0/8 readHide transliteration
अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥
ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ | aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā ||
I TRAVEL with the Rudras and the Vasus, with the Adityas and All-Gods I wander. I hold aloft both Varuna and Mitra, Indra and Agni, and the Pair of Asvins.
Translated by Ralph T. H. Griffith (1896)
← PreviousMark as learned Next →
In this sitting
10.125.1 अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥ 10.125.2 अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम् भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ 10.125.3 अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम् ॥ 10.125.4 मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्य् उक्तम् । अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ 10.125.5 अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत मानुषेभिः । यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥ 10.125.6 अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश ॥ 10.125.7 अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ 10.125.8 अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा । परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव ॥ Which verse says this?
I TRAVEL with the Rudras and the Vasus, with the Adityas and All-Gods I wander. I hold aloft both Varuna and Mitra, Indra and Agni, and the Pair of Asvins.
Translated by Ralph T. H. Griffith (1896)
अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे । ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः । अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम् ॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.