0/3 readHide transliteration
संकल्पो वाव मनसो भूयान् । यदा वै संकल्पयते ऽथ मनस्यति । अथ वाचम् ईरयति । ताम् उ नाम्नीयूअति । नाम्नि मन्त्रा एकं भवन्ति । मन्त्रेषु कर्माणि
saṃkalpo vāva manaso bhūyān | yadā vai saṃkalpayate 'tha manasyati | atha vācam īrayati | tām u nāmnīyūati | nāmni mantrā ekaṃ bhavanti | mantreṣu karmāṇi
'Will (saṅkalpa) is better than mind. For when a man wills, then he thinks in his mind, then he sends forth speech, and he sends it forth in a name. In a name the sacred hymns are contained, in the sacred hymns all sacrifices.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
7.4.1 संकल्पो वाव मनसो भूयान् । यदा वै संकल्पयते ऽथ मनस्यति । अथ वाचम् ईरयति । ताम् उ नाम्नीयूअति । नाम्नि मन्त्रा एकं भवन्ति । मन्त्रेषु कर्माणि 7.4.2 तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि । समकॢपतां द्यावापृथिवी । समकल्पेतां वायुश् चाकाशं च । समकल्पन्तापश् च तेजश् च । तेषां संकॢप्त्यै वर्षं संकल्पते । वर्षस्य संकॢप्त्या अन्नं संकल्पते । अन्नस्य संकॢप्त्यै प्राणाः संकल्पन्ते । प्राणानां संकॢप्त्यै मन्त्राः संकल्पन्ते । मन्त्राणां संकॢप्त्यै कर्माणि संकल्पन्ते । कर्मणां संकॢप्त्यै लोकः संकल्पते । लोकस्य संकॢप्त्यै सर्वं संकल्पते । स एष संकल्पः । संकल्पम् उपास्स्वेति 7.4.3 स यः संकल्पं ब्रह्मेत्य् उपास्ते । कॢप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति । यावत् संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः संकल्पं ब्रह्मेत्य् उपास्ते । अस्ति भगवः संकल्पाद् भूय इति । संकल्पाद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.