अथ कर्माण्याचाराद्यानि गृह्यन्ते
atha karmāṇyācārādyāni gṛhyante
Sanskrit only: no published translation is held for this verse.
Library·Apastamba-Grhyasutra, with 2 commentaries·1
अथ कर्माण्याचाराद्यानि गृह्यन्ते
atha karmāṇyācārādyāni gṛhyante
Sanskrit only: no published translation is held for this verse.
उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि
udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi
Sanskrit only: no published translation is held for this verse.
यज्ञोपवीतिना
yajñopavītinā
Sanskrit only: no published translation is held for this verse.
कार्याणीति सम्बन्धः । ननु यज्ञोपवीतं पाकयज्ञेषु ऽप्रागपवर्माणिऽ(आपप।२१५) इत्यादिना सिद्धम् । विवाहादिहोमेषु जपादिषु च ऽहोमे जप्यकर्मणिऽ(आपध।१-१५१) इत्यादिना । अतो ऽत्रैतद्विधिर्र्व्यथः । सत्यम्;यत्राप्राप्ति(२)र्हेमन्तप्रत्यवरोहणादिषु तत्रायं विधिस्सार्थ एव ॥ प्रदक्षिणम्
kāryāṇīti sambandhaḥ / nanu yajñopavītaṃ pākayajñeṣu 'prāgapavarmāṇi'(āpa.pa.215) ityādinā siddham / vivāhādihomeṣu japādiṣu ca 'home japyakarmaṇi'(āpa.dha.1-151) ityādinā / ato 'traitadvidhirrvyathaḥ / satyam;yatrāprāpti(2)rhemantapratyavarohaṇādiṣu tatrāyaṃ vidhissārtha eva // pradakṣiṇam
Sanskrit only: no published translation is held for this verse.
कार्याणीत्येव सम्बन्धः । इदं तु प्रादक्षिण्यं पाकयज्ञेषु तत्कोटिषु च विवाहादिषु परिभाषासिद्धमपि(४) तद्वतिरिक्तगार्ह्यरथ विधीयते । ऽततापवर्गःऽ(आप॥गृ।१-६) इति चेत्थमेव ॥ पुरस्तादुदग्वोपक्रमः
kāryāṇītyeva sambandhaḥ / idaṃ tu prādakṣiṇyaṃ pākayajñeṣu tatkoṭiṣu ca vivāhādiṣu paribhāṣāsiddhamapi(4) tadvatiriktagārhyaratha vidhīyate / 'tatāpavargaḥ'(āpa..gṛ.1-6) iti cetthameva // purastādudagvopakramaḥ
Sanskrit only: no published translation is held for this verse.
कार्य इति शेषः । अयं तु सर्वेष्वपि यज्ञायज्ञरूपगार्ह्येष्वप्राप्तत्वाद्विधीयते ॥ तथापवर्गः
kārya iti śeṣaḥ / ayaṃ tu sarveṣvapi yajñāyajñarūpagārhyeṣvaprāptatvādvidhīyate // tathāpavargaḥ
Sanskrit only: no published translation is held for this verse.
अपरपक्षे पित्र्याणि
aparapakṣe pitryāṇi
Sanskrit only: no published translation is held for this verse.
प्राचीनावीतिना
prācīnāvītinā
Sanskrit only: no published translation is held for this verse.
प्रसव्यम्
prasavyam
Sanskrit only: no published translation is held for this verse.
दक्षिणतो ऽपवर्गः
dakṣiṇato 'pavargaḥ
Sanskrit only: no published translation is held for this verse.
