0/7 readHide transliteration
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः । स यो ऽस्य प्राङ् सुषिः स प्राणः । तच् चक्षुः । स आदित्यः । तद् एतत् तेजो ऽन्नाद्यम् इत्य् उपासीत । तेजस्व्य् अन्नादो भवति य एवं वेद
tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ | sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ | tac cakṣuḥ | sa ādityaḥ | tad etat tejo 'nnādyam ity upāsīta | tejasvy annādo bhavati ya evaṃ veda
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
3.13.1 तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः । स यो ऽस्य प्राङ् सुषिः स प्राणः । तच् चक्षुः । स आदित्यः । तद् एतत् तेजो ऽन्नाद्यम् इत्य् उपासीत । तेजस्व्य् अन्नादो भवति य एवं वेद 3.13.2 अथ यो ऽस्य दक्षिणः सुषिः स व्यानः । तच् छ्रोत्रम् । स चन्द्रमाः । तद् एतच् छ्रीश् च यशश् चेत्य् उपासीत । श्रीमान् यशस्वी भवति य एवं वेद 3.13.3 अथ यो ऽस्य प्रत्यङ् सुषिः सो ऽपानः । सा वाक् । सो ऽग्निः । तद् एतद् ब्रह्मवर्चसम् अन्नाद्यम् इत्य् उपासीत । ब्रह्मवर्चस्य् अन्नादो भवति य एवं वेद 3.13.4 अथ यो ऽस्योदङ् सुषिः स समानः । तन् मनः । स पर्जन्यः । तद् एतत् कीर्तिश् च व्युष्टिश् चेत्युपासीत । कीर्तिमान् व्युष्टिमान् भवति य एवं वेद 3.13.5 अथ यो ऽस्योर्ध्वः सुषिः स उदानः । स वायुः । स आकाशः । तद् एतद् ओजश् च महश् चेत्य् उपासीत । ओजस्वी महस्वान् भवति य एवं वेद 3.13.6 ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः । स य एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदास्य कुले वीरो जायते । प्रतिपद्यते स्वर्गं लोकं य एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद 3.13.7 अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विश्वतःपृष्ठेषु सर्वतःपृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेष्व् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः । तस्यैषा दृष्टिर् यत्रैतद् अस्मिञ् छरीरे संस्पर्शेनोष्णिमानं विजानाति । तस्यैषा श्रुतिर् यत्रैतत् कर्णाव् अपिगृह्य निनदम् इव नदथुर् इवाग्नेर् इव ज्वलत उपशृनोति । तद् एतद् दृष्टं च श्रुतं चेत्य् उपासीत । चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.