तासां पुरस्तात् पूर्ववदेका । एवमुदक्पार्श्वे ऽपि ॥ पुच्छा - ये पुच्छात्मसन्धौ द्वे चतुर्थ्यौ विशये । अविशेषादात्मनि पुच्छं च समे ॥ तयो - हिते तयोश् च पशावत् द्वे पञ्चम्यावर्थेष्टके । अनीकं मुखम् । तेन संहिते मेषयुद्धवत् ॥ षोडशः खण्डः सुन्दरराजीया व्याख्या चतु - पञ्चमम् त्रिंशदङ्गुलायामं पञ्चदशाह्गुलव्यासं । समकर्णं दीर्घचतुरश्रम् । तस्या - षष्ठम् पुरुष - मम् यथा पुरस्तात्प्रादेशस्तिर्यङ्भानी पश्चात्तु प्रादेशत्रयम् । सप्तमाष्टमयोरुभयोरपि पार्श्वफलकानि सप्तविंशकानि षट्तिलोनानि । चतु - मम् चतुर्भागीयामुभयतो ऽक्ष्णयाभिन्नायां चत्वारो नवमा भवन्ति त्रिकोणाः । तेषामेकं करणं नवमं । तस्यैकं फलकं त्रिंशदङ्गुलं । अन्ये एकविशके सप्ततिले । उप - ध्यात् प्रथमाः प्रथमकरणकृताः । एवं षष्टय इत्यादिषु उदीचीरुदगायताः ॥ पुच्छ - षष्टयः प्रागायता एताः । आसामुपधानप्रकारमाह - तिस्र - काः तिसृणां द्वे प्रागग्रे । एका प्रत्यगग्रा । पुच्छा - ये उदगग्रा दक्षिणाग्रा च । ते आत्मानं पुच्छं च पञ्चदशाङ्गुलावेते । तयो - हिते अनीकसंहिते मुखसंहिते । उदगायते । षोडशः खण्डः कपर्दिभाष्यम् शेषे दश चतुर्थ्यः श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचीश् च
tāsāṃ purastāt pūrvavadekā / evamudakpārśve 'pi // pucchā - ye pucchātmasandhau dve caturthyau viśaye / aviśeṣādātmani pucchaṃ ca same // tayo - hite tayoś ca paśāvat dve pañcamyāvartheṣṭake / anīkaṃ mukham / tena saṃhite meṣayuddhavat // ṣoḍaśaḥ khaṇḍaḥ sundararājīyā vyākhyā catu - pañcamam triṃśadaṅgulāyāmaṃ pañcadaśāhgulavyāsaṃ / samakarṇaṃ dīrghacaturaśram / tasyā - ṣaṣṭham puruṣa - mam yathā purastātprādeśastiryaṅbhānī paścāttu prādeśatrayam / saptamāṣṭamayorubhayorapi pārśvaphalakāni saptaviṃśakāni ṣaṭtilonāni / catu - mam caturbhāgīyāmubhayato 'kṣṇayābhinnāyāṃ catvāro navamā bhavanti trikoṇāḥ / teṣāmekaṃ karaṇaṃ navamaṃ / tasyaikaṃ phalakaṃ triṃśadaṅgulaṃ / anye ekaviśake saptatile / upa - dhyāt prathamāḥ prathamakaraṇakṛtāḥ / evaṃ ṣaṣṭaya ityādiṣu udīcīrudagāyatāḥ // puccha - ṣaṣṭayaḥ prāgāyatā etāḥ / āsāmupadhānaprakāramāha - tisra - kāḥ tisṛṇāṃ dve prāgagre / ekā pratyagagrā / pucchā - ye udagagrā dakṣiṇāgrā ca / te ātmānaṃ pucchaṃ ca pañcadaśāṅgulāvete / tayo - hite anīkasaṃhite mukhasaṃhite / udagāyate / ṣoḍaśaḥ khaṇḍaḥ kapardibhāṣyam śeṣe daśa caturthyaḥ śroṇyaṃseṣu cāṣṭau prācīḥ pratīcīś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.