अलं प्रासङ्गीकेन । प्रकृतमुच्यते । यत्तु ऽअपरपक्षस्यापराह्णश्श्रेयानिऽ(आपधर्म।२-१६-५०) इति, तदपराह्णविधानार्थमनुवादः, यथा पात्नीवते ऽसर्वत्रानुवषट्कारो द्विदैवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जम्ऽ(आपश्रौ।१२-१४-२) इत्यनुवट्काराभावे प्राप्ते ऽपि ऽअपि वोपांश्वनुवषट्कुर्यात्"(आपश्रौ।१३-१४-९,१०) इति । ऽसर्वेष्वेवापरपक्षस्याहस्सुऽ(आपधर्म।२-१६-७) इति त्वहर्विशेषणार्थम् । अपरपक्षस्याहस्स्वेव मासिश्राद्धं, न पूर्वपक्षस्याहस्सु विकलपेनाप्यभिमतमिति । इतरथा आशौचादतिक्रान्ते ऽपरपक्षे- दैवात् पितॄणां श्राद्धे तु आशौचं जायते यदि । आशौचे ऽथ व्यतीते वै तेभ्यश्श्राद्धं प्रदीयते ॥ इति स्मृत्यन्तरात् कदाचित् पूर्वपक्षस्याहस्स्वपि विकल्पेनेदं स्यात् । नित्यश्राद्धं तु ऽएवं संवत्सरम्ऽ(आपध।२-१८-१३) इति अत्यन्त(४) संयोगे द्वितीयाबलात् पूर्वपक्षे ऽपि ॥७॥ पित्र्याणि कार्याणीति शेषः । इदंतु वासोविन्यासभेदविधानं स्वतन्त्रास्वतन्त्रसर्वपित्र्यार्थम्, ऽप्राचीनावीतिना पित्र्याणिऽइत्यनेन वाक्येन अविशेषावगमात्, उद्देश्ये पित्र्यमात्रे लब्धे अधिकाप्रकृत(१) स्वातन्त्र्यविवक्षायां वाक्यभेदापत्तेः, अङ्गेष्वपि प्राचीनावीते विधेये ऽअपरपक्षे पित्र्याणिऽइतिवदनपेक्षितत्वाभावाच्च । तेन यानि स्वतन्त्राणि यथा प्रधानाहुतयः, यानि चास्वतन्त्राणि यथा द्वितायनिमार्जनादीनि, तानि सर्वाण्येव प्राचीनावीतिना कार्याणि । इत्थमेव ऽयज्ञोपवीतिनाऽइत्यपि । तेन पित्र्याङ्गान्यपि दैवान्याघारादीनि यज्ञोपवीतिनैव । इतराङ्गानां तु पात्रप्रयोगादीनां तत्तत्प्रधानवदेव ॥ केचित्- अङ्गानां प्रधानधर्मता न्याय्येति पित्र्याङ्गानि दैवान्यपि प्राचीनावीतिना, दैवाङ्गानि पित्र्याण्यति यज्ञोपवीतिनेति, तच्चिन्त्यंमे ॥ ८ ॥ तथैव शेषः ॥९॥ पित्र्येषु कार्य इति शेषः । अत्र ऽप्राचीनावीतीऽ(आपपरि।२।१६)इत्यादिपरिभाषया एषां त्रयाणामपि सिद्धत्वात् अपाकयज्ञनित्यषोडशश्राद्धाद्यर्थो विधिः ॥१०॥ निमित्तावेक्षाणि नैमित्तिकानि
alaṃ prāsaṅgīkena / prakṛtamucyate / yattu 'aparapakṣasyāparāhṇaśśreyāni'(āpa.dharma.2-16-50) iti, tadaparāhṇavidhānārthamanuvādaḥ, yathā pātnīvate 'sarvatrānuvaṣaṭkāro dvidaivatyartugrahādityasāvitrapātnīvatavarjam'(āpa.śrau.12-14-2) ityanuvaṭkārābhāve prāpte 'pi 'api vopāṃśvanuvaṣaṭkuryāt"(āpa.