0/7 readHide transliteration
नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् । किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ॥
nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat | kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram ||
Then was not non-existent nor existent: there was no realm of air, no sky beyond it. What covered in, and where? and what gave shelter? Was water there, unfathomed depth of water?
Translated by Ralph T. H. Griffith (1896)
← PreviousMark as learned Next →
In this sitting
10.129.1 नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् । किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ॥ 10.129.2 न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥ 10.129.3 तम आसीत् तमसा गूळ्हम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् । तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् ॥ 10.129.4 कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् । सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥ 10.129.5 तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् । रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् ॥ 10.129.6 को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः । अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥ 10.129.7 इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ॥ Which verse says this?
Then was not non-existent nor existent: there was no realm of air, no sky beyond it. What covered in, and where? and what gave shelter? Was water there, unfathomed depth of water?
Translated by Ralph T. H. Griffith (1896)
नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् । किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ॥ न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥ को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः । अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.