0/8 readHide transliteration
इयम् एवर्क् । अग्निः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । इयम् एव सा । अग्निर् अमः । तत् साम
iyam evark | agniḥ sāma | tad etad etasyām ṛcy adhyūḍhaṃ sāma | tasmād ṛcy adhyūḍhaṃ sāma gīyate | iyam eva sā | agnir amaḥ | tat sāma
The Rik (veda) is this earth, the Sâman (veda) is fire. This Sâman (fire) rests on that Rik (earth). Therefore the Sâman is sung as resting on the Rik. Sâ is this earth, ama is fire, and that makes Sâma.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
1.6.1 इयम् एवर्क् । अग्निः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । इयम् एव सा । अग्निर् अमः । तत् साम 1.6.2 अन्तरिक्षम् एवर्क् । वायुः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । अन्तरिक्षम् एव सा । वायुर् अमः । तत् साम 1.6.3 द्यौर् एवर्क् । आदित्यः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । द्यौर् एव सा । आदित्यो ऽमः । तत् साम 1.6.4 नक्षत्रान्य् एवर्क् । चन्द्रमाः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । नक्षत्राण्य् एव सा । चन्द्रमा अमः । तत् साम 1.6.5 अथ यद् एतद् आदित्यस्य शुक्लं भाः सैवर्क् । अथ यन् नीलं परःकृष्णं तत् साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्मद् ऋच्य् अध्यूढं साम गीयते 1.6.6 अथ यद् एवैतद् आदित्यस्य शुक्लं भाः सैव सा । अथ यन् नीलं परःकृष्णं तद् अमः । तत् साम । अथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर् हिरण्यकेश आ प्रणखात् सर्व एव सुवर्नः 1.6.7 तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी । तस्योद् इति नाम । स एष सर्वेभ्यः पाप्मभ्य उदितः । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद 1.6.8 तस्यर्क् च साम च गेष्णौ । तस्माद् उद्गीथः । तस्मात् त्व् एव उद्गाता । एतस्य हि गाता । स एष ये चामुष्मात् पराञ्चो लोकास् तेषां चेष्ट देवकामानां च । इत्य् अधिदैवतम् Which verse says this?
The Rik (veda) is this earth, the Sâman (veda) is fire. This Sâman (fire) rests on that Rik (earth). Therefore the Sâman is sung as resting on the Rik. Sâ is this earth, ama is fire, and that makes Sâma.
Translated by F. Max Müller
तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी । तस्योद् इति नाम । स एष सर्वेभ्यः पाप्मभ्य उदितः । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद इयम् एवर्क् । अग्निः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । इयम् एव सा । अग्निर् अमः । तत् साम द्यौर् एवर्क् । आदित्यः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । द्यौर् एव सा । आदित्यो ऽमः । तत् साम See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.