śrau.13-14-9,10) iti / 'sarveṣvevāparapakṣasyāhassu'(āpa.dharma.2-16-7) iti tvaharviśeṣaṇārtham / aparapakṣasyāhassveva māsiśrāddhaṃ, na pūrvapakṣasyāhassu vikalapenāpyabhimatamiti / itarathā āśaucādatikrānte 'parapakṣe- daivāt pitṝṇāṃ śrāddhe tu āśaucaṃ jāyate yadi / āśauce 'tha vyatīte vai tebhyaśśrāddhaṃ pradīyate // iti smṛtyantarāt kadācit pūrvapakṣasyāhassvapi vikalpenedaṃ syāt / nityaśrāddhaṃ tu 'evaṃ saṃvatsaram'(āpa.dha.2-18-13) iti atyanta(4) saṃyoge dvitīyābalāt pūrvapakṣe 'pi //7// pitryāṇi kāryāṇīti śeṣaḥ / idaṃtu vāsovinyāsabhedavidhānaṃ svatantrāsvatantrasarvapitryārtham, 'prācīnāvītinā pitryāṇi'ityanena vākyena aviśeṣāvagamāt, uddeśye pitryamātre labdhe adhikāprakṛta(1) svātantryavivakṣāyāṃ vākyabhedāpatteḥ, aṅgeṣvapi prācīnāvīte vidheye 'aparapakṣe pitryāṇi'itivadanapekṣitatvābhāvācca / tena yāni svatantrāṇi yathā pradhānāhutayaḥ, yāni cāsvatantrāṇi yathā dvitāyanimārjanādīni, tāni sarvāṇyeva prācīnāvītinā kāryāṇi / itthameva 'yajñopavītinā'ityapi / tena pitryāṅgānyapi daivānyāghārādīni yajñopavītinaiva / itarāṅgānāṃ tu pātraprayogādīnāṃ tattatpradhānavadeva // kecit- aṅgānāṃ pradhānadharmatā nyāyyeti pitryāṅgāni daivānyapi prācīnāvītinā, daivāṅgāni pitryāṇyati yajñopavītineti, taccintyaṃme // 8 // tathaiva śeṣaḥ //9// pitryeṣu kārya iti śeṣaḥ / atra 'prācīnāvītī'(āpa.pari.2.16)ityādiparibhāṣayā eṣāṃ trayāṇāmapi siddhatvāt apākayajñanityaṣoḍaśaśrāddhādyartho vidhiḥ //10// nimittāvekṣāṇi naimittikāni
Sanskrit only: no published translation is held for this verse.
अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति
agnimidhvā prāgagrairdarbhairagniṃ paristṛṇāti
Sanskrit only: no published translation is held for this verse.
प्रागुदगग्रैर्वा
prāgudagagrairvā
Sanskrit only: no published translation is held for this verse.
इति वचनात्, ऽऽन वब्रह्माभिव्याहारयोदन्यत्र स्वधानिनयनात्ऽ(गौध।२-५) इति गौतमवचनस्थस्वधाशब्दस्य सकलीर्ध्वदैहिकप्रदर्शनार्थत्वाच्च । भ्राता वा भ्रातृपुत्रो वा सपिण्डश्शष्य एव वा । सपिण्डीकरणं कृत्वा कुर्यादभ्युदयं ततः ॥ इति वचनात् यदा भ्रातृपुत्रादिः करोति तदा यथोक्तसहत्वफलभागित्वयोरभावात् श्रोत्रियागरादाहृताग्नावेव ॥ अन्ये तु-भ्रात्रादिगतपितृत्वप्राप्तिरपि पुत्रगतपूतत्वादिफलवत् पतिगामि फलमित्यौपासने;तच्छिन्त्यम् ॥ तथा जातकर्मचौलोपाकरणसमापनगोदानसमावर्तनान्यपि । तथोमनयनमपि । आचार्यकरणसिध्द्यर्थ मुपनयनमिति मते ऽपि नाचार्यस्यौपासने । तस्य नित्यधार्यत्वात् ऽत्र्यहमेतमाग्निं धारयन्तिऽ(आपगृ।