अमृतं मृत्योर् मामृतं गमयामृतं मा कुर्व् इत्य् एवैतद् आह । तमसो मा ज्योतिर् गमयेति । मृत्युर् वै तमो ज्योतिर् अमृतं मृत्योर् मामृतं गमयामृतं मा कुर्व् इत्य् एवैतद् आह । मृत्योर् मामृतं गमयेति । नात्र तिरोहितम् इवास्ति । अथ यानीतराणि स्तोत्राणि तेष्व् आत्मने ऽन्नाद्यम् आगायेत् । तस्माद् उ तेषु वरं वृणीत । यं कामं कामयेत् तम् । स एष एवंविद् उद्गातात्मने वा यजमानाय वा यं कामं कामयते तम् आगायति । तद् धैतल् लोकजिद् एव । न हैवालोक्यताया आशास्ति य एवम् एतत् साम वेद See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.