0/9 readHide transliteration
अथाध्यात्मम् । वाग् एवर्क् । प्राणः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । वाग् एव सा । प्राणो ऽमः । तत् साम
athādhyātmam | vāg evark | prāṇaḥ sāma | tad etad etasyām ṛcy adhyūḍhaṃ sāma | tasmād ṛcy adhyūḍhaṃ sāma gīyate | vāg eva sā | prāṇo 'maḥ | tat sāma
Now with reference to the body. Rik is speech, Sâman breath. This Sâman (breath) rests on that Rik (speech). Therefore the Sâman is sung as resting on the Rik. Sâ is speech, ama is breath, and that makes Sâma.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
1.7.1 अथाध्यात्मम् । वाग् एवर्क् । प्राणः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । वाग् एव सा । प्राणो ऽमः । तत् साम 1.7.2 चक्षुर् एवर्क् । आत्मा साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । चक्षुर् एव सा । आत्मामः । तत् साम 1.7.3 श्रोत्रम् एवर्क् । मनः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । श्रोत्रम् एव सा । मनो ऽमः । तत् साम 1.7.4 अथ यद् एतद् अक्ष्नः शुक्लं भाः सैवर्क् । अथ यन् नीलं परःकृष्णं तत् साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । अथ यद् एवैतद् अक्ष्णः शुक्लं भाः सैव सा । अथ यन् नीलं परःकृष्णं तद् अमः । तत् साम 1.7.5 अथ य एषो ऽन्तर् अक्षिणि पुरुषो दृश्यते सैवर्क् । तत् साम । तद् उक्थम् । तद् यजुः । तद् ब्रह्म । तस्य एतस्य तद् एव रूपं यद् अमुष्य रूपम् । याव् अमुष्य गेष्णौ तौ तौ गोष्णौ । यन् नाम तन् नाम 1.7.6 स एष ये चैतस्माद् अर्वाञ्चो लोकास् तेषां चेष्टे मनुष्यकामानां चेति । तद् य इमे वीणायां गायन्त्य् एतं ते गायन्ति । तस्मात् ते धनसनयः 1.7.7 अथ य एतद् एवं विद्वान् साम गायत्य् उभौ स गायति । सो ऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकास् तांश् चाप्नोति देवकामांश् च 1.7.8 अथानेनैव ये चैतस्माद् अर्वाञ्चो लोकास् तांश् चाप्नोति मनुष्यकामांश् च । तस्माद् उ हैवंविद् उद्गाता ब्रूयात् 1.7.9 कं ते कामम् आगायानीति । एष ह्य् एव कामागानस्येष्टे य एवं विद्वान् साम गायति साम गायति Which verse says this?
Now with reference to the body. Rik is speech, Sâman breath. This Sâman (breath) rests on that Rik (speech). Therefore the Sâman is sung as resting on the Rik. Sâ is speech, ama is breath, and that makes Sâma.
Translated by F. Max Müller
अथाध्यात्मम् । वाग् एवर्क् । प्राणः साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । वाग् एव सा । प्राणो ऽमः । तत् साम अथानेनैव ये चैतस्माद् अर्वाञ्चो लोकास् तांश् चाप्नोति मनुष्यकामांश् च । तस्माद् उ हैवंविद् उद्गाता ब्रूयात् चक्षुर् एवर्क् । आत्मा साम । तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । तस्माद् ऋच्य् अध्यूढं साम गीयते । चक्षुर् एव सा । आत्मामः । तत् साम See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.