११-१९) इति सूत्रविरोधात् । विवाहोप्यस्मिन्, निर्मन्थ्ये वा, असभ्भवाद्विवाहजन्यौपासनस्य । सम्भवे ऽपि प्रथमौपासनस्य, न तस्मिन् द्वितीयादिविवाहः ;ऽयां कामयेत राष्ट्रमस्यै प्रजा ,स्यादिति तस्या औपासनेऽइति प्रतिणार्यमौपासनभेदावगमात्, बौधायनीये अग्निद्वयसंसर्गविधानात्, आटाराट्ट । कर्मार्थस्यौपासनस्य संस्कृते देशे, अनुपसमाहितस्यान्यस्य वाग्नेः, ऽयत्र क्व टाग्निम्ऽ(आपध।२-१-१३।) इति धर्मशास्त्रोक्तविधिना अग्निप्रतिष्ठापनं कर्तव्यम् ॥ केचित्- इदं नाग्न्यङ्गं, कर्माङ्गमेवेति प्रतिकर्म कार्यम्, उखायां चाग्नेर्धारणमिति ॥ अथ सूत्रं व्याख्यायते । अग्निमिद्ध्वाइन्धीतेत्यर्थः । यद्यप्यर्थप्राप्तमग्नेरिन्धनं तथाप्येतद्वचनात् इद्धमपि पुनरिन्धीत । अत्र विध्यर्थे लिङ्गादौग्राह्ये क्त्वाग्रहणमिन्धनस्य परिस्तरणपूर्वकालतानियमार्थम् । तेन इन्धनानन्तरं परिस्तरणमेव कार्य, न तु तयोर्ध्ये ऽवश्यकार्यमपि मूत्रनिरसनादि कर्मार्थसंभारोपकल्पनं च ॥ नन्वेकस्मिन् सूत्रे इन्धनपरिस्तरणयोर्विधाने वाक्यभेदस्स्यात्;सत्यम्, न तु सूत्रे वाक्यभेदो दोषः ;सूचनात् सूत्रमिति मिर्वचनात् । इत्यमेव व्याख्यानं प्रयोजनं च सर्वत्र त्काग्रहणेषु । प्रागग्रैर्दर्भैरग्निं परिस्तृणाति । सर्वासु दिक्षु प्रागग्रैः कुशैरग्निं परिस्तृणाति ॥१२॥ अथ वा प्रागग्रैरुदग्ग्रैश्च दर्भैरग्निं परिस्तृणाति । दक्षिणत उत्तरश्च प्रागग्रैः, पश्चात् पुरस्ताच्चोदगग्रैः , ऽउदगग्राः पश्चात्पुरस्ताच्चऽ(आपश्रौ।२-१४-१५) इति श्रौते दर्शनात् । एतान् कुशान् दक्षिणानुत्तरान् करोति , उत्तराश्चाधरान्;बौधायनभरद्वाजगृह्याभ्या मुक्तत्वात् । दक्षिणतः पक्ष उपरिष्टाद्भवत्यधस्यादुत्तरःऽइति । अत्र ऽअग्निमिद्ध्वाऽइति प्रकृते ऽप्यग्नौ, ऽअग्निम्ऽइति पुनर्वचनं नियमार्थम्-अग्निमेव परिस्तृणाति नान्यदङ्गपीति । तेन उत्तरेण पूर्वेण वा निहितमुदकं बहिरेव भवति ॥ केचित्-इतन्त्रकेष्वपि कर्मस्वाग्निः परिस्तीर्य एवेति नियमार्थमिति ॥१३॥ दक्षिणाग्रैः पित्र्येषु
iti vacanāt, ''na vabrahmābhivyāhārayodanyatra svadhāninayanāt'(gau.dha.2-5) iti gautamavacanasthasvadhāśabdasya sakalīrdhvadaihikapradarśanārthatvācca / bhrātā vā bhrātṛputro vā sapiṇḍaśśaṣya eva vā / sapiṇḍīkaraṇaṃ kṛtvā kuryādabhyudayaṃ tataḥ // iti vacanāt yadā bhrātṛputrādiḥ karoti tadā yathoktasahatvaphalabhāgitvayorabhāvāt śrotriyāgarādāhṛtāgnāveva // anye tu-bhrātrādigatapitṛtvaprāptirapi putragatapūtatvādiphalavat patigāmi phalamityaupāsane;tacchintyam // tathā jātakarmacaulopākaraṇasamāpanagodānasamāvartanānyapi / tathomanayanamapi / ācāryakaraṇasidhdyartha mupanayanamiti mate 'pi nācāryasyaupāsane / tasya