0/9 readHide transliteration
गायत्री वा इदं सर्वं भूतं यद् इदम् किञ्च । वाग् वै गायत्री । वाग् वा इदं सर्वं भूतं गायति च त्रायते च
gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiñca | vāg vai gāyatrī | vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca
The Gâyatrî (verse) is everything whatsoever here exists. Gâyatrî indeed is speech, for speech sings forth (gâya-ti) and protects (trâya-te) everything that here exists.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
3.12.1 गायत्री वा इदं सर्वं भूतं यद् इदम् किञ्च । वाग् वै गायत्री । वाग् वा इदं सर्वं भूतं गायति च त्रायते च 3.12.2 या वै सा गायत्रीयं वाव सा येयं पृथिवी । अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् । एताम् एव नातिशीयते 3.12.3 या वै सा पृथिवीयं वाव सा यद् इदम् अस्मिन् पुरुषे शरीरम् । अस्मिन् हीमे प्राणाः प्रतिष्ठिताः । एतद् एव नातिशीयन्ते 3.12.4 यद् वै तत् पुरुषे शरीरम् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे हृदयम् । अस्मिन् हीमे प्राणाः प्रतिष्ठिताः । एतद् एव नातिशीयन्ते 3.12.5 सैषा चतुष्पदा षड्विधा गायत्री । तद् एतद् ऋचाभ्यनूक्तम् 3.12.6 तावान् अस्य महिमा ततो ज्यायांश् च पुरुषः । पादो ऽस्य सर्वा भूतानि त्रिपाद् अस्यामृतं दिवीति 3.12.7 यद् वै तद् ब्रह्मेतीदं वाव तद् यो ऽयं बहिर्धा पुरुषाद् आकाशः । यो वै स बहिर्धा पुरुषाद् आकाशः 3.12.8 अयं वाव स यो ऽयम् अन्तः पुरुष आकाशः । यो वै सो ऽन्तः पुरुष आकाशः 3.12.9 अयं वाव स यो ऽयम् अन्तर्हृदय आकाशः । तद् एतत् पूर्णम् अप्रवर्ति । पूर्णम् अप्रवर्तिनीं श्रियं लभते य एवं वेद Which verse says this?
The Gâyatrî (verse) is everything whatsoever here exists. Gâyatrî indeed is speech, for speech sings forth (gâya-ti) and protects (trâya-te) everything that here exists.
Translated by F. Max Müller
गायत्री वा इदं सर्वं भूतं यद् इदम् किञ्च । वाग् वै गायत्री । वाग् वा इदं सर्वं भूतं गायति च त्रायते च अयं वाव स यो ऽयम् अन्तः पुरुष आकाशः । यो वै सो ऽन्तः पुरुष आकाशः या वै सा गायत्रीयं वाव सा येयं पृथिवी । अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् । एताम् एव नातिशीयते See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.