0/8 readHide transliteration
अथ खल्व् अमुम् आदित्यं सप्तविधं सामोपासीत । सर्वदा समस् तेन साम । मां प्रति मां प्रतीति सर्वेण समस् तेन साम
atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta | sarvadā samas tena sāma | māṃ prati māṃ pratīti sarveṇa samas tena sāma
Let a man meditate on the sevenfold Sâman as the sun. The sun is Sâman, because he is always the same (sama); he is Sâman because he is the same, everybody thinking he looks towards me, he looks towards me.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
2.9.1 अथ खल्व् अमुम् आदित्यं सप्तविधं सामोपासीत । सर्वदा समस् तेन साम । मां प्रति मां प्रतीति सर्वेण समस् तेन साम 2.9.2 तस्मिन्न् इमानि सर्वाणि भूतान्य् अन्वायत्तानीति विद्यात् । तस्य यत् पुरोदयात् स हिङ्कारः । तद् अस्य पशवो ऽन्वायत्ताः । तस्मात् ते हिङ्कुर्वन्ति । हिङ्कारभाजिनो ह्य् एतस्य साम्नः 2.9.3 अथ यत् प्रथमोदिते स प्रस्तावः । तद् अस्य मनुष्या अन्वायत्ताः । तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः । प्रस्तावभाजिनो ह्य् एतस्य साम्नः 2.9.4 अथ यत् संगववेलायां स आदिः । तद् अस्य वयांस्य् अन्वायत्तानि । तस्मात् तान्य् अन्तरिक्षे ऽनारम्भणान्य् आदायात्मानं परिपतन्ति । आदिभाजीनि ह्य् एतस्य साम्नः 2.9.5 अथ यत् संप्रति मध्यंदिने स उद्गीथः । तद् अस्य देवा अन्वायत्ताः । तस्मात् ते सत्तमाः प्राजापत्यानाम् । उद्गीथभाजिनो ह्य् एतस्य साम्नः 2.9.6 अथ यद् ऊर्ध्वं मध्यंदिनात् प्राग् अपराह्णात् स प्रतिहारः । तद् अस्य गर्भा अन्वायत्ताः । तस्मात् ते प्रतिहृता नावपद्यन्ते । प्रतिहारभाजिनो ह्य् एतस्य साम्नः 2.9.7 अथ यद् ऊर्ध्वम् अपराह्णात् प्राग् अस्तम् अयात् स उपद्रवः । तद् अस्यारण्या अन्वायत्ताः । तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रम् इत्य् उपद्रवन्ति । उपद्रवभाजिनो ह्य् एतस्य साम्नः 2.9.8 अथ यत् प्रथमास्तमिते तन् निधनम् । तद् अस्य पितरो ऽन्वायत्ताः । तस्मात् तान् निदधति । निधनभाजिनो ह्य् एतस्य साम्नः । एवं खल्व् अमुम् आदित्यं सप्तविधं सामोपास्ते Which verse says this?
Let a man meditate on the sevenfold Sâman as the sun. The sun is Sâman, because he is always the same (sama); he is Sâman because he is the same, everybody thinking he looks towards me, he looks towards me.
Translated by F. Max Müller
अथ यद् ऊर्ध्वम् अपराह्णात् प्राग् अस्तम् अयात् स उपद्रवः । तद् अस्यारण्या अन्वायत्ताः । तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रम् इत्य् उपद्रवन्ति । उपद्रवभाजिनो ह्य् एतस्य साम्नः अथ खल्व् अमुम् आदित्यं सप्तविधं सामोपासीत । सर्वदा समस् तेन साम । मां प्रति मां प्रतीति सर्वेण समस् तेन साम अथ यत् प्रथमोदिते स प्रस्तावः । तद् अस्य मनुष्या अन्वायत्ताः । तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः । प्रस्तावभाजिनो ह्य् एतस्य साम्नः See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.