शक्तिस्समर्थ्यम् । विषये ऽवकाशः । अस्यामृद्धिपरीक्षायां वरतत्पक्षिणां सामर्थ्यस्यावकाशे सम्भवति, यदि कन्या च तदीयाश्चेमां परीक्षामभ्युपगच्छेयुरित्यर्थः । यत एवात्र शक्तिविषय इत्याह, अत एवैषा ऋद्धिपरीक्षा ज्योतिषादिभिर्वैकल्पिकी, न तु नित्यवद्विवाहाङ्गम् । द्रव्याणिवक्ष्यमाणानि मृत्पिण्डेषु च प्रतिच्छन्नान्येकस्मिन् भाजने निधाय कन्यां समीपे च कृत्वा, तां ब्रूयादेषां पिण्डानामेकमुपस्पृशेति ॥ १५ ॥ कानि तानीत्यत आह-- नानाबीजानिव्रीहियवादिबीजानि । संसृष्टानिएकस्मिन् पिण्डे क्षिप्तानि । वेद्याः सौमिक्याः आहृतान् पांसून् । क्षेत्रात् सस्यसम्पन्नादाहृतं लोष्टम् । अविशिष्टे प्रसिद्धे ॥१६॥ पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः
śaktissamarthyam / viṣaye 'vakāśaḥ / asyāmṛddhiparīkṣāyāṃ varatatpakṣiṇāṃ sāmarthyasyāvakāśe sambhavati, yadi kanyā ca tadīyāścemāṃ parīkṣāmabhyupagaccheyurityarthaḥ / yata evātra śaktiviṣaya ityāha, ata evaiṣā ṛddhiparīkṣā jyotiṣādibhirvaikalpikī, na tu nityavadvivāhāṅgam / dravyāṇivakṣyamāṇāni mṛtpiṇḍeṣu ca praticchannānyekasmin bhājane nidhāya kanyāṃ samīpe ca kṛtvā, tāṃ brūyādeṣāṃ piṇḍānāmekamupaspṛśeti // 15 // kāni tānītyata āha-- nānābījānivrīhiyavādibījāni / saṃsṛṣṭāniekasmin piṇḍe kṣiptāni / vedyāḥ saumikyāḥ āhṛtān pāṃsūn / kṣetrāt sasyasampannādāhṛtaṃ loṣṭam / aviśiṣṭe prasiddhe //16// pūrveṣāmupasparśane yathāliṅgamṛddhiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.