0/10 readHide transliteration
जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव -- कः स्विद् एषां ब्राह्मणानाम् अनूचानतम इति । स ह गवां सहस्रम् अवरुरोध । दशदश पादा एकैकस्याः शृङ्गयोर् आबद्धा बभूवुः
janako ha vaideho bahudakṣiṇena yajñeneje | tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvuḥ | tasya ha janakasya vaidehasya vijijñāsā babhūva -- kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti | sa ha gavāṃ sahasram avarurodha | daśadaśa pādā ekaikasyāḥ śṛṅgayor ābaddhā babhūvuḥ
Ganaka Vaideha (the king of the Videhas) sacrificed with a sacrifice at which many presents were offered to the priests of (the Asvamedha). BrAhmazzas of the Kurus and the Pazz/£Alas had come thither, and Ganaka Vaideha wished to know, which of those Brihmazzas was the best read. So he enclosed a thousand cows, and ten padas (of gold) were fastened to each pair of horns.
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
3.1.1 जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव -- कः स्विद् एषां ब्राह्मणानाम् अनूचानतम इति । स ह गवां सहस्रम् अवरुरोध । दशदश पादा एकैकस्याः शृङ्गयोर् आबद्धा बभूवुः 3.1.2 तान् होवाच -- ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजताम् इति । ते ह ब्राह्मणा न दधृषुः । अथ ह याज्ञवल्क्यः स्वम् एव ब्रह्मचारिणम् उवाच -- एताः सौम्योदज सामश्रवा३ इति । ता होदाचकार । ते ह ब्राह्मणाश् चुक्रुधुः: -- कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति । अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव । स हैनं पप्रच्छ -- त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठो ऽसी३ इति । स होवाच -- नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति । तं ह तत एव प्रष्टुं दध्रे होताश्वलः 3.1.3 याज्ञवल्क्येति होवाच -- यद् इदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योर् आप्तिम् अतिमुच्यत इति । होत्रर्त्विजाग्निना वाचा । वाग् वै यज्ञस्य होता । तद् येयं वाक् सो ऽयम् अग्निः स होता सा मुक्तिः सातिमुक्तिः 3.1.4 याज्ञवल्क्येति होवाच -- यद् इदं सर्वम् अहोरात्राभ्याम् आप्तं सर्वम् अहोरात्राभ्याम् अभिपन्नं केन यजमानो ऽहोरात्रयोर् आप्तिम् अतिमुच्यत इति । अध्वर्युणर्त्विजा चक्षुषादित्येन । चक्षुर् वै यज्ञस्याध्वर्युः । तद् यद् इदं चक्षुः सो ऽसाव् आदित्यः । सो ऽध्वर्युः सा मुक्तिः सातिमुक्तिः 3.1.5 याज्ञवल्क्येति होवाच -- यद् इदं सर्वं पूर्वपक्षापरपक्षाभ्याम् आप्तं सर्वं पूर्वपक्षापरपक्षाभ्याम् अभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोर् आप्तिम् अतिमुच्यत इति । उद्गात्रर्त्विजा वयुना प्राणेन । प्राणो वै यज्ञस्योद्गाता । तद् यो ऽयं प्राणः स वायुः स उद्गाता । स मुक्तिः सातिमुक्तिः 3.1.6 याज्ञवल्क्येति होवाच -- यद् इदम् अन्तरिक्षम् अनारम्बणम् इव केनाक्रमेण यजमानः स्वर्गं लोकम् आक्रमत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद् यद् इदं मनः सो ऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिर् इत्य् अतिमोक्षा । अथ संपदः 3.1.7 याज्ञवल्क्येति होवाच -- कतिभिर् अयम् अद्यर्ग्भिर् होतास्मिन् यज्ञे करिष्यतीति । तिसृभिर् इति । कतमास् तास् तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । किं ताभिर् जयतीति । यत् किञ्चेदं प्राणभृद् इति 3.1.8 याज्ञवल्क्येति होवाच -- कत्य् अयम् अद्याध्वर्युर् अस्मिन् यज्ञ आहुतीर् होष्यतीति । तिस्र इति । कतमास् तास् तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते । किं ताभिर् जयतीति । या हुता उज्ज्वलन्ति देवलोकम् एव ताभिर् जयति । दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकम् एव ताभिर् जयति । अतीव हि पितृलोकः । या हुता अधिशेरते मनुष्यलोकम् एव ताभिर् जयत्यि । अध इव हि मनुष्यलोकः 3.1.9 याज्ञवल्क्येति होवाच -- कतिभिर् अयम् अद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर् गोपायतीति । एकयेति । कतमा सैकेति । मन एवेति । अनन्तं वै मनो ऽनन्ता विश्वे देवाः । अनन्तम् एव स तेन लोकं जयति 3.1.10 याज्ञवल्क्येति होवाच -- कत्य् अयम् अद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास् तास् तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । कतमास् ताः । या अध्यात्मम् इति । प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या । किं ताभिर् जयतीति । पृथिवीलोकम् एव पुरोनुवाक्यया जयत्य् अन्तरिक्षलोकं याज्यया द्युलोकं शस्यया । ततो ह होताश्वल उपरराम Which verse says this?
Ganaka Vaideha (the king of the Videhas) sacrificed with a sacrifice at which many presents were offered to the priests of (the Asvamedha). BrAhmazzas of the Kurus and the Pazz/£Alas had come thither, and Ganaka Vaideha wished to know, which of those Brihmazzas was the best read. So he enclosed a thousand cows, and ten padas (of gold) were fastened to each pair of horns.
Translated by F. Max Müller
जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव -- कः स्विद् एषां ब्राह्मणानाम् अनूचानतम इति । स ह गवां सहस्रम् अवरुरोध । दशदश पादा एकैकस्याः शृङ्गयोर् आबद्धा बभूवुः याज्ञवल्क्येति होवाच -- यद् इदं सर्वम् अहोरात्राभ्याम् आप्तं सर्वम् अहोरात्राभ्याम् अभिपन्नं केन यजमानो ऽहोरात्रयोर् आप्तिम् अतिमुच्यत इति । अध्वर्युणर्त्विजा चक्षुषादित्येन । चक्षुर् वै यज्ञस्याध्वर्युः । तद् यद् इदं चक्षुः सो ऽसाव् आदित्यः । सो ऽध्वर्युः सा मुक्तिः सातिमुक्तिः तान् होवाच -- ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजताम् इति । ते ह ब्राह्मणा न दधृषुः । अथ ह याज्ञवल्क्यः स्वम् एव ब्रह्मचारिणम् उवाच -- एताः सौम्योदज सामश्रवा३ इति । ता होदाचकार । ते ह ब्राह्मणाश् चुक्रुधुः: -- कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति । अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव । स हैनं पप्रच्छ -- त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठो ऽसी३ इति । स होवाच -- नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति । तं ह तत एव प्रष्टुं दध्रे होताश्वलः See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.