nityadhāryatvāt 'tryahametamāgniṃ dhārayanti'(āpa.gṛ.11-19) iti sūtravirodhāt / vivāhopyasmin, nirmanthye vā, asabhbhavādvivāhajanyaupāsanasya / sambhave 'pi prathamaupāsanasya, na tasmin dvitīyādivivāhaḥ ;'yāṃ kāmayeta rāṣṭramasyai prajā ,syāditi tasyā aupāsane'iti pratiṇāryamaupāsanabhedāvagamāt, baudhāyanīye agnidvayasaṃsargavidhānāt, āṭārāṭṭa / karmārthasyaupāsanasya saṃskṛte deśe, anupasamāhitasyānyasya vāgneḥ, 'yatra kva ṭāgnim'(āpa.dha.2-1-13.) iti dharmaśāstroktavidhinā agnipratiṣṭhāpanaṃ kartavyam // kecit- idaṃ nāgnyaṅgaṃ, karmāṅgameveti pratikarma kāryam, ukhāyāṃ cāgnerdhāraṇamiti // atha sūtraṃ vyākhyāyate / agnimiddhvāindhītetyarthaḥ / yadyapyarthaprāptamagnerindhanaṃ tathāpyetadvacanāt iddhamapi punarindhīta / atra vidhyarthe liṅgādaugrāhye ktvāgrahaṇamindhanasya paristaraṇapūrvakālatāniyamārtham / tena indhanānantaraṃ paristaraṇameva kārya, na tu tayordhye 'vaśyakāryamapi mūtranirasanādi karmārthasaṃbhāropakalpanaṃ ca // nanvekasmin sūtre indhanaparistaraṇayorvidhāne vākyabhedassyāt;satyam, na tu sūtre vākyabhedo doṣaḥ ;sūcanāt sūtramiti mirvacanāt / ityameva vyākhyānaṃ prayojanaṃ ca sarvatra tkāgrahaṇeṣu / prāgagrairdarbhairagniṃ paristṛṇāti / sarvāsu dikṣu prāgagraiḥ kuśairagniṃ paristṛṇāti //12// atha vā prāgagrairudaggraiśca darbhairagniṃ paristṛṇāti / dakṣiṇata uttaraśca prāgagraiḥ, paścāt purastāccodagagraiḥ , 'udagagrāḥ paścātpurastācca'(āpa.śrau.2-14-15) iti śraute darśanāt / etān kuśān dakṣiṇānuttarān karoti , uttarāścādharān;baudhāyanabharadvājagṛhyābhyā muktatvāt / dakṣiṇataḥ pakṣa upariṣṭādbhavatyadhasyāduttaraḥ'iti / atra 'agnimiddhvā'iti prakṛte 'pyagnau, 'agnim'iti punarvacanaṃ niyamārtham-agnimeva paristṛṇāti nānyadaṅgapīti / tena uttareṇa pūrveṇa vā nihitamudakaṃ bahireva bhavati // kecit-itantrakeṣvapi karmasvāgniḥ paristīrya eveti niyamārthamiti //13// dakṣiṇāgraiḥ pitryeṣu
Sanskrit only: no published translation is held for this verse.
दक्षिणाप्रागग्रैर्वा
dakṣiṇāprāgagrairvā
Sanskrit only: no published translation is held for this verse.
उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि
uttareṇāgniṃ darbhāntsaṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni
Sanskrit only: no published translation is held for this verse.
