Library·Patanjali: Vyakaranamahabhasya [Śs]·1

Patanjali: Vyakaranamahabhasya [Śs] 1

क्अ इ,१५।२-१६।१८ रो इ,५४-६० अकारस्य विवृतोपदेशः आकारग्रहणार्थः । अकारस्य विवृतोपदेशः कर्तव्यः । किम् प्रयोजनम् । आकारग्रहणार्थः । अकारः सवर्णग्रगणेन आकारम् अपि यथा गृह्णीयात् । किम् च कारणम् न गृह्णीयात् । विवारभेदात् । किम् उच्यते विवारभेदात् इति न पुनः कालभेदाद् अपि । यथा एव हि विवारभिन्नः एवम् कालभिन्नः अपि । सत्यम् एतत् । वक्ष्यति तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र आस्यग्रहणस्य प्रयोजनम् आस्ये येषाम् तुल्यः देशः प्रयत्नः च ते सवर्णसञ्ज्ञकाः भवन्ति इति । बाह्यः च पुनः आस्यात् कालः । तेन स्यात् एव कालभिन्नस्य ग्रहणम् न पुनः विवारभिन्नस्य । किम् पुनः इदम् विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते आहोस्वित् संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते । विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते । कथम् ज्ञायते । यत् अयम् अ* अ इति अकारस्य विवृतस्य संवृतताप्रत्यापत्तिम् शास्ति । न एतत् अस्ति ज्ञापकम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । अतिखट्वः , अतिमालः इति अत्र आन्तर्यतः विवृतस्य विवृतः प्राप्नोति । संवृतः स्यात् इति एवमर्था प्रत्यापत्तिः । न एतत् अस्ति । न एव लोके न च वेदे अकारो विवृतः अस्ति । कः तर्हि । संवृतः । यः अस्ति सः भविष्यति । तत् एतत् प्रत्यापत्तिवचनम् ज्ञापकम् एव भविष्यति विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते इति । कः पुनः अत्र विशेषः विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायेत संवृतस्य उपदिश्यमानस्य वा विवृतोपदेशः चोद्येत इति । न खलु कः चिद् विशेषः । आहोपुरुषिकामात्रम् तु भवान् आह संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते इति । वयम् तु ब्रूमः विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते इति। तस्य विवृतोपदेशात् अन्यत्र अपि विवृतोपदेशः सवर्णग्रहणार्थः । तस्य एतस्य आक्षरसमाम्नायिकस्य विवृतोपदेशात् अन्यत्र अपि विवृतोपदेशः कर्तव्यः । क्व अन्यत्र । धातुप्रातिपदिकप्रत्ययनिपातस्थस्य । किम् प्रयोजनम् । सवर्णग्रहणार्थः । आक्षरसमाम्नायिकेन अस्य ग्रहणम् यथा स्यात् । किम् च कारणम् न स्यात् । विवारभेदात् एव । आचार्यप्रवृत्तिः ज्ञापयति भवति आक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणम् इति यत् अयम् अकः सवर्णे दीर्घः इति प्रत्याहारे अकः ग्रहणम् करोति । कथम् कृत्वा ज्ञापकम् । न हि द्वयोः आक्षरसमाम्नायिकयोः युगपत् समवस्थानम् अस्ति । न एतत् अस्ति ज्ञापकम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम्। यस्य आक्षरसमाम्नायिकेन ग्रहणम् अस्ति तदर्थम् एतत् स्यात् । खट्वाढकम् मालाढकम् इति । सति प्रयोजने न ज्ञापकम् भवति । तस्मात् विवृतोपदेशः कर्तव्यः । कः एषः यत्नः चोद्यते विवृतोपदेशः नाम । विवृतः वा उपदिश्येत संवृतः वा कः नु अत्र विशेषः । सः एषः सर्वः एवमर्थः यत्नः यानि एतानि प्रातिपदिकानि