0/6 readHide transliteration
षोडशकलः सोम्य पुरुषः । पञ्चदशाहानि माशीः । कामम् अपः पिब । आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति
ṣoḍaśakalaḥ somya puruṣaḥ | pañcadaśāhāni māśīḥ | kāmam apaḥ piba | āpomayaḥ prāṇo na pibato vicchetsyata iti
'Man (purusha), my son, consists of sixteen parts. Abstain from food for fifteen days, but drink as much water as you like, for breath comes from water, and will not be cut off, if you drink water.'
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
6.7.1 षोडशकलः सोम्य पुरुषः । पञ्चदशाहानि माशीः । कामम् अपः पिब । आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति 6.7.2 स ह पञ्चदशाहानि नाश । अथ हैनम् उपससाद किं ब्रवीमि भो इति । ऋचः सोम्य यजूंषि सामानीति । स होवाच न वै मा प्रतिभान्ति भो इति 6.7.3 तं होवाच यथा सोम्य महतो ऽभ्याहितस्यैको ऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् । तेन ततो ऽपि न बहु दहेत् । एवं सोम्य ते षोडशानां कलानाम् एका कला अतिशिष्टा स्यात् । तयैतर्हि वेदान् नानुभवसि । अशान । अथ मे विज्ञास्यसीति 6.7.4 स हाश । अथ हैनम् उपससाद । तं ह यत् किं च पप्रच्छ सर्वं ह प्रतिपेदे 6.7.5 तं होवाच । यथा सोम्य महतो ऽभ्याहितस्यैकम् अङ्गारं खद्योतमात्रं परिशिष्टं तं तृनैर् उपसमाधाय प्राज्वलयेत् तेन ततो ऽपि बहु दहेत् 6.7.6 एवं सोम्य ते षोडशानां कलानाम् एका कलातिशिष्टाभूत् । सान्नेनोपसमाहिता प्राज्वाली । तयैतर्हि वेदान् अनुभवसि । अन्नमयं हि सोम्य मनः । आपोमयः प्राणः । तेजोमयी वाग् इति । तद् धास्य विजज्ञाव् इति विजज्ञाव् इति Which verse says this?
'Man (purusha), my son, consists of sixteen parts. Abstain from food for fifteen days, but drink as much water as you like, for breath comes from water, and will not be cut off, if you drink water.'
Translated by F. Max Müller
स ह पञ्चदशाहानि नाश । अथ हैनम् उपससाद किं ब्रवीमि भो इति । ऋचः सोम्य यजूंषि सामानीति । स होवाच न वै मा प्रतिभान्ति भो इति एवं सोम्य ते षोडशानां कलानाम् एका कलातिशिष्टाभूत् । सान्नेनोपसमाहिता प्राज्वाली । तयैतर्हि वेदान् अनुभवसि । अन्नमयं हि सोम्य मनः । आपोमयः प्राणः । तेजोमयी वाग् इति । तद् धास्य विजज्ञाव् इति विजज्ञाव् इति षोडशकलः सोम्य पुरुषः । पञ्चदशाहानि माशीः । कामम् अपः पिब । आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.