0/6 readHide transliteration
अथ खल्व् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपासीत । हिङ्कार इति त्र्यक्षरम् । प्रस्ताव इति त्र्यक्षरम् । तत् समम्
atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta | hiṅkāra iti tryakṣaram | prastāva iti tryakṣaram | tat samam
Next let a man meditate on the sevenfold Sâman which is uniform in itself and leads beyond death. The word hinkâra has three syllables, the word prastâva has three syllables: that is equal (sama).
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
2.10.1 अथ खल्व् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपासीत । हिङ्कार इति त्र्यक्षरम् । प्रस्ताव इति त्र्यक्षरम् । तत् समम् 2.10.2 आदिर् इति द्व्यक्षरम् । प्रतिहार इति चतुरक्षरम् । तत इहैकम् । तत् समम् 2.10.3 उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस् त्रिभिः समं भवति । अक्षरम् अतिशिष्यते त्र्यक्षरम् । तत् समम् 2.10.4 निधनम् इति त्र्यक्षरम् । तत् समम् एव भवति । तानि ह वा एतानि द्वाविंशतिर् अक्षराणि 2.10.5 एकविंशत्यादित्यम् आप्नोति । एकविंशो वा इतो ऽसाव् आदित्यः । द्वाविंशेन परम् आदित्याज् जयति । तन् नाकम् । तद् विशोकम् 2.10.6 आप्नोतीहादित्यस्य जयम् । परो हास्यादित्यजयाज् जयो भवति य एतद् एवं विद्वान् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते Which verse says this?
Next let a man meditate on the sevenfold Sâman which is uniform in itself and leads beyond death. The word hinkâra has three syllables, the word prastâva has three syllables: that is equal (sama).
Translated by F. Max Müller
आदिर् इति द्व्यक्षरम् । प्रतिहार इति चतुरक्षरम् । तत इहैकम् । तत् समम् आप्नोतीहादित्यस्य जयम् । परो हास्यादित्यजयाज् जयो भवति य एतद् एवं विद्वान् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते अथ खल्व् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपासीत । हिङ्कार इति त्र्यक्षरम् । प्रस्ताव इति त्र्यक्षरम् । तत् समम् See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.