0/16 readHide transliteration
श्वेतकेतुर् वा आरुणेयः पन्चालानां परिषदम् आजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तम् उदीक्ष्याभ्युवाद कुमारा३ इति । स भो३ इति प्रतिशुश्राव । अनुशिष्टो न्व् असि पित्रेति । ओम् इति होवाच
śvetaketur vā āruṇeyaḥ pancālānāṃ pariṣadam ājagāma | sa ājagāma jaivaliṃ pravāhaṇaṃ paricārayamāṇam | tam udīkṣyābhyuvāda kumārā3 iti | sa bho3 iti pratiśuśrāva | anuśiṣṭo nv asi pitreti | om iti hovāca
Yvetaketu Aru^eya went to the settlement of the Pa»-£dlas. He came near to Pravaha^a Cai- vali, who was walking about (surrounded by his men). As soon as he (the king) saw him, he said: ‘ My boy!’ Avetaketu replied: ‘ Sir!’ Then the king said: ‘ Have you been taught by your father! ’ ‘ Yes,’ he replied.
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
6.2.1 श्वेतकेतुर् वा आरुणेयः पन्चालानां परिषदम् आजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तम् उदीक्ष्याभ्युवाद कुमारा३ इति । स भो३ इति प्रतिशुश्राव । अनुशिष्टो न्व् असि पित्रेति । ओम् इति होवाच 6.2.2 वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच । वेत्थो यथेमं लोकं पुनर् आपद्यन्ता३ इति । नेति हैवोवाच । वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर् न संपूर्यता३ इति । नेति हैवोवाच । वेत्थो यतिथ्याम् आहुत्यां हुतायाम् आपः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा । यत् कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । अपि हि न ऋषेर् वचः श्रुतं -- द्वे सृती अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् । ताभ्याम् इदं विश्वम् एजत् समेति यद् अन्तरा पितरं मातरं चेति । नाहम् अत एकं चन वेदेति होवाच 6.2.3 अथैनं वसत्योपमन्त्रयां चक्रे । अनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरम् । तं होवाच -- इति वाव किल नो भवान् पुरानुशिष्टान् अवोच इति । कथम् सुमेध इति । पञ्च मा प्रश्नान् राजन्यबन्धुर् अप्राक्षीत् । ततो नैकं चन वेदेति । कतमे त इति । इम इति ह प्रतीकान्य् उदाजहार 6.2.4 स होवाच -- तथा नस् त्वं तत जानीथा यथा यद् अहं किंच वेद सर्वम् अहं तत् तुभम् अवोचम् । प्रेहि तु तत्र । प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । भवान् एव गच्छत्व् इति । स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेर् आस । तस्मा आसनम् आहृत्योदकम् आहारयां चकार । अथ हास्मा अर्घ्यं चकार । तं होवाच -- वरं भगवते गौतमाय दद्म इति 6.2.5 स होवाच -- प्रतिज्ञतो म एष वरः । यां तु कुमारस्यान्ते वाचम् अभाषथास् तां मे ब्रूहीति 6.2.6 स होवाच -- दैवेषु वै गौतम तद् वरेषु । मानुषाणां ब्रूहीति 6.2.7 स होवाच -- विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य । मा नो भवान् बहोर् अनन्तस्यापर्यन्तस्याभ्यवदान्यो भूद् इति । स वै गौतम तीर्थेनेच्छसा इति । उपैम्य् अहं भवन्तम् इति । वाचा ह स्मैव पूर्व उपयन्ति । स होपायनकीर्त्योवास 6.2.8 स होवाच -- तथा नस् त्वम् गौतम मापराधास् तव च पितामहाः । यथेयं विद्येतः पूर्वं न कस्मिंश् चन ब्राह्मन उवास । तां त्व् अहं तुभ्यं वक्ष्यामि । को हि त्वैवं ब्रुवन्तम् अर्हति प्रत्याख्यातुम् इति 6.2.9 असौ वै लोको ऽग्निर् गौतम । तस्यादित्य एव समित् । रश्मयो धूमः । अहर् अर्चिः । दिशो ऽङ्गाराः । अवान्तरदिशो विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुत्यै सोमो राजा संभवति 6.2.10 पर्जन्यो वा अग्निर् गौतम । तस्य संवत्सर एव समित् । अभ्राणि धूमः । विद्युद् अर्चिः । अशनिर् अङ्गाराः । ह्रादुनयो विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुत्यै