0/10 readHide transliteration
आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥
ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ | devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive-dive ||
May powers auspicious come to us from every side, never deceived, unhindered, and victorious, That the Gods ever may be with us for our gain, our guardians day by day unceasing in their care.
Translated by Ralph T. H. Griffith (1896)
← PreviousMark as learned Next →
In this sitting
1.89.1 आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥ 1.89.2 देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् । देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ 1.89.3 तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिं दक्षम् अस्रिधम् । अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ॥ 1.89.4 तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥ 1.89.5 तम् ईशानं जगतस् तस्थुषस् पतिं धियञ्जिन्वम् अवसे हूमहे वयम् । पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ॥ 1.89.6 स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ॥ 1.89.7 पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह ॥ 1.89.8 भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर् यजत्राः । स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्य् अशेम देवहितं यद् आयुः ॥ 1.89.9 शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥ 1.89.10 अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥ Which verse says this?
May powers auspicious come to us from every side, never deceived, unhindered, and victorious, That the Gods ever may be with us for our gain, our guardians day by day unceasing in their care.
Translated by Ralph T. H. Griffith (1896)
आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ॥ तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ॥ देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् । देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.