क्अ इ,१६।१९-१९।८ रो इ,६०-६९ तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् । तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति । अस्य च्वौ यस्य ईति च । किम् कारणम् । अनण्त्वात् । न हि एते अणः ये अनुवृत्तौ । के तर्हि । ये अक्षरसमाम्नये उपदिश्यन्ते । एकत्वात् अकारस्य सिद्धम् । एकः अयम् अकारः यः च अक्षरसमाम्नये यः च अनुवृत्तौ यः च धात्वादिस्थः । अनुबन्धसङ्करः तु । अनुबन्धसङ्करः तु प्राप्नोति । कर्मणि अण् , आतः अनुपसर्गे कः इति के अपि णित्कृतम् प्राप्नोति । एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः । एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः भविष्यति । तत्र कः दोषः । किरिणा गिरिणा इति अत्र एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति । इह च घटेन तरति घटिक इति द्व्यज्लक्षणः ठन् न प्राप्नोति । द्रव्यवत् च उपचाराः । द्रव्यवत् च उपचाराः प्राप्नुवन्ति । तत् यथा । द्रव्येषु न एकेन घटेन अनेकः युगपत् कार्यम् करोति । एवम् इमम् अकारम् न अनेकः युगपत् उच्चारयेत् । विषयेण तु नानालिङ्गकारणात् सिद्धम् । यत् अयम् विषये विषये नानालिङ्गम् अकारम् करोति कर्मणि अण् आतः अनुपसर्गे कः इति तेन ज्ञायते नानुबन्धसङ्करः अस्ति इति । यदि हि स्यात् नानालिङ्गकरणम् अनर्थकम् स्यात् । एकम् एव अयम् सर्वगुणम् उच्चारयेत् । न एतत् अस्ति ज्ञपकम् । इत्सञ्ज्ञाप्रकॢप्त्यर्थम् एतत् स्यात् । न हि अयम् अनुबन्धैः शल्यकवत् शक्यः उपचेतुम् । इत्सञ्ज्ञयाम् हि दोषः स्यात् । आयम्य हि द्वयोः इत्सञ्ज्ञा स्यात् । कयोः । आद्यन्तयोः । एवम् तर्हि विषयेण तु पुनः लिङ्गकरणात् सिद्धम् । यत् अयम् विषये विषये पुनः लिङ्गम् अकारम् करोति प्राक् दीव्यतः अण् , शिवादिभ्यः अण् इति तेन ज्ञायते न अनुबन्धसङ्करः अस्ति इति । यदि हि स्यात् पुनः लिङ्गकरणम् अनर्थकम् स्यात् । अथ वा पुनः अस्तु विषयेण तु नानालिङ्गकारणात् सिद्धम् इति एव । ननु च उक्तम् इत्सञ्ज्ञाप्रकॢप्त्यर्थम् एतत् स्यात् इति । न एष दोषः । लोकतः एतत् सिद्धम् । तत् यथा : लोके कः चित् देवदत्तम् आह : इह मुण्डो भव , इह जटी भव , इह शिखी भव इति । यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपतिष्ठते । एवम् अकारः यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपस्थास्यते । यत् अपि उच्यते एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः इति । एकाजनेकाज्ग्रहणेषु च आवृत्तिसङ्ख्यानात् । एकाजनेकाज्ग्रहणेषु च आवृत्तेः सङ्ख्यानात् अनेकाच्त्वम् भविष्यति । तत् यथा सप्तदश सामिधेन्यः भवन्ति इति त्रिः प्रथमम् अन्वाह त्रिः उत्तमम् इति आवृत्तितः सप्तदशत्वम् भवति । एवम् इह अपि आवृत्तितः अनेकाच्त्वम् भविष्यति । भवेद् आवृत्तितः कार्यम् परिहृतम् । इह तु खलु किरिणा गिरिणा इति एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति एव । एतत् अपि सिद्धम् । कथम् । लोकतः । तत् यथा लोके ऋषिसहस्रम् एकाम् कपिलाम् एकैकशः सहस्रकृत्वः दत्त्वा तया सर्वे ते सहस्रदक्षिणः संपन्नाः एवम् इह अपि अनेकाच्त्वम् भविष्यति । यत् अपि उच्यते द्रव्यवत् च उपचाराः प्राप्नुवन्ति इति । भवेत् यत् असम्भवि कार्यम् तत् न