0/4 readHide transliteration
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यान् अवरुणद्धि । अयं वाव शिशुर् यो ऽयं मध्यमः प्राणः । तस्येदम् एवाधानम् इदं प्रत्याधानं प्राणः स्थूणान्नं दाम
yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi | ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ | tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
2.2.1 यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यान् अवरुणद्धि । अयं वाव शिशुर् यो ऽयं मध्यमः प्राणः । तस्येदम् एवाधानम् इदं प्रत्याधानं प्राणः स्थूणान्नं दाम 2.2.2 तम् एताः सप्ताक्षितय उपतिष्ठन्ते । तद् या इमा अक्षंल् लोहिन्यो राजयस् ताभिर् एनं रुद्रो ऽन्वायत्तः । अथ या अक्षन्न् आपस् ताभिः पर्जन्यः । या कनीनका तयादित्यः । यत् कृष्णं तेनाग्निर् । यच् छुक्लं तेनेन्द्रः । अधरयैनं वर्तन्या पृथिव्य् अन्वायत्ता । द्यौर् उत्तरया । नास्यान्नं क्षीयते य एवं वेद 2.2.3 तद् एष श्लोको भवति -- अर्वाग्बिलश् चमस ऊर्ध्वबुध्नस् तस्मिन् यशो निहितं विश्वरूपम् । तस्यासत ऋषयः सप्त तीरे वाग् अष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश् चमस ऊर्ध्वबुध्न इति । इदं तच् छरीर एष ह्य् अर्वाग्बिलश् चमस ऊर्ध्वबुध्नः । तस्मिन् यशो निहितं विश्वरूपम् इति । प्राणा वै यशो विश्वरूपम् । प्राणान् एतद् आह । तस्यासत ऋषयः सप्त तीर इति । प्राणा वा ऋषयः । प्राणाण् एतद् आह । वाग् अष्टमी ब्रह्मणा संविदानेति । वाग् घ्य् अष्टमी ब्रह्मणा संवित्ते 2.2.4 इमाव् एव गोतमभरद्वाजौ । अयम् एव गोतमो ऽयं भरद्वाजः । इमाव् एव विश्वामित्रजमदग्नी । अयम् एव विश्वामित्रो ऽयं जमदग्निः । इमाव् एव वसिष्ठकश्यपौ । अयम् एव वसिष्ठो ऽयं कश्यपः । वाग् एवात्रिः । वाचा ह्य् अन्नम् अद्यते । अत्तिर् ह वै नामैतद् यद् औत्रिर् इति । सर्वस्यात्ता भवति । सर्वम् अस्यान्नं भवति य एवं वेद See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.