0/14 readHide transliteration
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च श्रेष्ठश् च स्वानां भवति । प्राणो वै ज्येष्ठश् च श्रेष्ठश् च । ज्येष्ठश् च श्रेष्ठश् च स्वानां भवति । अपि च येषां बुभूषति । य एवं वेद
yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati | prāṇo vai jyeṣṭhaś ca śreṣṭhaś ca | jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati | api ca yeṣāṃ bubhūṣati | ya evaṃ veda
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
6.1.1 यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च श्रेष्ठश् च स्वानां भवति । प्राणो वै ज्येष्ठश् च श्रेष्ठश् च । ज्येष्ठश् च श्रेष्ठश् च स्वानां भवति । अपि च येषां बुभूषति । य एवं वेद 6.1.2 यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । वाग् वै वसिष्ठा । वसिष्ठः स्वानां भवति । अपि च येषां बुभूषति । य एवं वेद 6.1.3 यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे । प्रतितिष्ठति दुर्गे । चक्षुर् वै प्रतिष्ठा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे । य एवं वेद 6.1.4 यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते । श्रोत्रं वै संपत् । श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः । सं हास्मै पद्यते यं कामं कामयते । य एवं वेद 6.1.5 यो ह वा आयतनं वेदायतनं स्वानां भवत्य् आयतनं जनानाम् । मनो वा आयतनम् । आयतनं स्वानां भवत्य् आयतनं जनानाम् । य एवं वेद 6.1.6 यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः । रेतो वै प्रजातिः । प्रजायते ह प्रजया पशुभिः । य एवं वेद 6.1.7 ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः । तद् धोचुः -- को नो वसिष्ठ इति । तद् धोवाच -- यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति 6.1.8 वाग् घोच्चक्राम । सा संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह वाक् 6.1.9 चक्षुर् होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथान्धा अपश्यन्तश् चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह चक्षुः 6.1.10 श्रोत्रं होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह श्रोत्रम् 6.1.11 मनो होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह मनः 6.1.12 रेतो होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवम् अजीविष्मेति । प्रविवेश ह रेतः 6.1.13 अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त् संवृहेद् एवं हैवेमान् प्राणान्त् संववर्ह । ते होचुः -- मा भगव उत्क्रमीः । न वै शक्ष्यामस् त्वद् ऋते जीवितुम् इति । तस्यो मे बलिं कुरुतेति । तथेति 6.1.14 सा ह वाग् उवाच -- यद् वा अहं वसिष्ठास्मि त्वं तद् वसिष्ठो ऽसीति । यद् वा अहं प्रतिष्ठास्मि त्वं तत् प्रतिष्ठो ऽसीति चक्षुः । यद् वा अहं संपद् अस्मि त्वं तत् संपद् असीति श्रोत्रम् । यद् वा अहम् आयतनम् अस्मि त्वं तद् आयतनम् असीति मनः । यद् वा अहं प्रजातिर् अस्मि त्वं तत् प्रजातिर् असीति रेतः । तस्यो मे किम् अन्नं किं वास इति । यद् इदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस् तत् ते ऽन्नम् । आपो वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवम् एतद् अनस्यान्नं वेद । तद् विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्य् अशित्वाचामन्ति । एतम् एव तद् अन्नम् अनग्नं कुर्वन्तो मन्यन्ते See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.