0/35 readHide transliteration
अथ हैनं विदग्धः शाकल्यः पप्रच्छ -- कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्य् उच्यन्ते । त्रयश् च त्री च शता त्रयश् च त्री च सहस्रेति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । त्रयस्त्रिंशद् इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । षड् इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । त्रय इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । द्वाव् इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । अध्यर्ध इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । एक इति । ओम् इति होवाच । कतमे ते त्रयश् च त्री च शता त्रयश् च त्री च सहस्रेति
atha hainaṃ vidagdhaḥ śākalyaḥ papraccha -- kati devā yājñavalkyeti | sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividy ucyante | trayaś ca trī ca śatā trayaś ca trī ca sahasreti | om iti hovāca | katy eva devā yājñavalkyeti | trayastriṃśad iti | om iti hovāca | katy eva devā yājñavalkyeti | ṣaḍ iti | om iti hovāca | katy eva devā yājñavalkyeti | traya iti | om iti hovāca | katy eva devā yājñavalkyeti | dvāv iti | om iti hovāca | katy eva devā yājñavalkyeti | adhyardha iti | om iti hovāca | katy eva devā yājñavalkyeti | eka iti | om iti hovāca | katame te trayaś ca trī ca śatā trayaś ca trī ca sahasreti
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
3.9.1 अथ हैनं विदग्धः शाकल्यः पप्रच्छ -- कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्य् उच्यन्ते । त्रयश् च त्री च शता त्रयश् च त्री च सहस्रेति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । त्रयस्त्रिंशद् इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । षड् इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । त्रय इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । द्वाव् इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । अध्यर्ध इति । ओम् इति होवाच । कत्य् एव देवा याज्ञवल्क्येति । एक इति । ओम् इति होवाच । कतमे ते त्रयश् च त्री च शता त्रयश् च त्री च सहस्रेति 3.9.2 स होवाच -- महिमान एवैषाम् एते । त्रयस्त्रिंशत् त्व् एव देवा इति । कतमे ते त्रयस्त्रिंशद् इति । अष्टौ वसव एकादश रुद्रा द्वादशादित्याः त एकत्रिंशद् ऐन्द्रश् चैव प्रजापतिश् च त्रयस्त्रिंशाव् इति 3.9.3 कतमे वसव इति । अग्निश् च पृथिवी च वायुश् चान्तरिक्षं चादित्यश् च द्यौः च चन्द्रमाश् च नक्षत्राणि चैते वसवः । एतेषु हीदं सर्वं वसु हितं इति तस्माद् वसव इति 3.9.4 कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशः । ते यदास्माच् छरीरान् मर्त्याद् उत्क्रामन्त्य् अथ रोदयन्ति । तद् यद् रोदयन्ति तस्माद् रुद्रा इति 3.9.5 कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्याः । एते हीदं सर्वम् आददाना यन्ति । ते यद् इदं सर्वम् आददाना यन्ति तस्माद् आदित्या इति 3.9.6 कतम इन्द्रः कतमः प्रजापतिर् इति । स्तनयित्नुर् एवेन्द्रो यज्ञः प्रजापतिर् इति । कतमः स्तनयित्नुर् इति । अशनिर् इति । कतमो यज्ञ इति । पशव इति 3.9.7 कतमे षड् इति । अग्निश् च पृथिवी च वायुश् चान्तरिक्षश् चादित्यश् च द्यौश् चैते षट् । एते हीदं सर्वं षड् इति 3.9.8 कतमे ते त्रयो देवा इति । इम एव त्रयो लोकाः । एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवा इति । अन्नं चैव प्राणश् चेति । कतमो ऽध्यर्ध इति । यो ऽयं पवत इति 3.9.9 तद् आहुर् यद् अयम् एक इवैव पवते । अथ कथम् अध्यर्ध इति । यद् अस्मिन्न् इदं सर्वम् अध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति । स ब्रह्म त्यद् इत्य् आचक्षते 3.9.10 पृथिव्य् एव यस्यायतनम् अग्निर् लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं शारीरः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । अमृतम् इति होवाच 3.9.11 काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं काममयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । स्त्रिय इति होवाच 3.9.12 रूपाण्य् एव यस्यायतनं चक्षुर् लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवासाव् आदित्ये पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । सत्यम् इति होवाच 3.9.13 आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायम् श्रौतः प्रातिश्रुत्कः पुरुषः स एष । वदैव शाकल्य तस्य का देवतेति । दिश इति होवच 3.9.14 तम एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं छायामयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । मृत्युर् इति होवाच 3.9.15 रूपाण्य् एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायम् आदर्शे पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । सत्यम् इति होवाच 3.9.16 आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं अप्सु पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच 3.9.17 रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं पुत्रमयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । प्रजापतिर् इति होवाच 3.9.18 शाकल्येति होवाच याज्ञवल्क्यः । त्वां स्विद् इमे ब्राह्मणा अङ्गारावक्षयणम् अक्रता३ इति 3.9.19 याज्ञवल्क्येति होवाच शाकल्यः । यद् इदं कुरुपञ्चालानां ब्राह्मनान् अत्यवादीः किं ब्रह्म विद्वान् इति । दिशो वेद सदेवाः सप्रतिष्ठा इति । यद् दिशो वेत्थ सदेवाः सप्रतिष्ठाः 3.9.20 किंदेवतो ऽस्यां प्राच्यां दिश्य् असीति । आदित्यदेवत इति । स आदित्यः कस्मिन् प्रतिष्ठित इति । चक्षुषीति । कस्मिन् नु चक्षुः प्रतिष्ठितम् इति । रूपेष्व् इति । चक्षुषा हि रूपाणि पश्यति । कस्मिन् नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच । हृदयेन हि रूपाणि जानाति । हृदये ह्य् एव रूपाणि प्रतिष्ठितानि भवन्तीति । एवम् एवैतद् याज्ञवल्क्य 3.9.21 किंदेवतो ऽस्यां दक्षिणायां दिश्य् असीति । यमदेवत इति । स यमः कस्मिन् प्रतिष्ठित इति । यज्ञ इति । कस्मिन् नु यज्ञः प्रतिष्ठित इति । दक्षिणायाम् इति । कस्मिन् नु दक्षिणा प्रतिष्ठितेति । श्रद्धायाम् इति । यदा ह्य् एव श्रद्धत्ते ऽथ दक्षिणां ददाति । श्रद्धायां ह्य् एव दक्षिणा प्रतिष्ठितेति । कस्मिन् नु श्रद्धा प्रतिष्ठितेति । हृदय इति होवाच । हृदयेन हि श्रद्धाम् । हृदये ह्य् एव श्रद्धा प्रतिष्ठिता भवतीति । एवम् एवैतद् याज्ञवल्क्य 3.9.22 किंदेवतो ऽस्यां प्रतीच्यां दिश्य् असीति । वरुणदेवत इति । स वरुणः कस्मिन् प्रतिष्ठित इति । अप्स्व् इति । कस्मिन् न्व् आपः प्रतिष्ठिता इति । रेतसीति । कस्मिन् नु रेतः प्रतिष्ठितम् इति । हृदय इति । तस्माद् अपि प्रतिरूपं जातम् आहुर् हृदयाद् इव सृप्तो हृदयाद् इव निर्मित इति । हृदये ह्य् एव रेतः प्रतिष्ठितं भवतीति । एवम् एवैतद् याज्ञवल्क्य 3.9.23 किंदेवतो ऽस्याम् उदीच्यां दिश्य् असीति । सोमदेवत इति । स सोमः कस्मिन् प्रतिष्ठित इति । दीक्षायाम् इति । कस्मिन् नु दिक्षा प्रतिष्ठितेति । सत्य इति । तस्माद् अपि दीक्षितम् आहुः सत्यं वदेति । सत्ये ह्य् एव दीक्षा प्रतिष्ठितेति । कस्मिन् नु सत्यं प्रतिष्ठितम् इति । हृदय इति होवाच । हृदयेन हि सत्यं जानाति । हृदये ह्य् एव सत्यं प्रतिष्ठितं भवतीति । एवम् एवैतद् याज्ञवल्क्य 3.9.24 किंदेवतो ऽस्यां ध्रुवायां दिश्य् असीति । अग्निदेवत इति । सो ऽग्निः कस्मिन् प्रतिष्ठित इति । वाचीति । कस्मिन् नु वाक् प्रतिष्ठितेति । हृदय इति । कस्मिन् नु हृदयं प्रतिष्ठितम् इति 3.9.25 अहल्लिकेति होवाच याज्ञवल्क्यः । यत्रैतद् अन्यत्रास्मन् मन्यासै । यद् ध्य् एतद् अन्यत्रास्मत् स्याच् छ्वानो वैनद् अद्युर् वयांसि वैनद् विमथ्नीरन्न् इति 3.9.26 कस्मिन् नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन् नु प्राणः प्रतिष्ठित इति । अपान इति । कस्मिन् न्व् अपानः प्रतिष्ठित इति । व्यान इति । कस्मिन् नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन् नूदानः प्रतिष्ठित इति । समान इति । स एष नेति नेत्य् आत्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न सज्यते । असितो न व्यथते । न रिष्यति । एतान्य् अष्टाव् आयतनान्य् अष्टौ लोका अद्द्। अष्टौ देवा अष्टौ पुरुषाः । स यस् तान् पुरुषान् निरुह्य प्रत्युह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन् मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस् । तस्य ह मूर्धा विपपात । अपि हास्य परिमोषिणो ऽस्थीन्य् अपजह्रुर् अन्यन् मन्यमानाः 3.9.27 अथ होवाच -- ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु । सर्वे वा मा पृच्छत । यो वः कामयते तं वः पृच्छामि सर्वान् वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः 3.9.28.1 तान् हैतैः श्लोकैः पप्रच्छ -- यथा वृक्षो वनस्पतिस् तथैव पुरुषो ऽमृषा । तस्य लोमानि पर्णानि त्वग् अस्योत्पाटिका बहिः 3.9.28.2 त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात् तद् आतृण्णात् प्रैति रसो वृक्षाद् इवाहतात् 3.9.28.3 मांसान्य् अस्य शकराणि किनाटं स्नाव तत् स्थिरम् । अस्थीन्य् अन्तरतो दारुणि मज्जा मज्जोपमा कृता 3.9.28.4 यद् वृक्षो वृक्णो रोहति मूलान् नवतरः पुनः । मर्त्यः स्विन् मृत्युना वृक्णः कस्मान् मूलात् प्ररोहति 3.9.28.5 रेतस इति मा वोचत जीवतस् तत् प्रजायते । धानारुह इव वै वृक्षो ऽञ्जसा प्रेत्य सम्भवः 3.9.28.6 यत् समूलम् आवृहेयुर् वृक्षं न पुनर् आभवेत् । मर्त्यः स्विन् मृत्युना वृक्णः कस्मान् मूलात् प्ररोहति 3.9.28.7 जात एव न जायते को न्व् एनं जनयेत् पुनः । विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् 3.9.28.8 जात एव न जायते को न्व् एनं जनयेत् पुनः । विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् ॥ तिष्ठमानस्य तद्विद इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.