0/52 readHide transliteration
अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥
asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ | tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram ||
Of this benignant Priest, with eld grey-coloured, the brother midmost of the three is lightning. The third is he whose back with oil is sprinkled. Here I behold the Chief with seven male children.
Translated by Ralph T. H. Griffith (1896)
← PreviousMark as learned Next →
In this sitting
1.164.1 अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ 1.164.2 सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा । त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ 1.164.3 इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः । सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥ 1.164.4 को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति । भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥ 1.164.5 पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि । वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥ 1.164.6 अचिकित्वाञ् चिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् । वि यस् तस्तम्भ षळ् इमा रजांस्य् अजस्य रूपे किम् अपि स्विद् एकम् ॥ 1.164.7 इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितम् पदं वेः । शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकम् पदापुः ॥ 1.164.8 माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे । सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ॥ 1.164.9 युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः । अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योजनेषु ॥ 1.164.10 तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति । मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम् अविश्वमिन्वाम् ॥ 1.164.11 द्वादशारं नहि तज् जराय वर्वर्ति चक्रम् परि द्याम् ऋतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ॥ 1.164.12 पञ्चपादम् पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुर् अर्पितम् ॥ 1.164.13 पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा । तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते सनाभिः ॥ 1.164.14 सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । सूर्यस्य चक्षू रजसैत्य् आवृतं तस्मिन्न् आर्पिता भुवनानि विश्वा ॥ 1.164.15 साकञ्जानां सप्तथम् आहुर् एकजं षळ् इद् यमा ऋषयो देवजा इति । तेषाम् इष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ 1.164.16 स्त्रियः सतीस् तां उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः । कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ॥ 1.164.17 अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् । सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः ॥ 1.164.18 अवः परेण पितरं यो अस्यानुवेद पर एनावरेण । कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि प्रजातम् ॥ 1.164.19 ये अर्वाञ्चस् तां उ पराच आहुर् ये पराञ्चस् तां उ अर्वाच आहुः । इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥ 1.164.20 द्वा सुपर्णा सयुजा सखाया समानं वृक्षम् परि षस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ॥ 1.164.21 यत्रा सुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ॥ 1.164.22 यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे । तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ॥ 1.164.23 यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत । यद् वा जगज् जगत्य् आहितम् पदं य इत् तद् विदुस् ते अमृतत्वम् आनशुः ॥ 1.164.24 गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् । वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ 1.164.25 जगता सिन्धुं दिव्य् अस्तभायद् रथन्तरे सूर्यम् पर्य् अपश्यत् । गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ॥ 1.164.26 उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् । श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम् ॥ 1.164.27 हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इच्छन्ती मनसाभ्य् आगात् । दुहाम् अश्विभ्याम् पयो अघ्न्येयं सा वर्धताम् महते सौभगाय ॥ 1.164.28 गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानं हिङ्ङ् अकृणोन् मातवा उ । सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः ॥ 1.164.29 अयं स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता । सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत ॥ 1.164.30 अनच् छये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम् । जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ॥ 1.164.31 अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् । स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥ 1.164.32 य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् । स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश ॥ 1.164.33 द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी महीयम् । उत्तानयोश् चम्वोर् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ॥ 1.164.34 पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ 1.164.35 इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥ 1.164.36 सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि । ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ 1.164.37 न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि । यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ॥ 1.164.38 अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः । ता शश्वन्ता विषूचीना वियन्ता न्य् अन्यं चिक्युर् न नि चिक्युर् अन्यम् ॥ 1.164.39 ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते ॥ 1.164.40 सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः स्याम । अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ॥ 1.164.41 गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ 1.164.42 तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश् चतस्रः । ततः क्षरत्य् अक्षरं तद् विश्वम् उप जीवति ॥ 1.164.43 शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण । उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ॥ 1.164.44 त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ॥ 1.164.45 चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ 1.164.46 इन्द्रम् मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमम् मातरिश्वानम् आहुः ॥ 1.164.47 कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति । त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य् उद्यते ॥ 1.164.48 द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत । तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः षष्टिर् न चलाचलासः ॥ 1.164.49 यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ॥ 1.164.50 यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ 1.164.51 समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः । भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ॥ 1.164.52 दिव्यं सुपर्णं वायसम् बृहन्तम् अपां गर्भं दर्शतम् ओषधीनाम् । अभीपतो वृष्टिभिस् तर्पयन्तं सरस्वन्तम् अवसे जोहवीमि ॥ Which verse says this?
Of this benignant Priest, with eld grey-coloured, the brother midmost of the three is lightning. The third is he whose back with oil is sprinkled. Here I behold the Chief with seven male children.
Translated by Ralph T. H. Griffith (1896)
समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः । भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ॥ अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् । सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः ॥ अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.