अनेकः युगपत् कुर्यात् । यत् तु खलु सम्भवि कार्यम् अनेकः अपि तत् युगपत् करोति । तत् यथा घटस्य दर्शनम् स्पर्शनम् वा । सम्भवि च इदम् कार्यम् अकारस्य उच्चारणम् नाम अनेकः अपि तत् युगपत् करिष्यति । आन्यभाव्यम् तु कालशब्दव्यवायात् । आन्यभाव्यम् तु अकारस्य । कुतः । कालशब्दव्यवायात् । कालव्यवायात् शब्दव्यवायात् च । कालव्यावायात् : दण्ड , अग्रम् । शब्दव्यवायात् : दण्डः । न च एकस्य आत्मनः व्यवायेन भवितव्यम् । भवति चेत् भवति आन्यभाव्यम् अकारस्य । युगपत् च देशपृथक्त्वदर्शनात् । युगपत् च देशपृथक्त्वदर्शनात् मन्यामहे आन्यभाव्यम् अकारस्य इति । यत् अयम् युगपत् देशपृथक्त्वेषु उपलभ्यते । अश्वः , अर्कः , अर्थः इति । न हि एकः देवदत्तः युगपत् स्रुघ्ने च भवति मथुरायाम् च । यदि पुनः इमे वर्णाः शकुनिवत् स्युः । तत् यथा शकुनयः आशुगमित्वात् पुरस्तात् उत्पतिताः पश्चात् दृश्यन्ते एवम् अयम् अकारः द इति अत्र दृष्टः ण्ड इति अत्र दृश्यते । न एवम् शक्यम् । अनित्यत्वम् एवम् स्यात् । नित्याः च शब्दाः । नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः । यदि च अयम् द इति अत्र दृष्टः ण्ड इति अत्र दृश्येत न अयम् कूटस्थः स्यात् । यदि पुनः इमे वर्णाः आदित्यवत् स्युः । तत् यथा एकः आदित्यः अनेकाधिकरण्स्थः युगपत् देशपृथक्त्वेषु उपलभ्यते । विषमः उपन्यासः । न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् देशपृथक्त्वेषु उपलभते । अकारम् पुनः उपलभते ।
KA I,16.19-19.8 Ro I,60-69 tatra anuvṛttinirdeśe savarṇāgrahaṇam anaṇtvāt . tatra anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti . asya cvau yasya īti ca . kim kāraṇam . anaṇtvāt . na hi ete aṇaḥ ye anuvṛttau . ke tarhi . ye akṣarasamāmnaye upadiśyante . ekatvāt akārasya siddham . ekaḥ ayam akāraḥ yaḥ ca akṣarasamāmnaye yaḥ ca anuvṛttau yaḥ ca dhātvādisthaḥ . anubandhasaṅkaraḥ tu . anubandhasaṅkaraḥ tu prāpnoti . karmaṇi aṇ , ātaḥ anupasarge kaḥ iti ke api ṇitkṛtam prāpnoti . ekājanekājgrahaṇeṣu ca anupapattiḥ . ekājanekājgrahaṇeṣu ca anupapattiḥ bhaviṣyati . tatra kaḥ doṣaḥ . kiriṇā giriṇā iti atra ekājlakṣaṇam antodāttatvam prāpnoti . iha ca ghaṭena tarati ghaṭika iti dvyajlakṣaṇaḥ ṭhan na prāpnoti . dravyavat ca upacārāḥ . dravyavat ca upacārāḥ prāpnuvanti . tat yathā . dravyeṣu na ekena ghaṭena anekaḥ yugapat kāryam karoti . evam imam akāram na anekaḥ yugapat uccārayet . viṣayeṇa tu nānāliṅgakāraṇāt siddham . yat ayam viṣaye viṣaye nānāliṅgam akāram karoti karmaṇi aṇ ātaḥ anupasarge kaḥ iti tena jñāyate nānubandhasaṅkaraḥ asti iti . yadi hi syāt nānāliṅgakaraṇam anarthakam syāt . ekam eva ayam sarvaguṇam uccārayet . na etat asti jñapakam . itsañjñāprakḷptyartham etat syāt . na hi ayam anubandhaiḥ śalyakavat śakyaḥ upacetum . itsañjñayām hi doṣaḥ syāt . āyamya hi dvayoḥ itsañjñā syāt . kayoḥ . ādyantayoḥ . evam tarhi viṣayeṇa tu punaḥ liṅgakaraṇāt siddham . yat ayam viṣaye viṣaye punaḥ liṅgam