अग्रहणानि तेषाम् एतेन अभ्युपायेन उपदेशः चोद्यते । तत् गुरु भवति । तस्मात् वक्तव्यम् धात्वादिस्थः च विवृतः इति । दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः । दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः विवृतोपदेशः कर्तव्यः । दीर्घप्लुतौ संवृतौ मा भूताम् इति । वृक्षाभ्याम् देवदत्ता इति । न एव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः । कौ तर्हि । विवृतौ । यौ स्तः तौ भविष्यतः । स्थानी प्रकल्पयेत् एतौ अनुस्वारः यथा यणम् । संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेत् अनुस्वारः यथा यणम् । तत् यथा सय्ंयन्ता सव्ंवत्सरः यल्ं लोकम् तल्ं लोकम् इति । अन्स्वारः स्थानी यणम् अनुनासिकम् प्रकल्पयति । विषमः उपन्यासः । युक्तम् यत् सतः तत्र प्रकॢप्तिः भवति । सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च । दीर्घप्लुतौ पुनः न एव लोके न च वेद संवृतौ स्तः । कौ तर्हि । विवृतौ । यौ स्तः तौ भविष्यतः । एवम् अपि कुतः एतत् तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः न पुनः तुल्यप्रयत्नौ स्थानभिन्नौ स्याताम् ईकारः ऊकारः वा इति । वक्ष्यति स्थाने अन्तरतमः इति अत्र स्थाने इति वर्तमाने पुनः स्थानेग्रहणस्य प्रयोजनम् । यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् ।

KA I,15.2-16.18 Ro I,54-60 akārasya vivṛtopadeśaḥ ākāragrahaṇārthaḥ . akārasya vivṛtopadeśaḥ kartavyaḥ . kim prayojanam . ākāragrahaṇārthaḥ . akāraḥ savarṇagragaṇena ākāram api yathā gṛhṇīyāt . kim ca kāraṇam na gṛhṇīyāt . vivārabhedāt . kim ucyate vivārabhedāt iti na punaḥ kālabhedād api . yathā eva hi vivārabhinnaḥ evam kālabhinnaḥ api . satyam etat . vakṣyati tulyāsyaprayatnam savarṇam iti atra āsyagrahaṇasya prayojanam āsye yeṣām tulyaḥ deśaḥ prayatnaḥ ca te savarṇasañjñakāḥ bhavanti iti . bāhyaḥ ca punaḥ āsyāt kālaḥ . tena syāt eva kālabhinnasya grahaṇam na punaḥ vivārabhinnasya . kim punaḥ idam vivṛtasya upadiśyamānasya prayojanam anvākhyāyate āhosvit saṃvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyate . vivṛtasya upadiśyamānasya prayojanam anvākhyāyate . katham jñāyate . yat ayam a* a iti akārasya vivṛtasya saṃvṛtatāpratyāpattim śāsti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . atikhaṭvaḥ , atimālaḥ iti atra āntaryataḥ vivṛtasya vivṛtaḥ prāpnoti . saṃvṛtaḥ syāt iti evamarthā pratyāpattiḥ . na etat asti . na eva loke na ca vede akāro vivṛtaḥ asti . kaḥ tarhi . saṃvṛtaḥ . yaḥ asti saḥ bhaviṣyati . tat etat pratyāpattivacanam jñāpakam eva bhaviṣyati vivṛtasya upadiśyamānasya prayojanam anvākhyāyate iti . kaḥ punaḥ atra viśeṣaḥ vivṛtasya upadiśyamānasya prayojanam anvākhyāyeta saṃvṛtasya upadiśyamānasya vā vivṛtopadeśaḥ codyeta iti . na khalu kaḥ cid viśeṣaḥ . āhopuruṣikāmātram tu bhavān āha