अग्नेरुत्तरतो ऽदूरेण दर्भान् संस्तूणाति । एते च प्रागग्राः, बौधायनगृह्यात् । प्रथितं च स्तरणं, समुपसर्गात् । उदक्च स्तरमापवर्गः । पित्र्येष्वप्यग्नेरुत्तरत एव प्रागग्रैः, ऽउत्तरत उपचारो विहारः,(आपप।२।१०) इति सिद्धे ऽपीहाप्युत्तरेणेति वचनात्, प्रकृते ऽप्यग्नौऽअग्निम् इत्यधिकशब्दस्य अधिकार्तपरत्वस्य युक्तत्वात्, परिस्तरणवद्विशेषस्यानुक्तेश्च । अपवर्गस्तु दक्षिणत एव । देवस्युक्तानिदेवकर्मसंयुक्तानि । पात्राणिदर्व्यादीनि । द्वन्द्वं,द्वे द्वे । न्यञ्चि अधोबिलानि । प्रयुनक्ति सादयति । ननु-उत्तरत्र ऽमनुष्यसंयुक्तानिऽऽपितृसंयुक्तानिऽइति विशेषणेनैव सिद्धत्वात् ऽदेवसंयुक्तानिऽइति व्यर्थम् । न;दैवानि हि कर्माणि द्विविधानि-पुरुषार्थरूपाणि मनुष्यसंस्कारकाणि च । तत्रोभयत्रापि देवपात्राणां दर्व्यादीनां द्वन्द्वतासिध्द्यर्थत्वात् ॥१६॥ तत्र मनुष्यस्स्कारकर्मार्थेषु केषुचित् पात्रेष्वपवादमाह- सकृदेव मनुष्यसंयुक्तानि
agneruttarato 'dūreṇa darbhān saṃstūṇāti / ete ca prāgagrāḥ, baudhāyanagṛhyāt / prathitaṃ ca staraṇaṃ, samupasargāt / udakca staramāpavargaḥ / pitryeṣvapyagneruttarata eva prāgagraiḥ, 'uttarata upacāro vihāraḥ,(āpa.pa.2.10) iti siddhe 'pīhāpyuttareṇeti vacanāt, prakṛte 'pyagnau'agnim ityadhikaśabdasya adhikārtaparatvasya yuktatvāt, paristaraṇavadviśeṣasyānukteśca / apavargastu dakṣiṇata eva / devasyuktānidevakarmasaṃyuktāni / pātrāṇidarvyādīni / dvandvaṃ,dve dve / nyañci adhobilāni / prayunakti sādayati / nanu-uttaratra 'manuṣyasaṃyuktāni''pitṛsaṃyuktāni'iti viśeṣaṇenaiva siddhatvāt 'devasaṃyuktāni'iti vyartham / na;daivāni hi karmāṇi dvividhāni-puruṣārtharūpāṇi manuṣyasaṃskārakāṇi ca / tatrobhayatrāpi devapātrāṇāṃ darvyādīnāṃ dvandvatāsidhdyarthatvāt //16// tatra manuṣyasskārakarmārtheṣu keṣucit pātreṣvapavādamāha- sakṛdeva manuṣyasaṃyuktāni
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.