akāram karoti prāk dīvyataḥ aṇ , śivādibhyaḥ aṇ iti tena jñāyate na anubandhasaṅkaraḥ asti iti . yadi hi syāt punaḥ liṅgakaraṇam anarthakam syāt . atha vā punaḥ astu viṣayeṇa tu nānāliṅgakāraṇāt siddham iti eva . nanu ca uktam itsañjñāprakḷptyartham etat syāt iti . na eṣa doṣaḥ . lokataḥ etat siddham . tat yathā : loke kaḥ cit devadattam āha : iha muṇḍo bhava , iha jaṭī bhava , iha śikhī bhava iti . yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upatiṣṭhate . evam akāraḥ yalliṅgaḥ yatra ucyate talliṅgaḥ tatra upasthāsyate . yat api ucyate ekājanekājgrahaṇeṣu ca anupapattiḥ iti . ekājanekājgrahaṇeṣu ca āvṛttisaṅkhyānāt . ekājanekājgrahaṇeṣu ca āvṛtteḥ saṅkhyānāt anekāctvam bhaviṣyati . tat yathā saptadaśa sāmidhenyaḥ bhavanti iti triḥ prathamam anvāha triḥ uttamam iti āvṛttitaḥ saptadaśatvam bhavati . evam iha api āvṛttitaḥ anekāctvam bhaviṣyati . bhaved āvṛttitaḥ kāryam parihṛtam . iha tu khalu kiriṇā giriṇā iti ekājlakṣaṇam antodāttatvam prāpnoti eva . etat api siddham . katham . lokataḥ . tat yathā loke ṛṣisahasram ekām kapilām ekaikaśaḥ sahasrakṛtvaḥ dattvā tayā sarve te sahasradakṣiṇaḥ saṃpannāḥ evam iha api anekāctvam bhaviṣyati . yat api ucyate dravyavat ca upacārāḥ prāpnuvanti iti . bhavet yat asambhavi kāryam tat na anekaḥ yugapat kuryāt . yat tu khalu sambhavi kāryam anekaḥ api tat yugapat karoti . tat yathā ghaṭasya darśanam sparśanam vā . sambhavi ca idam kāryam akārasya uccāraṇam nāma anekaḥ api tat yugapat kariṣyati . ānyabhāvyam tu kālaśabdavyavāyāt . ānyabhāvyam tu akārasya . kutaḥ . kālaśabdavyavāyāt . kālavyavāyāt śabdavyavāyāt ca . kālavyāvāyāt : daṇḍa , agram . śabdavyavāyāt : daṇḍaḥ . na ca ekasya ātmanaḥ vyavāyena bhavitavyam . bhavati cet bhavati ānyabhāvyam akārasya . yugapat ca deśapṛthaktvadarśanāt . yugapat ca deśapṛthaktvadarśanāt manyāmahe ānyabhāvyam akārasya iti . yat ayam yugapat deśapṛthaktveṣu upalabhyate . aśvaḥ , arkaḥ , arthaḥ iti . na hi ekaḥ devadattaḥ yugapat srughne ca bhavati mathurāyām ca . yadi punaḥ ime varṇāḥ śakunivat syuḥ . tat yathā śakunayaḥ āśugamitvāt purastāt utpatitāḥ paścāt dṛśyante evam ayam akāraḥ da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyate . na evam śakyam . anityatvam evam syāt . nityāḥ ca śabdāḥ . nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . yadi ca ayam da iti atra dṛṣṭaḥ ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ syāt . yadi punaḥ ime varṇāḥ ādityavat syuḥ . tat yathā ekaḥ ādityaḥ anekādhikaraṇsthaḥ yugapat deśapṛthaktveṣu upalabhyate . viṣamaḥ upanyāsaḥ . na ekaḥ draṣṭā ādityam anekādhikaraṇastham yugapat deśapṛthaktveṣu upalabhate . akāram punaḥ upalabhate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.