saṃvṛtasya upadiśyamānasya vivṛtopadeśaḥ codyate iti . vayam tu brūmaḥ vivṛtasya upadiśyamānasya prayojanam anvākhyāyate iti. tasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ savarṇagrahaṇārthaḥ . tasya etasya ākṣarasamāmnāyikasya vivṛtopadeśāt anyatra api vivṛtopadeśaḥ kartavyaḥ . kva anyatra . dhātuprātipadikapratyayanipātasthasya . kim prayojanam . savarṇagrahaṇārthaḥ . ākṣarasamāmnāyikena asya grahaṇam yathā syāt . kim ca kāraṇam na syāt . vivārabhedāt eva . ācāryapravṛttiḥ jñāpayati bhavati ākṣarasamāmnāyikena dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe dīrghaḥ iti pratyāhāre akaḥ grahaṇam karoti . katham kṛtvā jñāpakam . na hi dvayoḥ ākṣarasamāmnāyikayoḥ yugapat samavasthānam asti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim. yasya ākṣarasamāmnāyikena grahaṇam asti tadartham etat syāt . khaṭvāḍhakam mālāḍhakam iti . sati prayojane na jñāpakam bhavati . tasmāt vivṛtopadeśaḥ kartavyaḥ . kaḥ eṣaḥ yatnaḥ codyate vivṛtopadeśaḥ nāma . vivṛtaḥ vā upadiśyeta saṃvṛtaḥ vā kaḥ nu atra viśeṣaḥ . saḥ eṣaḥ sarvaḥ evamarthaḥ yatnaḥ yāni etāni prātipadikāni agrahaṇāni teṣām etena abhyupāyena upadeśaḥ codyate . tat guru bhavati . tasmāt vaktavyam dhātvādisthaḥ ca vivṛtaḥ iti . dīrghaplutavacane ca saṃvṛtanivṛttyarthaḥ . dīrghaplutavacane ca saṃvṛtanivṛttyarthaḥ vivṛtopadeśaḥ kartavyaḥ . dīrghaplutau saṃvṛtau mā bhūtām iti . vṛkṣābhyām devadattā iti . na eva loke na ca vede dīrghaplutau saṃvṛtau staḥ . kau tarhi . vivṛtau . yau staḥ tau bhaviṣyataḥ . sthānī prakalpayet etau anusvāraḥ yathā yaṇam . saṃvṛtaḥ sthānī saṃvṛtau dīrghaplutau prakalpayet anusvāraḥ yathā yaṇam . tat yathā sayṃyantā savṃvatsaraḥ yalṃ lokam talṃ lokam iti . ansvāraḥ sthānī yaṇam anunāsikam prakalpayati . viṣamaḥ upanyāsaḥ . yuktam yat sataḥ tatra prakḷptiḥ bhavati . santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ ca . dīrghaplutau punaḥ na eva loke na ca veda saṃvṛtau staḥ . kau tarhi . vivṛtau . yau staḥ tau bhaviṣyataḥ . evam api kutaḥ etat tulyasthānau prayatnabhinnau bhaviṣyataḥ na punaḥ tulyaprayatnau sthānabhinnau syātām īkāraḥ ūkāraḥ vā iti . vakṣyati sthāne antaratamaḥ iti atra sthāne iti vartamāne punaḥ sthānegrahaṇasya prayojanam . yatra anekavidham āntaryam tatra sthānataḥ eva āntaryam balīyaḥ yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६।१९-१९।