0/7 readHide transliteration
उद्दालको हारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सोम्य विजानीहीति । यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति । स्वम् अपीतो भवति । तस्माद् एनं स्वपितीत्य् आचक्षते । स्वं ह्य् अपीतो भवति
uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti | yatraitat puruṣaḥ svapiti nāma satā somya tadā saṃpanno bhavati | svam apīto bhavati | tasmād enaṃ svapitīty ācakṣate | svaṃ hy apīto bhavati
Uddâlaka Âruni said to his son Svetaketu: 'Learn from me the true nature of sleep (svapna). When a man sleeps here, then, my dear son, he becomes united with the True, he is gone to his own (Self). Therefore they say, svapit|i, he sleeps, because he is gone (apîta) to his own (sva).
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
6.8.1 उद्दालको हारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सोम्य विजानीहीति । यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति । स्वम् अपीतो भवति । तस्माद् एनं स्वपितीत्य् आचक्षते । स्वं ह्य् अपीतो भवति 6.8.2 स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा बन्धनम् एवोपश्रयते । एवम् एव खलु सोम्य तन् मनो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा प्राणम् एवोपश्रयते । प्राणबन्धनं हि सोम्य मन इति 6.8.3 अशनापिपासे मे सोम्य विजानीहीति । यत्रैतत् पुरुषो ऽशिशिषति नामाप एव तद् अशितं नयन्ते । तद् यथा गोनायो ऽश्वनायः पुरुषनाय इत्य् एवं तद् अप आचक्षते ऽशनायेति । तत्रैतच् छुङ्गम् उत्पतितं सोम्य विजानीहि । नेदम् अमूलं भविष्यतीति 6.8.4 तस्य क्व मूलं स्याद् अन्यत्रान्नात् । एवम् एव खलु सोम्यान्नेन शुङ्गेनापो मूलम् अन्विच्छ । अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ । तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः 6.8.5 अथ यत्रैतत् पुरुषः पिपासति नाम तेज एव तत् पीतं नयते । तद् यथा गोनायो ऽश्वनायः पुरुषनाय इत्य् एवं तत् तेज आचष्ट उदन्येति । तत्रैतद् एव शुङ्गम् उत्पतितं सोम्य विजानीहि । नेदम् अमूलं भविष्यतीति 6.8.6 तस्य क्व मूलं स्याद् अन्यत्राद्भ्यः । अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ । तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सद् आयतनाः सत्प्रतिष्ठाः । यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तद् उक्तं पुरस्ताद् एव भवति । अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् 6.8.7 स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच Which verse says this?
Uddâlaka Âruni said to his son Svetaketu: 'Learn from me the true nature of sleep (svapna). When a man sleeps here, then, my dear son, he becomes united with the True, he is gone to his own (Self). Therefore they say, svapit|i, he sleeps, because he is gone (apîta) to his own (sva).
Translated by F. Max Müller
उद्दालको हारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सोम्य विजानीहीति । यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति । स्वम् अपीतो भवति । तस्माद् एनं स्वपितीत्य् आचक्षते । स्वं ह्य् अपीतो भवति स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा बन्धनम् एवोपश्रयते । एवम् एव खलु सोम्य तन् मनो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा प्राणम् एवोपश्रयते । प्राणबन्धनं हि सोम्य मन इति तस्य क्व मूलं स्याद् अन्यत्राद्भ्यः । अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ । तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सद् आयतनाः सत्प्रतिष्ठाः । यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तद् उक्तं पुरस्ताद् एव भवति । अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.