0/4 readHide transliteration
य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः । स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति ह प्रजापतिर् उवाच
ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ | sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
8.7.1 य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः । स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति ह प्रजापतिर् उवाच 8.7.2 तद् धोभये देवासुरा अनुबुबुधिरे । ते होचुर् हन्त तम् आत्मआनम् अन्वेच्छामो यम् आत्मानम् अन्विष्य सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् इति । इन्द्रो हैव देवानाम् अभिप्रवव्राज विरोचनो ऽसुराणाम् । तौ हासंविदानाव् एव समित्पाणी प्रजापतिसकाशम् आजग्मतुः 8.7.3 तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् ऊषतुः । तौ ह प्रजापतिर् उवाच । किम् इच्छन्ताव् अवास्तम् इति । तौ होचतुर् य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः । स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति भगवतो वचो वेदयन्ते । तम् इच्छन्ताव् अवास्तम् इति 8.7.4 तौ ह प्रजापतिर् उवाच य एषो ऽक्षिणि पुरुषो दृष्यत एष आत्मेति होवाच । एतद् अमृतम् अभयम् एतद् ब्रह्मेति । अथ यो ऽयं भगवो ऽप्सु परिख्यायते यश् चायम् आदर्शे कतम एष इति । एष उ एवैषु सर्वेष्वन्न्तेषु परिख्यायत इति होवाच See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.