वृष्टिः संभवति 6.2.11 अयं वै लोको ऽग्निर् गौतम । तस्य पृथिव्य् एव समित् । अग्निर् धूमः । रात्रिर् अर्चिः । चन्द्रमा अङ्गाराः । नक्षत्राणि विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवा वृष्टिं जुह्वति । तस्या आहुत्या अन्नं संभवति 6.2.12 पुरुषो वा अग्निर् गौतम । तस्य व्यात्तम् एव समित् । प्राणो धूमः । वाग् अर्चिः । चक्षुर् अङ्गाराः । श्रोत्रं विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवा अन्नं जुह्वति । तस्या आहुत्यै रेतः संभवति 6.2.13 योषा वा अग्निर् गौतम । तस्या उपस्थ एव समित् । लोमानि धूमः । योनिर् अर्चिः । यद् अन्तः करोति ते ऽङ्गाराः । अभिनन्दा विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति । तस्या आहुत्यै पुरुषः संभवति । स जीवति यावज् जीवति । अथ यदा म्रियते 6.2.14 अथैनम् अग्नये हरन्ति । तस्याग्निर् एवाग्निर् भवति । समित् समित् । धूमो धूमः । अर्चिर् अर्चिः । अङ्गारा अङ्गाराः । विष्फुलिङ्गा विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवाः पुरुषं जुह्वति । तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति 6.2.15 ते य एवम् एतद् विदुर् ये चामी अरण्ये श्रद्धां सत्यम् उपासते ते ऽर्चिर् अभिसंभवन्ति । अर्चिषो ऽहः । अह्न आपूर्यमाणपक्षम् । आपूर्यमाणपक्षाद् यान् षण् मासान् उदङ्ङ् आदित्य एति । मासेभ्यो देवलोकम् । देवलोकाद् आदित्यम् । आदित्याद् वैद्युतम् । तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । तेषां न पुनर् आवृत्तिः 6.2.16 अथ ये यज्ञेन दानेन तपसा लोकाञ् जयन्ति ते धूमम् अभिसंभवन्ति । धूमाद् रात्रिम् । रात्रेर् अपक्षीयमाणपक्षम् । अपक्षीयमाणपक्षाद् यान् षण् मासान् दक्षिणादित्य एति । मासेभ्यः पितृलोकम् । पितृलोकाच् चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति । तांस् तत्र देवा यथा सोमं राजानम् आप्यायस्वापक्षीयस्वेत्य् एवम् एनांस् तत्र भक्षयन्ति । तेषां यदा तत् पर्यवैत्य् अथेमम् एवाकाशम् अभिनिष्पद्यन्ते । आकाशाद् वायुम् । वायोर् वृष्टिम् । वृष्टेः पृथिवीम् । ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते । लोकान् प्रत्युथायिनस् त एवम् एवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ न विदुस् ते कीटाः पतङ्गा यद् इदं दन्दशूकम् Which verse says this?
Yvetaketu Aru^eya went to the settlement of the Pa»-£dlas. He came near to Pravaha^a Cai- vali, who was walking about (surrounded by his men). As soon as he (the king) saw him, he said: ‘ My boy!’ Avetaketu replied: ‘ Sir!’ Then the king said: ‘ Have you been taught by your father! ’ ‘ Yes,’ he replied.
Translated by F. Max Müller
श्वेतकेतुर् वा आरुणेयः पन्चालानां परिषदम् आजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तम् उदीक्ष्याभ्युवाद कुमारा३ इति । स भो३ इति प्रतिशुश्राव । अनुशिष्टो न्व् असि पित्रेति । ओम् इति होवाच योषा वा अग्निर् गौतम । तस्या उपस्थ एव समित् । लोमानि धूमः । योनिर् अर्चिः । यद् अन्तः करोति ते ऽङ्गाराः । अभिनन्दा विष्फुलिङ्गाः । तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति । तस्या आहुत्यै पुरुषः संभवति । स जीवति यावज् जीवति । अथ यदा म्रियते स होवाच -- तथा नस् त्वं तत जानीथा यथा यद् अहं किंच वेद सर्वम् अहं तत् तुभम् अवोचम् । प्रेहि तु तत्र । प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । भवान् एव गच्छत्व् इति । स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेर् आस । तस्मा आसनम् आहृत्योदकम् आहारयां चकार । अथ हास्मा अर्घ्यं चकार । तं होवाच -- वरं भगवते गौतमाय दद्म इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.