0/7 readHide transliteration
जनको ह वैदेह आसां चक्रे । अथ ह याज्ञवल्क्य आवव्राज । तं होवाच -- याज्ञवल्क्य किम् अर्थम् अचारीः पशून् इच्छन् अण्वन्तानीति । उभयम् एव संराड् इति होवाच
janako ha vaideha āsāṃ cakre | atha ha yājñavalkya āvavrāja | taṃ hovāca -- yājñavalkya kim artham acārīḥ paśūn icchan aṇvantānīti | ubhayam eva saṃrāḍ iti hovāca
When kanaka Vaideha was sitting (to give audience), Y ^»avalkya approached, and Ganaka Vaideha said: ‘ Y a^avalkya, for what object did you come, wishing for cattle, or for subtle questions?’ Yd^wavalkya replied: ‘ For both, Your Majesty;
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
4.1.1 जनको ह वैदेह आसां चक्रे । अथ ह याज्ञवल्क्य आवव्राज । तं होवाच -- याज्ञवल्क्य किम् अर्थम् अचारीः पशून् इच्छन् अण्वन्तानीति । उभयम् एव संराड् इति होवाच 4.1.2 यत् ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे जित्वा शैलिनिः -- वाग् वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छैलिनिर् अब्रवीद् वाग् वै ब्रह्मेति । अवदतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । वाग् एवायतनम् आकाशः प्रतिष्ठा प्रज्ञेत्य् एनद् उपासीत । का प्रज्ञता याज्ञवल्क्य । वाग् एव सम्राड् इति होवाच । वाचा वै सम्राड् बन्धुः प्रज्ञायते । ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्यानानीष्टं हुतम् आशितं पायितम् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि वाचैव संराट् प्रज्ञायन्ते । वाग् वै सम्राट् परमं ब्रह्म । नैनं वाग् जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति 4.1.3 यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् म उदङ्कः शौल्बायनः । प्राणो वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छौल्बायनो ऽब्रवीत् प्राणो वै ब्रह्मेति । अप्राणतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । प्राण एवायतनम् आकाशः प्रतिष्ठा । प्रियम् इत्य् एनद् उपासीत । का प्रियता याज्ञवल्क्य । प्राण एव सम्राड् इति होवाच । प्राणस्य वै सम्राट् कामायायाज्यं याजयति । अप्रतिगृह्यस्य प्रतिगृह्णाति । अपि तत्र वधाशङ्का भवति यां दिशम् एति प्राणस्यैव सम्राट् कामाय । प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहह् । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति 4.1.4 यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे बर्कुर् वार्ष्णः । चक्षुर् वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद् वार्ष्णो ऽब्रवीच् चक्षुर् वै ब्रह्मेति । अपश्यतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । चक्षुर् एवायतनम् आकाशः प्रतिष्ठा । सत्यम् इत्य् एतद् उपासीत । का सत्यता याज्ञवल्क्य । चक्षुर् एव सम्राड् इति होवाच । चक्षुषा वै सम्राट् पश्यन्तम् आहुर् अद्राक्षीर् इति । स आहाद्राक्षम् इति तत् सत्यं भवति । चक्षुर् वै सम्राट् परमं ब्रह्म । नैनम् चक्षुर् जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति 4.1.5 यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे गर्दभीविपीतो भारद्वाजः । श्रोत्रं वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद् भारद्वाजो ऽब्रवीच् छ्रोत्रं वै ब्रह्मेति । अशृण्वतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । श्रोत्रम् एवायतनम् आकाशः प्रतिष्ठानन्तम् इत्य् एनद् उपासीत । कानन्तता याज्ञवल्क्य । दिश एव सम्राड् इति होवाच । तस्माद् वै सम्राड् अपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति । अनन्ता हि दिशः । दिशो वै सम्राट् श्रोत्रम् । श्रोत्रं वै सम्राट् परमं ब्रह्म । नैनं श्रोत्रं जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति 4.1.6 यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे सत्यकामो जाबालः -- मनो वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तज् जाबालो ऽब्रवीन् मनो वै ब्रह्मेति । अमनसो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञावल्क्य । मन एवायतनम् आकाशः प्रतिष्ठानन्द इत्य् एनद् उपासीत । कानन्दता याज्ञवल्क्य । मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियम् अभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते । स आनन्दः । मनो वै सम्राट् परमं ब्रह्म । नैनं मनो जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति 4.1.7 यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे विदग्धः शाकल्यः । हृदयं वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छाकल्यो ऽब्रवीद् धृदयं वै ब्रह्मेति । अहृदयस्य हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । हृदयम् एवायतनम् आकाशः प्रतिष्ठा । स्थितिर् इत्य् एनद् उपासीत । का स्थितिता याज्ञवल्क्य । हृदयम् एव सम्राड् इति होवाच । हृदयं वै सम्राट् सर्वेषां भूतानाम् आयतनम् । हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा । हृदये ह्य् एव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । हृदयं वै सम्राट् परमं ब्रह्म । नैनं हृदयं जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति Which verse says this?
When kanaka Vaideha was sitting (to give audience), Y ^»avalkya approached, and Ganaka Vaideha said: ‘ Y a^avalkya, for what object did you come, wishing for cattle, or for subtle questions?’ Yd^wavalkya replied: ‘ For both, Your Majesty;
Translated by F. Max Müller
जनको ह वैदेह आसां चक्रे । अथ ह याज्ञवल्क्य आवव्राज । तं होवाच -- याज्ञवल्क्य किम् अर्थम् अचारीः पशून् इच्छन् अण्वन्तानीति । उभयम् एव संराड् इति होवाच यत् ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे जित्वा शैलिनिः -- वाग् वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच् छैलिनिर् अब्रवीद् वाग् वै ब्रह्मेति । अवदतो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । वाग् एवायतनम् आकाशः प्रतिष्ठा प्रज्ञेत्य् एनद् उपासीत । का प्रज्ञता याज्ञवल्क्य । वाग् एव सम्राड् इति होवाच । वाचा वै सम्राड् बन्धुः प्रज्ञायते । ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्यानानीष्टं हुतम् आशितं पायितम् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि वाचैव संराट् प्रज्ञायन्ते । वाग् वै सम्राट् परमं ब्रह्म । नैनं वाग् जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति यद् एव ते कश्चिद् अब्रवीत् तच् छृणवामेति । अब्रवीन् मे सत्यकामो जाबालः -- मनो वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तज् जाबालो ऽब्रवीन् मनो वै ब्रह्मेति । अमनसो हि किं स्याद् इति । अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । न मे ऽब्रवीद् इति । एकपाद् वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञावल्क्य । मन एवायतनम् आकाशः प्रतिष्ठानन्द इत्य् एनद् उपासीत । कानन्दता याज्ञवल्क्य । मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियम् अभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते । स आनन्दः । मनो वै सम्राट् परमं ब्रह्म । नैनं मनो जहाति । सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । देवो भूत्वा देवान् अप्येति । य एवं विद्वान् एतद् उपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः -- पिता मे ऽमन्यत नाननुशिष्य हरेतेति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.