चतुर्थ्या अपररात्रे इति विवृत्यार्थपाठः । चतुर्थ्या रात्रेःचतुर्थस्याहोरात्रस्यापररात्रे रात्रेरपरत्र तृतीयभागे तं दण्डंउत्तराभ्यां ऽउदीर्ष्वातऽइत्येताभ्यांउत्थाप्याद्भिः प्रक्षाल्य शयनादन्यत्रनिदायाग्नेरुपसमाधानादितन्त्रं प्रतिपद्यते । आज्यभागान्ते कृते वध्वमन्वारब्धायां उत्तराःऽअग्ने प्रायश्चित्तेऽइत्याद्यास्सप्ताहुतीर्जुहोति । तत्र द्वितीयतृतीययोरपि ऽत्वं देवानांऽइत्याद्यनुषङ्गः । ततो ऽन्वारम्भवर्ज जयादौ प्रणीता मोचनान्ते कृते अपरेणाग्निं वधूंप्राचींप्राङ्मुखीमुपवेश्य हुतशेषादाज्यमादायतस्याश्शिरसि व्याहृतिभिरोङ्कारचतुर्थाभिस्वाहाकारान्ताभिस्सर्वेषामन्ते सकृदानयति । केचित्-प्रतिमन्त्रमिति । अथोत्तराभ्यां ऽअपश्यं त्वा मनसाऽइत्येताभ्यांयथालिङ्गं, पूर्वया वधू रुत्तरया वरः,मिथःअन्ययोन्यं युगपत्समीक्ष्य उत्तरया ऽसमञ्जन्तुऽइत्येतयाआज्यशेषेण हृदयदेशौयुगपदङ्गुष्ठविसंरसिनीभ्यां समनक्ति, ऽसमापो हृदयानि नौऽइति द्विवचनलिङ्गात् । अथ उत्तरास्तिस्रः ऽप्रजापते तन्वं मेऽइत्याद्या जपित्वा शेषमनुवाकशेषं ऽआरोहोरुम्ऽइत्यादिकंसमावेशने समावेशनकाले जपेत् । समावेशनं च वध्वा सह मैथुनार्थ शयनम्, ऽऋतुसमावेशनेऽ(आपगृ।८-१३) इत्युतुलिङ्गात् । एतच्च रागप्राप्तसमावेशनाश्रितं विवाहकर्मार्थ क्रमजपयोर्विदानम्, यथा भोजनपर्यायव्रताश्रितं पयआदिविधानम् । केचित्- असत्यपि रागे कर्मार्थमस्मिन् क्रमे समविशनं नियतमेवेति । समावेशनान्तरेषु तु अकर्मार्थत्वादेव नायं जपः । बौधायनेन तु विकल्पो ऽभिहितः (बौगृ।२-७-१२) इति । अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि कर्तव्यं स्यात् तदा पूर्व ऽआरोहोरुम्ऽइत्यादिजपः । ततो ऽविष्णुर्योनिम्ऽइत्यादिभिरभिमन्त्रणम् ॥१०॥ अन्यो वैनामभिमन्त्रयेत
caturthyā apararātre iti vivṛtyārthapāṭhaḥ / caturthyā rātreḥcaturthasyāhorātrasyāpararātre rātreraparatra tṛtīyabhāge taṃ daṇḍaṃuttarābhyāṃ 'udīrṣvāta'ityetābhyāṃutthāpyādbhiḥ prakṣālya śayanādanyatranidāyāgnerupasamādhānāditantraṃ pratipadyate / ājyabhāgānte kṛte vadhvamanvārabdhāyāṃ uttarāḥ'agne prāyaścitte'ityādyāssaptāhutīrjuhoti / tatra dvitīyatṛtīyayorapi 'tvaṃ devānāṃ'ityādyanuṣaṅgaḥ / tato 'nvārambhavarja jayādau praṇītā mocanānte kṛte apareṇāgniṃ vadhūṃprācīṃprāṅmukhīmupaveśya hutaśeṣādājyamādāyatasyāśśirasi vyāhṛtibhiroṅkāracaturthābhisvāhākārāntābhissarveṣāmante sakṛdānayati / kecit-pratimantramiti / athottarābhyāṃ 'apaśyaṃ tvā manasā'ityetābhyāṃyathāliṅgaṃ, pūrvayā vadhū ruttarayā varaḥ,mithaḥanyayonyaṃ yugapatsamīkṣya uttarayā 'samañjantu'ityetayāājyaśeṣeṇa hṛdayadeśauyugapadaṅguṣṭhavisaṃrasinībhyāṃ samanakti, 'samāpo hṛdayāni nau'iti dvivacanaliṅgāt / atha uttarāstisraḥ 'prajāpate tanvaṃ me'ityādyā japitvā śeṣamanuvākaśeṣaṃ 'ārohorum'ityādikaṃsamāveśane samāveśanakāle japet / samāveśanaṃ ca vadhvā saha maithunārtha śayanam, 'ṛtusamāveśane'(āpa.gṛ.8-13) ityutuliṅgāt / etacca rāgaprāptasamāveśanāśritaṃ vivāhakarmārtha kramajapayorvidānam, yathā bhojanaparyāyavratāśritaṃ payaādividhānam / kecit- asatyapi rāge karmārthamasmin krame samaviśanaṃ niyatameveti / samāveśanāntareṣu tu akarmārthatvādeva nāyaṃ japaḥ / baudhāyanena tu vikalpo 'bhihitaḥ (bau.gṛ.2-7-12) iti / asminneva krame yadi daivādṛtugamanamapi kartavyaṃ syāt tadā pūrva 'ārohorum'ityādijapaḥ / tato 'viṣṇuryonim'ityādibhirabhimantraṇam //10// anyo vaināmabhimantrayeta
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.