येन गृहीतः कुमारः श्वेव नदति, श्ववद्वा चेष्टते स श्वग्रहः । तेन गृहीतःश्वग्रहगृहीतः, पिशाचिशुना वा दष्टः । तपोयुक्तः यावन्मनस्तोषमनशनादियुक्तः पित्रीदिः कर्ता । जालंमत्स्यग्रहणसाधनम् । कंसं किङ्किणिं । लोहघण्टांह्रदयन्पुरुषान्तरेण ध्वानयद्वारणकुड्याद्यपोह्य मार्ग कृत्वा । अधिदेवनं यत्र दीव्यन्ति कितवाः । अक्षान् विभीतकफलानि । केचित्-शारा इति । उत्तरैर्मन्त्रैःऽकूर्कुरस्सुकूर्कुरःऽइत्यादिभिर्यजुर्दशमैः । यद्वैकादशभिः । तस्मिन् पक्षे आदितस्तिस्र ऋचः ततः ऽतत्सत्यं यत्त्वेन्द्रःऽविगृह्य बाहू इति द्वे यजुषा ततो ऽबिभ्रन्निष्कम्ऽइति पञ्चर्चः । ततः ऽश्वानम्ऽइत्येकादशं यजुरेवेति विभागः । अवोक्षणं च सर्वेषां मन्त्राणामन्ते सकृदेव । केचित्-द्वष्टोपकारकत्वात् प्रतिमन्त्रमिति । एवमेतज्जालप्रच्छादनाद्यवोक्षणान्तं प्रातरादिषु त्रिषु पुण्याहविशेषेषु कर्तव्यम् । अवोक्षणपर्यन्तं च ह्रादनम् ॥१॥ अगदो भवति
yena gṛhītaḥ kumāraḥ śveva nadati, śvavadvā ceṣṭate sa śvagrahaḥ / tena gṛhītaḥśvagrahagṛhītaḥ, piśāciśunā vā daṣṭaḥ / tapoyuktaḥ yāvanmanastoṣamanaśanādiyuktaḥ pitrīdiḥ kartā / jālaṃmatsyagrahaṇasādhanam / kaṃsaṃ kiṅkiṇiṃ / lohaghaṇṭāṃhradayanpuruṣāntareṇa dhvānayadvāraṇakuḍyādyapohya mārga kṛtvā / adhidevanaṃ yatra dīvyanti kitavāḥ / akṣān vibhītakaphalāni / kecit-śārā iti / uttarairmantraiḥ'kūrkurassukūrkuraḥ'ityādibhiryajurdaśamaiḥ / yadvaikādaśabhiḥ / tasmin pakṣe āditastisra ṛcaḥ tataḥ 'tatsatyaṃ yattvendraḥ'vigṛhya bāhū iti dve yajuṣā tato 'bibhranniṣkam'iti pañcarcaḥ / tataḥ 'śvānam'ityekādaśaṃ yajureveti vibhāgaḥ / avokṣaṇaṃ ca sarveṣāṃ mantrāṇāmante sakṛdeva / kecit-dvaṣṭopakārakatvāt pratimantramiti / evametajjālapracchādanādyavokṣaṇāntaṃ prātarādiṣu triṣu puṇyāhaviśeṣeṣu kartavyam / avokṣaṇaparyantaṃ ca hrādanam //1// agado bhavati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.