0/15 readHide transliteration
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर् मैत्रेयी च कात्यायनी च । तयोर् ह मैत्रेयी ब्रह्मवादिनी बभूव । स्त्रीप्रज्ञैव तर्हि कात्यायनी । अथ ह याज्ञवल्क्यो ऽन्यद् वृत्तम् उपाकरिष्यन्
atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca | tayor ha maitreyī brahmavādinī babhūva | strīprajñaiva tarhi kātyāyanī | atha ha yājñavalkyo 'nyad vṛttam upākariṣyan
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
4.5.1 अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर् मैत्रेयी च कात्यायनी च । तयोर् ह मैत्रेयी ब्रह्मवादिनी बभूव । स्त्रीप्रज्ञैव तर्हि कात्यायनी । अथ ह याज्ञवल्क्यो ऽन्यद् वृत्तम् उपाकरिष्यन् 4.5.2 मैत्रेयीति होवाच याज्ञवल्क्यः । प्रव्रजिष्यन् वा अरे ऽहम् अस्मात् स्थानाद् अस्मि । हन्त ते ऽनया कत्यायन्यान्तं करवाणीति 4.5.3 सा होवाच मैत्रेयी -- यन् नु म इयम् भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां न्व् अहं तेनामृताहो३ नेति । नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितम् । तथैव ते जीवितं स्यात् । अमृतत्वस्य तु नाशास्ति वित्तेनेति 4.5.4 सा होवाच मैत्रेयी -- येनाहं नामृता स्याम् किम् अहं तेन कुर्याम् । यद् एव भगवान् वेद तद् एव मे ब्रूहीति 4.5.5 स होवाच याज्ञवल्क्यः -- प्रिया वै खलु नो भवती सती प्रियम् अवृधत् । हन्त तर्हि । भवत्य् एतद् व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति 4.5.6 स होवाच । न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस् तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्य् आत्मनस् तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य् आत्मनस् तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य् आत्मनस् तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः प्रियं भवत्य् आत्मनस् तु कामाय पशवः प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य् आत्मनस् तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य् आत्मनस् तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य् आत्मनस् तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य् आत्मनस् तु कामाय देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्य् आत्मनस् तु कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य् आत्मनस् तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस् तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् 4.5.7 ब्रह्म तं परादाद् यो ऽन्यत्रात्मनो वेदान् वेद । क्षत्रं तं परादाद् यो ऽन्यत्रात्मनः क्षत्रं वेद । लोकास् तं परादुर् यो ऽन्यत्रात्मनो लोकान् वेद । देवास् तं परादुर् यो ऽन्यत्रात्मनो देवान् वेद । वेदास् तं परादुर् यो ऽन्यत्रात्मनो वेदान् वेद । भूतानि तं परादुर् यो ऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद् यो ऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रम् इमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यद् अयम् आत्मा 4.5.8 स यथा दुन्दुभेर् हन्यमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय । दुन्दुभेस् तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः 4.5.9 स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय । शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः 4.5.10 स यथा वीणायै वाद्यमानायै न बाह्याञ् छब्दाञ् छक्नुयाद् ग्रहणाय । वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः 4.5.11 स यथार्द्रैधाग्नेर् अभ्याहितस्य पृथग् धूमा विनिश्चरन्त्य् एवं वा अरे ऽस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्याननीष्टं हुतम् आशितं पायितम् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि । अस्यैवैतानि सर्वाणि निश्वसितानि 4.5.12 स यथा सर्वासाम् अपां समुद्र एकायनम् । एवं सर्वेषां स्पर्शानां त्वग् एकायनम् । एवं सर्वेषां गन्धानां नासिके एकायनम् । एवं सर्वेषां रसानां जिह्वैकायनम् । एवं सर्वेषां रूपाणां चक्षुर् एकायनम् । एवं सर्वेषं शब्दानां श्रोत्रम् एकायनम् । एवं सर्वेषां संकल्पानां मन एकायनम् । एवं सर्वासां विद्यानां हृदयम् एकायनम् । एवं सर्वेषां कर्मणां हस्ताव् एकायनम् । एवं सर्वेषाम् आनन्दानाम् उपस्थ एकायनम् । एवं सर्वेषां विसर्गाणां पायुर् एकायनम् । एवं सर्वेषाम् अध्वनां पादाव् एकायनम् । एवं सर्वेषां वेदानां वाग् एकायनम् 4.5.13 स यथा सैन्धवघनो ऽनन्तरो ऽबाह्यः कृत्स्नो रसघन एव । एवं वा अरे ऽयम् आत्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनयति । न प्रेत्य संज्ञास्तीत्य् अरे ब्रवीमि । इति होवाच याज्ञवल्क्यः 4.5.14 सा होवाच मैत्रेयी -- अत्रैव मा भगवान् मोहान्तम् आपीपदत् । न वा अहम् इमं विजानामीति । स होवाच -- न वा अरे ऽहं मोहं ब्रवीमि । अविनाशी वा अरे ऽयम् आत्मानुच्छित्तिधर्मा 4.5.15 यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति, तद् इतर इतरं जिघ्रति, तद् इतर इतरं रसयते, तद् इतर इतरम् अभिवदति, तद् इतर इतरं शृणोति, तद् इतर इतरं मनुते। तद् इतर इतरं स्पृशति, तद् इतर इतरं विजानाति । यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् तत् केन कं जिघ्रेत् तत् केन कं रसयेत् तत् केन कम् अभिवदेत् तत् केन कं शृणुयात् तत् केन कं मन्वीत तत् केन कं स्पृशेत् तत् केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयात् । स एष नेति नेत्य् आत्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न हि सज्यते । असितो न व्यथते न रिष्यति । विज्ञातारम् अरे केन विजानीयाद् इत्य् उक्तानुशासनासि मैत्रेयि । एतावद् अरे खल्व् अमृतत्वम् इति होक्त्वा याज्ञवल्क्यो विजहार See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.