0/10 readHide transliteration
ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत । ओम् इति ह्य् उद्गायति । तस्योपव्याख्यानम्
om ity etad akṣaram udgītham upāsīta | om iti hy udgāyati | tasyopavyākhyānam
Let a man meditate on the syllable Om, called the udgîtha; for the udgîtha (a portion of the Sâma-veda) is sung, beginning with Om. The full account, however, of Om is this:—
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
1.1.1 ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत । ओम् इति ह्य् उद्गायति । तस्योपव्याख्यानम् 1.1.2 एषां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपाम् ओषधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाग् रसः । वाच ऋग् रसः । ऋचः साम रसः । साम्न उद्गीथो रसः 1.1.3 स एष रसानां रसतमः परमः परार्ध्यो ऽष्टमो यदुद्गीथः 1.1.4 कतमा कतम र्क् कतमत् कतमत् साम कतमः कतम उद्गीथ इति विमृष्टं भवति 1.1.5 वाग् एवर्क् । प्राणः साम । ओम् इत्य् एतद् अक्षरम् उद्गीथः । तद् वा एतन् मिथुनं यद् वाक् च प्राणश् चर्क् च साम च 1.1.6 तद् एतन् मिथुनम् ओम् इत्य् एतस्मिन्न् अक्षरे संसृज्यते । यदा वै मिथुनौ समागच्छत आपयतो वै ताव् अन्यो ऽन्यस्य कामम् 1.1.7 आपयिता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते 1.1.8 तद् वा एतद् अनुज्ञाक्षरम् । यद् धि किंचानुजानात्य् ओम् इत्य् एव तद् आह । एषो एव समृद्धिर् यद् अनुज्ञा । समर्धयिता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते 1.1.9 तेनेयं त्रयी विद्या वर्तते । ओम् इत्य् आश्रावयति । ओम् इति शंसति । ओम् इत्य् उद्गायति । एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन 1.1.10 तेनोभौ कुरुतः । यश् चैतद् एवं वेद यश् च न वेद । नाना तु विद्या चाविद्या च । यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवतीति खल्व् एतस्यैवाक्षरस्योपव्याख्यानं भवति Which verse says this?
Let a man meditate on the syllable Om, called the udgîtha; for the udgîtha (a portion of the Sâma-veda) is sung, beginning with Om. The full account, however, of Om is this:—
Translated by F. Max Müller
ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत । ओम् इति ह्य् उद्गायति । तस्योपव्याख्यानम् तेनेयं त्रयी विद्या वर्तते । ओम् इत्य् आश्रावयति । ओम् इति शंसति । ओम् इत्य् उद्गायति । एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन एषां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपाम् ओषधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाग् रसः । वाच ऋग् रसः । ऋचः साम रसः । साम्न उद्गीथो रसः See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.