0/3 readHide transliteration
अथ हेन्द्रो ऽप्राप्यैव देवान् एतद् भयं ददर्श । यथैव खल्व् अयम् अस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः । अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति । नाहम् अत्र भोग्यं पश्यामीति
atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa | yathaiva khalv ayam asmiñ charīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ | asyaiva śarīrasya nāśam anv eṣa naśyati | nāham atra bhogyaṃ paśyāmīti
But Indra, before he had returned to the Devas, saw this difficulty. As this self (the shadow in the water) is well adorned, when the body is well adorned, well dressed, when the body is well dressed, well cleaned, if the body is well cleaned, that self will also be blind, if the body is blind, lame, if the body is lame, crippled, if the body is crippled, and will perish in fact as soon as the body perishes. Therefore I see no good in this (doctrine).
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
8.9.1 अथ हेन्द्रो ऽप्राप्यैव देवान् एतद् भयं ददर्श । यथैव खल्व् अयम् अस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः । अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति । नाहम् अत्र भोग्यं पश्यामीति 8.9.2 स समित्पाणिः पुनर् एयाय । तं ह प्रजापतिर् उवाच । मघवन् यच् छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किम् इच्छन् पुनर् आगम इति । स होवाच यथा एव खल्वय्यं भगवो ऽस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः । अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति । नाहम् अत्र भोग्यं पश्यामीति 8.9.3 एवम् एवैष मघवन्न् इति होवाच । एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि । वसापराणि द्वात्रिंशतं वर्षाणीति । स हापराणि द्वात्रिंशतं वर्षाण्युवास । तस्मै होवाच See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.