0/7 readHide transliteration
पुरुषो वाव यज्ञः । तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातःसवनम् । चतुर्विंशत्यक्षरा गायत्री । गायत्रं प्रातःसवनम् । तद् अस्य वसवो ऽन्वायत्ताः । प्राणा वाव वसवः । एते हीदं सर्वं वासयन्ति
puruṣo vāva yajñaḥ | tasya yāni caturviṃśativarṣāṇi tat prātaḥsavanam | caturviṃśatyakṣarā gāyatrī | gāyatraṃ prātaḥsavanam | tad asya vasavo 'nvāyattāḥ | prāṇā vāva vasavaḥ | ete hīdaṃ sarvaṃ vāsayanti
Man is sacrifice. His (first) twenty-four years are the morning-libation. The Gâyatrî has twenty-four syllables, the morning-libation is offered with Gâyatrî hymns. The Vasus are connected with that part of the sacrifice. The Prânas (the five senses) are the Vasus, for they make all this to abide (vâsayanti).
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
3.16.1 पुरुषो वाव यज्ञः । तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातःसवनम् । चतुर्विंशत्यक्षरा गायत्री । गायत्रं प्रातःसवनम् । तद् अस्य वसवो ऽन्वायत्ताः । प्राणा वाव वसवः । एते हीदं सर्वं वासयन्ति 3.16.2 तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् । प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनं सवनम् अनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेति । उद् धैव तत एत्य् अगदो ह भवति 3.16.3 अथ यानि चतुश्चत्वारिंशद् वर्षाणि तन् माध्यंदिनं सवनम् । चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । त्रैष्टुभं माध्यंदिनं सवनम् । तद् अस्य रुद्रा अन्वायत्ताः । प्राणा वाव रुद्राः । एते हीदं सर्वं रोदयन्ति 3.16.4 तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् । प्राणा रुद्रा इदं मे माध्यंदिनं सवनं तृतीयसवनम् अनुसंतनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेति । उद् धैव तत एत्य् अगदो ह भवति 3.16.5 अथ यान्य् अष्टाचत्वारिंशद् वर्षाणि तत् तृतीयसवनम् । अष्टाचत्वारिंशदक्षरा जगती । जागतं तृतीयसवनम् । तद् अस्यादित्या अन्वायत्ताः । प्राणा वावादित्याः । एते हीदं सर्वम् आददते 3.16.6 तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् । प्राणा आदित्या इदं मे तृतीयसवनम् आयुर् अनुसंतनुतेति माहं प्राणानाम् आदित्यानां मध्ये यज्ञो विलोप्सीयेति । उद् धैव तत एत्य् अगदो हैव भवति 3.16.7 एतद् ध स्म वै तद् विद्वान् आह महिदास ऐतरेयः । स किं म एतद् उपतपसि यो ऽहम् अनेन न प्रेष्याम् इति । स ह षोडशं वर्षशतम् अजीवत् । प्र ह षोडशं वर्षशतं जीवति य एवं वेद Which verse says this?
Man is sacrifice. His (first) twenty-four years are the morning-libation. The Gâyatrî has twenty-four syllables, the morning-libation is offered with Gâyatrî hymns. The Vasus are connected with that part of the sacrifice. The Prânas (the five senses) are the Vasus, for they make all this to abide (vâsayanti).
Translated by F. Max Müller
पुरुषो वाव यज्ञः । तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातःसवनम् । चतुर्विंशत्यक्षरा गायत्री । गायत्रं प्रातःसवनम् । तद् अस्य वसवो ऽन्वायत्ताः । प्राणा वाव वसवः । एते हीदं सर्वं वासयन्ति तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् । प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनं सवनम् अनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेति । उद् धैव तत एत्य् अगदो ह भवति तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् । प्राणा आदित्या इदं मे तृतीयसवनम् आयुर् अनुसंतनुतेति माहं प्राणानाम् आदित्यानां मध्ये यज्ञो विलोप्सीयेति । उद् धैव तत एत्य् अगदो हैव भवति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.