0/4 readHide transliteration
अथ यद् यज्ञ इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एव यो ज्ञाता तं विन्दते । अथ यद् इष्टम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एवेष्ट्वात्मानम् अनुविन्दते
atha yad yajña ity ācakṣate brahmacaryam eva tat | brahmacaryeṇa hy eva yo jñātā taṃ vindate | atha yad iṣṭam ity ācakṣate brahmacaryam eva tat | brahmacaryeṇa hy eveṣṭvātmānam anuvindate
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
8.5.1 अथ यद् यज्ञ इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एव यो ज्ञाता तं विन्दते । अथ यद् इष्टम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एवेष्ट्वात्मानम् अनुविन्दते 8.5.2 अथ यत् सत्त्रायणम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एव सत आत्मनस् त्राणं विन्दते । अथ यन् मौनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एवात्मानम् अनुविद्य मनुते 8.5.3 अथ यद् अनाशकायनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । एष ह्य् आत्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते । अथ यद् अरण्यायनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । तत् अरश् च ह वै ण्यश् चार्णवौ ब्रह्मलोके तृतीयस्याम् इतो दिवि । तद् ऐरंमदीयं सरः । तद् अश्वत्थः सोमसवनः । तद् अपराजिता पूर् ब्रह्मणः प्रभुविमितं हिरण्मयम् 8.5.4 तद् य एवैताव् अरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषाम् एवैष ब्रह्मलोकः । तेषां सर्वेषु लोकेषु कामचारो भवति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.