0/22 readHide transliteration
चतुर्थो ऽध्यायः य एको ऽवर्णो बहुधा शक्तियोगाद् वर्णान् अनेकान् निहितार्थो दधाति । वि चैति चान्ते विश्वम् आदौ स देवः स नो बुद्ध्या शुभया संयुनक्तु
caturtho 'dhyāyaḥ ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti / vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
4.1 चतुर्थो ऽध्यायः य एको ऽवर्णो बहुधा शक्तियोगाद् वर्णान् अनेकान् निहितार्थो दधाति । वि चैति चान्ते विश्वम् आदौ स देवः स नो बुद्ध्या शुभया संयुनक्तु 4.2 तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः । तद् एव शुक्रं तद् ब्रह्म तद् आपस् तत् प्रजापतिः 4.3 त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः 4.4 नीलः पतङ्गो हरितो लोहिताक्षस् तडिद्गर्भ ऋतवः समुद्राः । अनादिमांस् त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा 4.5 अजाम् एकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः 4.6 द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति 4.7 समाने वृक्षे पुरुषो निमग्नो अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्य् अन्यम् ईशं अस्य महिमानम् इति वीतशोकः 4.8 ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेधुः । यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे समासते 4.9 छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच् च वेदा वदन्ति । अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः 4.10 मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं । तस्यावयवभूतैस् तु व्याप्तं सर्वं इदं जगत् 4.11 यो योनिं-योनिम् अधितिष्ठत्य् एको यस्मिन्न् इदं सं च वि चैति सर्वम् । तम् ईशानं वरदं देवम् ईड्यं निचाय्येमां शान्तिम् अत्यन्तम् एति 4.12 यो देवानां प्रभवश् चोद्भवश् च विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु 4.13 यो देवानाम् अधिपो यस्मिंल् लोका अधिश्रिताः । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम 4.14 सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेकरूपं । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिम् अत्यन्तम् एति 4.15 स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः । यस्मिन् युक्ता ब्रह्मर्षयो देवताश् च तम् एवं ज्ञात्वा मृत्युपाशांश् छिनत्ति 4.16 घृतात् परं मण्डम् इवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढं । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः 4.17 एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति 4.18 यदातमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः । तद् अक्षरं तत् सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी 4.19 नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः 4.20 न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनं । हृदा हृदिस्थं मनसा य एनम् एवं विदुर् अमृतास् ते भवन्ति 4.21 अजात इत्य् एवं कश्चिद् भीरुः प्रपद्यते । रुद्र यत् दक्षिणं मुखम् तेन मां पाहि नित्यम् 4.22 मा नस् तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.