0/8 readHide transliteration
वायुर् वाव संवर्गः । यदा वा अग्निर् उद्वायति वायुम् एवाप्येति । यदा सूर्यो ऽस्तम् एति वायुम् एवाप्येति । यदा चन्द्रो ऽस्तम् एति वायुम् एवाप्येति
vāyur vāva saṃvargaḥ | yadā vā agnir udvāyati vāyum evāpyeti | yadā sūryo 'stam eti vāyum evāpyeti | yadā candro 'stam eti vāyum evāpyeti
'Air (vâyu) is indeed the end of all. For when fire goes out, it goes into air. When the sun goes down, it goes into air. When the moon goes down, it goes into air.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
4.3.1 वायुर् वाव संवर्गः । यदा वा अग्निर् उद्वायति वायुम् एवाप्येति । यदा सूर्यो ऽस्तम् एति वायुम् एवाप्येति । यदा चन्द्रो ऽस्तम् एति वायुम् एवाप्येति 4.3.2 यदाप उच्छुष्यन्ति वायुम् एवापियन्ति । वायुर् ह्य् एवैतान् सर्वान् संवृङ्क्ते । इत्य् अधिदैवतम् 4.3.3 अथाध्यात्मम् । प्राणो वाव सम्वर्गः । स यदा स्वपिति प्राणम् एव वाग् अप्य् एति । प्राणं चक्षुः । प्राणं श्रोत्रम् । प्राणं मनः । प्राणो ह्य् एवैतान् सर्वान् संवृङ्क्त इति 4.3.4 तौ वा एतौ द्वौ सम्वर्गौ । वायुर् एव देवेषु प्राणः प्राणेषु 4.3.5 अथ ह शौनकं च कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे । तस्मा उ ह न ददतुः 4.3.6 स होवाच । महात्मनश् चतुरो देव एकः कः स जगार भुवनस्य गोपाः । तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तम् । यस्मै वा एतद् अन्नं तस्मा एतन् न दत्तम् इति 4.3.7 तद् उ ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय । आत्मा देवानां जनिता प्रजानां हिरङ्यदंष्ट्रो बभसो ऽनसूरिः । महान्तम् अस्य महिमानम् आहुर् अनद्यमानो यद् अनन्नम् अत्ति । इति वै वयम् ब्रह्मचारिन् नेदम् उपास्महे दत्तास्मै भिक्षाम् इति 4.3.8 तस्मै उ ह ददुः । ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस् तत् कृतम् । तस्मात् सर्वासु दिक्ष्व् अन्नम् एव दश कृतम् । सैषा विराड् अन्नादी । तयेदं सर्वं दृष्टम् । सर्वम् अस्य इदं दृष्टं भवत्य् अन्नादो भवति य एवं वेद य एवं वेद Which verse says this?
'Air (vâyu) is indeed the end of all. For when fire goes out, it goes into air. When the sun goes down, it goes into air. When the moon goes down, it goes into air.
Translated by F. Max Müller
तद् उ ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय । आत्मा देवानां जनिता प्रजानां हिरङ्यदंष्ट्रो बभसो ऽनसूरिः । महान्तम् अस्य महिमानम् आहुर् अनद्यमानो यद् अनन्नम् अत्ति । इति वै वयम् ब्रह्मचारिन् नेदम् उपास्महे दत्तास्मै भिक्षाम् इति वायुर् वाव संवर्गः । यदा वा अग्निर् उद्वायति वायुम् एवाप्येति । यदा सूर्यो ऽस्तम् एति वायुम् एवाप्येति । यदा चन्द्रो ऽस्तम् एति वायुम् एवाप्येति अथाध्यात्मम् । प्राणो वाव सम्वर्गः । स यदा स्वपिति प्राणम् एव वाग् अप्य् एति । प्राणं चक्षुः । प्राणं श्रोत्रम् । प्राणं मनः । प्राणो ह्य् एवैतान् सर्वान् संवृङ्क्त इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.