0/3 readHide transliteration
चित्तं वाव संकल्पाद् भूयः । यदा वै चेतयते ऽथ संकल्पयते । अथ मनस्यति । अथ वाचम् ईरयति । ताम् उ नाम्नीयूअति । नाम्नि मन्त्रा एकं भवन्ति । मन्त्रेषु कर्माणि
cittaṃ vāva saṃkalpād bhūyaḥ | yadā vai cetayate 'tha saṃkalpayate | atha manasyati | atha vācam īrayati | tām u nāmnīyūati | nāmni mantrā ekaṃ bhavanti | mantreṣu karmāṇi
Consideration (kitta) is better than will. For when a man considers, then he wills, then he thinks in his mind, then he sends forth speech, and he sends it forth in a name. In a name the sacred hymns are contained, in the sacred hymns all sacrifices.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
7.5.1 चित्तं वाव संकल्पाद् भूयः । यदा वै चेतयते ऽथ संकल्पयते । अथ मनस्यति । अथ वाचम् ईरयति । ताम् उ नाम्नीयूअति । नाम्नि मन्त्रा एकं भवन्ति । मन्त्रेषु कर्माणि 7.5.2 तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि । तस्माद् यद्य् अपि बहुविद् अचित्तो भवति नायम् अस्तीत्य् एवैनम् आहुः । यद् अयं वेद यद् वा अयं विद्वान् नेत्थम् अचित्तः स्याद् इति । अथ यद्य् अल्पविच् चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते । चित्तं ह्य् एवैषाम् एकायनम् । चित्तम् आत्मा । चित्तं प्रतिष्ठा । चित्तम् उपास्स्वेति 7.5.3 स यश् चित्तं ब्रह्मेत्य् उपास्ते । चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति । यावच् चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश् चित्तं ब्रह्मेत्य् उपास्ते । अस्ति भगवश् चित्ताद् भूय इति । चित्ताद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.