अग्नेरुत्तरतो ऽदूरेण दर्भान् संस्तूणाति । एते च प्रागग्राः, बौधायनगृह्यात् । प्रथितं च स्तरणं, समुपसर्गात् । उदक्च स्तरमापवर्गः । पित्र्येष्वप्यग्नेरुत्तरत एव प्रागग्रैः, ऽउत्तरत उपचारो विहारः,(आपप।२।१०) इति सिद्धे ऽपीहाप्युत्तरेणेति वचनात्, प्रकृते ऽप्यग्नौऽअग्निम् इत्यधिकशब्दस्य अधिकार्तपरत्वस्य युक्तत्वात्, परिस्तरणवद्विशेषस्यानुक्तेश्च । अपवर्गस्तु दक्षिणत एव । देवस्युक्तानिदेवकर्मसंयुक्तानि । पात्राणिदर्व्यादीनि । द्वन्द्वं,द्वे द्वे । न्यञ्चि अधोबिलानि । प्रयुनक्ति सादयति । ननु-उत्तरत्र ऽमनुष्यसंयुक्तानिऽऽपितृसंयुक्तानिऽइति विशेषणेनैव सिद्धत्वात् ऽदेवसंयुक्तानिऽइति व्यर्थम् । न;दैवानि हि कर्माणि द्विविधानि-पुरुषार्थरूपाणि मनुष्यसंस्कारकाणि च । तत्रोभयत्रापि देवपात्राणां दर्व्यादीनां द्वन्द्वतासिध्द्यर्थत्वात् ॥१६॥ तत्र मनुष्यस्स्कारकर्मार्थेषु केषुचित् पात्रेष्वपवादमाह- सकृदेव मनुष्यसंयुक्तानि
agneruttarato 'dūreṇa darbhān saṃstūṇāti / ete ca prāgagrāḥ, baudhāyanagṛhyāt / prathitaṃ ca staraṇaṃ, samupasargāt / udakca staramāpavargaḥ / pitryeṣvapyagneruttarata eva prāgagraiḥ, 'uttarata upacāro vihāraḥ,(āpa.pa.2.10) iti siddhe 'pīhāpyuttareṇeti vacanāt, prakṛte 'pyagnau'agnim ityadhikaśabdasya adhikārtaparatvasya yuktatvāt, paristaraṇavadviśeṣasyānukteśca / apavargastu dakṣiṇata eva / devasyuktānidevakarmasaṃyuktāni / pātrāṇidarvyādīni / dvandvaṃ,dve dve / nyañci adhobilāni / prayunakti sādayati / nanu-uttaratra 'manuṣyasaṃyuktāni''pitṛsaṃyuktāni'iti viśeṣaṇenaiva siddhatvāt 'devasaṃyuktāni'iti vyartham / na;daivāni hi karmāṇi dvividhāni-puruṣārtharūpāṇi manuṣyasaṃskārakāṇi ca / tatrobhayatrāpi devapātrāṇāṃ darvyādīnāṃ dvandvatāsidhdyarthatvāt //16// tatra manuṣyasskārakarmārtheṣu keṣucit pātreṣvapavādamāha- sakṛdeva manuṣyasaṃyuktāni
Sanskrit only: no published translation is held for this verse.
मनुष्यसंयुक्तानि मनुष्यद्वारा संयुक्तानि अश्मवासोमेखलादीनि सकृदेव क्रियाभ्यावृत्तिपरिहारेण प्रयुनक्ति, पात्रबहुत्वे ऽप्युपायेन । केचित्-मनुष्यसंस्कारकर्मसु दर्व्यादीन्यपि सकृदेवेति ॥१७॥ एकैकशः पितृसंयुक्तानि
manuṣyasaṃyuktāni manuṣyadvārā saṃyuktāni aśmavāsomekhalādīni sakṛdeva kriyābhyāvṛttiparihāreṇa prayunakti, pātrabahutve 'pyupāyena / kecit-manuṣyasaṃskārakarmasu darvyādīnyapi sakṛdeveti //17// ekaikaśaḥ pitṛsaṃyuktāni
Sanskrit only: no published translation is held for this verse.
पवित्रयोस्संकार आयामतः परीमाणं प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम्
pavitrayossaṃkāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavattūṣṇīm
Sanskrit only: no published translation is held for this verse.
अपरेणाग्निं पवित्रान्तर्हिते पात्रे ऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य
apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trirutpūya samaṃ prāṇairhṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya
Sanskrit only: no published translation is held for this verse.
ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य
brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya
Sanskrit only: no published translation is held for this verse.
आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्योदीचो ऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलतावद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान् प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय परित्रे अनुप्रहृत्य
ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyāmājyasthālyāmājyaṃ nirūpyodīco 'ṅgārānnirūhya teṣvadhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trirutpūya paritre anuprahṛtya
Sanskrit only: no published translation is held for this verse.