0/4 readHide transliteration
प्राणो वाव आशाया भूयान् । यथा वा अरा नाभौ समर्पिता एवम् अस्मिन् प्राणे सर्वं समर्पितम् । प्राणः प्राणेन याति । प्राणः प्राणं ददाति । प्राणाय ददाति । प्राणो ह पिता । प्राणो माता । प्राणो भ्राता । प्राणः स्वसा । प्राण आचार्यः । प्राणो ब्राह्मणः
prāṇo vāva āśāyā bhūyān | yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam | prāṇaḥ prāṇena yāti | prāṇaḥ prāṇaṃ dadāti | prāṇāya dadāti | prāṇo ha pitā | prāṇo mātā | prāṇo bhrātā | prāṇaḥ svasā | prāṇa ācāryaḥ | prāṇo brāhmaṇaḥ
'Spirit (prâna) is better than hope. As the spokes of a wheel hold to the nave, so does all this (beginning with names and ending in hope) hold to spirit. That spirit moves by the spirit, it gives spirit to the spirit. Father means spirit, mother is spirit, brother is spirit, sister is spirit, tutor is spirit, Brâhmana is spirit.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
7.15.1 प्राणो वाव आशाया भूयान् । यथा वा अरा नाभौ समर्पिता एवम् अस्मिन् प्राणे सर्वं समर्पितम् । प्राणः प्राणेन याति । प्राणः प्राणं ददाति । प्राणाय ददाति । प्राणो ह पिता । प्राणो माता । प्राणो भ्राता । प्राणः स्वसा । प्राण आचार्यः । प्राणो ब्राह्मणः 7.15.2 स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिद् भृशम् इव प्रत्याह । धिक् त्वास्त्व् इत्य् एवैनम् आहुः । पितृहा वै त्वम् असि मातृहा वै त्वम् असि भ्रातृहा वै त्वम् असि स्वसृहा वै त्वम् अस्य् आचार्यहा वै त्वम् असि ब्राह्मणहा वै त्वम् असीति 7.15.3 अथ यद्य् अप्य् एनान् उत्क्रान्तप्राणाञ् छूलेन समासं व्यतिषंदहेत् । नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति 7.15.4 प्राणो ह्य् एवैतानि सर्वाणि भवति । स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् अतिवादी भवति । तं चेद् ब्रूयुर् अतिवाद्य् असीति । अतिवाद्य् अस्मीति ब्रूयात् । नापह्नुवीत Which verse says this?
'Spirit (prâna) is better than hope. As the spokes of a wheel hold to the nave, so does all this (beginning with names and ending in hope) hold to spirit. That spirit moves by the spirit, it gives spirit to the spirit. Father means spirit, mother is spirit, brother is spirit, sister is spirit, tutor is spirit, Brâhmana is spirit.
Translated by F. Max Müller
प्राणो वाव आशाया भूयान् । यथा वा अरा नाभौ समर्पिता एवम् अस्मिन् प्राणे सर्वं समर्पितम् । प्राणः प्राणेन याति । प्राणः प्राणं ददाति । प्राणाय ददाति । प्राणो ह पिता । प्राणो माता । प्राणो भ्राता । प्राणः स्वसा । प्राण आचार्यः । प्राणो ब्राह्मणः प्राणो ह्य् एवैतानि सर्वाणि भवति । स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् अतिवादी भवति । तं चेद् ब्रूयुर् अतिवाद्य् असीति । अतिवाद्य् अस्मीति ब्रूयात् । नापह्नुवीत स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिद् भृशम् इव प्रत्याह । धिक् त्वास्त्व् इत्य् एवैनम् आहुः । पितृहा वै त्वम् असि मातृहा वै त्वम् असि भ्रातृहा वै त्वम् असि स्वसृहा वै त्वम् अस्य् आचार्यहा वै त्वम् असि ब्राह्मणहा वै त्वम् असीति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.