८ रो इ,६०-६९ तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् । तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति । अस्य च्वौ यस्य ईति च । किम् कारणम् । अनण्त्वात् । न हि एते अणः ये अनुवृत्तौ । के तर्हि । ये अक्षरसमाम्नये उपदिश्यन्ते । एकत्वात् अकारस्य सिद्धम् । एकः अयम् अकारः यः च अक्षरसमाम्नये यः च अनुवृत्तौ यः च धात्वादिस्थः । अनुबन्धसङ्करः तु । अनुबन्धसङ्करः तु प्राप्नोति । कर्मणि अण् , आतः अनुपसर्गे कः इति के अपि णित्कृतम् प्राप्नोति । एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः । एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः भविष्यति । तत्र कः दोषः । किरिणा गिरिणा इति अत्र एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति । इह च घटेन तरति घटिक इति द्व्यज्लक्षणः ठन् न प्राप्नोति । द्रव्यवत् च उपचाराः । द्रव्यवत् च उपचाराः प्राप्नुवन्ति । तत् यथा । द्रव्येषु न एकेन घटेन अनेकः युगपत् कार्यम् करोति । एवम् इमम् अकारम् न अनेकः युगपत् उच्चारयेत् । विषयेण तु नानालिङ्गकारणात् सिद्धम् । यत् अयम् विषये विषये नानालिङ्गम् अकारम् करोति कर्मणि अण् आतः अनुपसर्गे कः इति तेन ज्ञायते नानुबन्धसङ्करः अस्ति इति । यदि हि स्यात् नानालिङ्गकरणम् अनर्थकम् स्यात् । एकम् एव अयम् सर्वगुणम् उच्चारयेत् । न एतत् अस्ति ज्ञपकम् । इत्सञ्ज्ञाप्रकॢप्त्यर्थम् एतत् स्यात् । न हि अयम् अनुबन्धैः शल्यकवत् शक्यः उपचेतुम् । इत्सञ्ज्ञयाम् हि दोषः स्यात् । आयम्य हि द्वयोः इत्सञ्ज्ञा स्यात् । कयोः । आद्यन्तयोः । एवम् तर्हि विषयेण तु पुनः लिङ्गकरणात् सिद्धम् । यत् अयम् विषये विषये पुनः लिङ्गम् अकारम् करोति प्राक् दीव्यतः अण् , शिवादिभ्यः अण् इति तेन ज्ञायते न अनुबन्धसङ्करः अस्ति इति । यदि हि स्यात् पुनः लिङ्गकरणम् अनर्थकम् स्यात् । अथ वा पुनः अस्तु विषयेण तु नानालिङ्गकारणात् सिद्धम् इति एव । ननु च उक्तम् इत्सञ्ज्ञाप्रकॢप्त्यर्थम् एतत् स्यात् इति । न एष दोषः । लोकतः एतत् सिद्धम् । तत् यथा : लोके कः चित् देवदत्तम् आह : इह मुण्डो भव , इह जटी भव , इह शिखी भव इति । यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपतिष्ठते । एवम् अकारः यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपस्थास्यते । यत् अपि उच्यते एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः इति । एकाजनेकाज्ग्रहणेषु च आवृत्तिसङ्ख्यानात् । एकाजनेकाज्ग्रहणेषु च आवृत्तेः सङ्ख्यानात् अनेकाच्त्वम् भविष्यति । तत् यथा सप्तदश सामिधेन्यः भवन्ति इति त्रिः प्रथमम् अन्वाह त्रिः उत्तमम् इति आवृत्तितः सप्तदशत्वम् भवति । एवम् इह अपि आवृत्तितः अनेकाच्त्वम् भविष्यति । भवेद् आवृत्तितः कार्यम् परिहृतम् । इह तु खलु किरिणा गिरिणा इति एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति एव । एतत् अपि सिद्धम् । कथम् । लोकतः । तत् यथा लोके ऋषिसहस्रम् एकाम् कपिलाम् एकैकशः सहस्रकृत्वः दत्त्वा तया सर्वे ते सहस्रदक्षिणः संपन्नाः एवम् इह अपि अनेकाच्त्वम् भविष्यति । यत् अपि उच्यते द्रव्यवत् च उपचाराः प्राप्नुवन्ति इति । भवेत् यत् असम्भवि कार्यम् तत् न अनेकः युगपत् कुर्यात् । यत् तु खलु सम्भवि कार्यम् अनेकः अपि तत् युगपत् करोति । तत् यथा घटस्य दर्शनम् स्पर्शनम् वा । सम्भवि च इदम् कार्यम् अकारस्य उच्चारणम् नाम अनेकः अपि तत् युगपत् करिष्यति । आन्यभाव्यम् तु कालशब्दव्यवायात् । आन्यभाव्यम् तु अकारस्य । कुतः । कालशब्दव्यवायात् । कालव्यवायात् शब्दव्यवायात् च । कालव्यावायात् : दण्ड , अग्रम् । शब्दव्यवायात् : दण्डः । न च एकस्य आत्मनः व्यवायेन भवितव्यम् । भवति चेत् भवति आन्यभाव्यम् अकारस्य । युगपत् च देशपृथक्त्वदर्शनात् । युगपत् च देशपृथक्त्वदर्शनात् मन्यामहे आन्यभाव्यम् अकारस्य इति । यत् अयम् युगपत् देशपृथक्त्वेषु उपलभ्यते । अश्वः , अर्कः , अर्थः इति । न हि एकः देवदत्तः युगपत् स्रुघ्ने च भवति मथुरायाम् च । यदि पुनः इमे वर्णाः शकुनिवत् स्युः । तत् यथा शकुनयः आशुगमित्वात् पुरस्तात् उत्पतिताः पश्चात् दृश्यन्ते एवम् अयम् अकारः द इति अत्र दृष्टः ण्ड इति अत्र दृश्यते । न एवम् शक्यम् । अनित्यत्वम् एवम् स्यात् । नित्याः च शब्दाः । नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः । यदि च अयम् द इति अत्र दृष्टः ण्ड इति अत्र दृश्येत न अयम् कूटस्थः स्यात् । यदि पुनः इमे वर्णाः आदित्यवत् स्युः । तत् यथा एकः आदित्यः अनेकाधिकरण्स्थः युगपत् देशपृथक्त्वेषु उपलभ्यते । विषमः उपन्यासः । न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् देशपृथक्त्वेषु उपलभते । अकारम् पुनः उपलभते ।

KA I,16.19-19.8 Ro I,60-69 tatra anuvṛttinirdeśe savarṇāgrahaṇam anaṇtvāt . tatra anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti . asya cvau yasya īti ca . kim kāraṇam . anaṇtvāt . na hi ete aṇaḥ ye anuvṛttau . ke tarhi . ye akṣarasamāmnaye upadiśyante . ekatvāt akārasya siddham . ekaḥ ayam akāraḥ yaḥ ca akṣarasamāmnaye yaḥ ca anuvṛttau yaḥ ca dhātvādisthaḥ . anubandhasaṅkaraḥ tu . anubandhasaṅkaraḥ tu prāpnoti . karmaṇi aṇ , ātaḥ anupasarge kaḥ iti ke api ṇitkṛtam prāpnoti . ekājanekājgrahaṇeṣu ca anupapattiḥ . ekājanekājgrahaṇeṣu ca anupapattiḥ bhaviṣyati . tatra kaḥ doṣaḥ . kiriṇā giriṇā iti atra ekājlakṣaṇam antodāttatvam prāpnoti . iha ca ghaṭena tarati ghaṭika iti dvyajlakṣaṇaḥ ṭhan na prāpnoti . dravyavat ca upacārāḥ . dravyavat ca upacārāḥ prāpnuvanti . tat yathā . dravyeṣu na ekena ghaṭena anekaḥ yugapat kāryam karoti . evam imam akāram na anekaḥ yugapat uccārayet . viṣayeṇa tu nānāliṅgakāraṇāt siddham . yat ayam viṣaye viṣaye nānāliṅgam akāram karoti karmaṇi aṇ ātaḥ anupasarge kaḥ iti tena jñāyate nānubandhasaṅkaraḥ asti iti . yadi hi syāt nānāliṅgakaraṇam anarthakam syāt . ekam eva ayam sarvaguṇam uccārayet . na etat asti jñapakam . itsañjñāprakḷptyartham etat syāt . na hi ayam anubandhaiḥ śalyakavat śakyaḥ upacetum . itsañjñayām hi doṣaḥ syāt . āyamya hi dvayoḥ itsañjñā syāt . kayoḥ . ādyantayoḥ . evam tarhi viṣayeṇa tu punaḥ liṅgakaraṇāt siddham . yat ayam viṣaye viṣaye punaḥ liṅgam akāram karoti prāk dīvyataḥ aṇ , śivādibhyaḥ aṇ iti tena jñāyate na anubandhasaṅkaraḥ asti iti . yadi hi syāt punaḥ liṅgakaraṇam anarthakam syāt . atha vā punaḥ astu viṣayeṇa tu nānāliṅgakāraṇāt siddham iti eva . nanu ca uktam itsañjñāprakḷptyartham etat syāt iti . na eṣa doṣaḥ . lokataḥ etat siddham . tat yathā : loke kaḥ cit devadattam āha : iha muṇḍo bhava , iha jaṭī bhava , iha śikhī bhava iti . yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upatiṣṭhate . evam akāraḥ yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upasthāsyate . yat api ucyate ekājanekājgrahaṇeṣu ca anupapattiḥ iti . ekājanekājgrahaṇeṣu ca āvṛttisaṅkhyānāt . ekājanekājgrahaṇeṣu ca āvṛtteḥ saṅkhyānāt anekāctvam bhaviṣyati . tat yathā saptadaśa sāmidhenyaḥ bhavanti iti triḥ prathamam anvāha triḥ uttamam iti āvṛttitaḥ saptadaśatvam bhavati . evam iha api āvṛttitaḥ anekāctvam bhaviṣyati . bhaved āvṛttitaḥ kāryam parihṛtam . iha tu khalu kiriṇā giriṇā iti ekājlakṣaṇam antodāttatvam prāpnoti eva . etat api siddham . katham . lokataḥ . tat yathā loke ṛṣisahasram ekām kapilām ekaikaśaḥ sahasrakṛtvaḥ dattvā tayā sarve te sahasradakṣiṇaḥ saṃpannāḥ evam iha api anekāctvam bhaviṣyati . yat api ucyate dravyavat ca upacārāḥ prāpnuvanti iti . bhavet yat asambhavi kāryam tat na anekaḥ yugapat kuryāt . yat tu khalu sambhavi kāryam anekaḥ api tat yugapat karoti . tat yathā ghaṭasya darśanam sparśanam vā . sambhavi ca idam kāryam akārasya uccāraṇam nāma anekaḥ api tat yugapat kariṣyati . ānyabhāvyam tu kālaśabdavyavāyāt . ānyabhāvyam tu akārasya . kutaḥ . kālaśabdavyavāyāt . kālavyavāyāt śabdavyavāyāt ca . kālavyāvāyāt : daṇḍa , agram . śabdavyavāyāt : daṇḍaḥ . na ca ekasya ātmanaḥ vyavāyena bhavitavyam . bhavati cet bhavati ānyabhāvyam akārasya . yugapat ca deśapṛthaktvadarśanāt . yugapat ca deśapṛthaktvadarśanāt manyāmahe ānyabhāvyam akārasya iti . yat ayam yugapat deśapṛthaktveṣu upalabhyate . aśvaḥ , arkaḥ , arthaḥ iti . na hi ekaḥ devadattaḥ yugapat srughne ca bhavati mathurāyām ca . yadi punaḥ ime varṇāḥ śakunivat syuḥ . tat yathā śakunayaḥ āśugamitvāt purastāt utpatitāḥ paścāt dṛśyante evam ayam akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyate . na evam śakyam . anityatvam evam syāt . nityāḥ ca śabdāḥ . nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . yadi ca ayam da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ syāt . yadi punaḥ ime varṇāḥ ādityavat syuḥ . tat yathā ekaḥ ādityaḥ anekādhikaraṇsthaḥ yugapat deśapṛthaktveṣu upalabhyate . viṣamaḥ upanyāsaḥ . na ekaḥ draṣṭā ādityam anekādhikaraṇastham yugapat deśapṛthaktveṣu upalabhate . akāram punaḥ upalabhate .

Sanskrit only: no published translation is held for this verse.