तासां पुरस्तात् पूर्ववदेका । एवमुदक्पार्श्वे ऽपि ॥ पुच्छा - ये पुच्छात्मसन्धौ द्वे चतुर्थ्यौ विशये । अविशेषादात्मनि पुच्छं च समे ॥ तयो - हिते तयोश् च पशावत् द्वे पञ्चम्यावर्थेष्टके । अनीकं मुखम् । तेन संहिते मेषयुद्धवत् ॥ षोडशः खण्डः सुन्दरराजीया व्याख्या चतु - पञ्चमम् त्रिंशदङ्गुलायामं पञ्चदशाह्गुलव्यासं । समकर्णं दीर्घचतुरश्रम् । तस्या - षष्ठम् पुरुष - मम् यथा पुरस्तात्प्रादेशस्तिर्यङ्भानी पश्चात्तु प्रादेशत्रयम् । सप्तमाष्टमयोरुभयोरपि पार्श्वफलकानि सप्तविंशकानि षट्तिलोनानि । चतु - मम् चतुर्भागीयामुभयतो ऽक्ष्णयाभिन्नायां चत्वारो नवमा भवन्ति त्रिकोणाः । तेषामेकं करणं नवमं । तस्यैकं फलकं त्रिंशदङ्गुलं । अन्ये एकविशके सप्ततिले । उप - ध्यात् प्रथमाः प्रथमकरणकृताः । एवं षष्टय इत्यादिषु उदीचीरुदगायताः ॥ पुच्छ - षष्टयः प्रागायता एताः । आसामुपधानप्रकारमाह - तिस्र - काः तिसृणां द्वे प्रागग्रे । एका प्रत्यगग्रा । पुच्छा - ये उदगग्रा दक्षिणाग्रा च । ते आत्मानं पुच्छं च पञ्चदशाङ्गुलावेते । तयो - हिते अनीकसंहिते मुखसंहिते । उदगायते । षोडशः खण्डः कपर्दिभाष्यम् शेषे दश चतुर्थ्यः श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचीश् च
tāsāṃ purastāt pūrvavadekā / evamudakpārśve 'pi // pucchā - ye pucchātmasandhau dve caturthyau viśaye / aviśeṣādātmani pucchaṃ ca same // tayo - hite tayoś ca paśāvat dve pañcamyāvartheṣṭake / anīkaṃ mukham / tena saṃhite meṣayuddhavat // ṣoḍaśaḥ khaṇḍaḥ sundararājīyā vyākhyā catu - pañcamam triṃśadaṅgulāyāmaṃ pañcadaśāhgulavyāsaṃ / samakarṇaṃ dīrghacaturaśram / tasyā - ṣaṣṭham puruṣa - mam yathā purastātprādeśastiryaṅbhānī paścāttu prādeśatrayam / saptamāṣṭamayorubhayorapi pārśvaphalakāni saptaviṃśakāni ṣaṭtilonāni / catu - mam caturbhāgīyāmubhayato 'kṣṇayābhinnāyāṃ catvāro navamā bhavanti trikoṇāḥ / teṣāmekaṃ karaṇaṃ navamaṃ / tasyaikaṃ phalakaṃ triṃśadaṅgulaṃ / anye ekaviśake saptatile / upa - dhyāt prathamāḥ prathamakaraṇakṛtāḥ / evaṃ ṣaṣṭaya ityādiṣu udīcīrudagāyatāḥ // puccha - ṣaṣṭayaḥ prāgāyatā etāḥ / āsāmupadhānaprakāramāha - tisra - kāḥ tisṛṇāṃ dve prāgagre / ekā pratyagagrā / pucchā - ye udagagrā dakṣiṇāgrā ca / te ātmānaṃ pucchaṃ ca pañcadaśāṅgulāvete / tayo - hite anīkasaṃhite mukhasaṃhite / udagāyate / ṣoḍaśaḥ khaṇḍaḥ kapardibhāṣyam śeṣe daśa caturthyaḥ śroṇyaṃseṣu cāṣṭau prācīḥ pratīcīś ca
Sanskrit only: no published translation is held for this verse.
पुच्छशेषे चतुर्थ्यो दश तिर्यगायताः । श्रोण्यंसेषु चाष्टौ श्रोण्याश्चतस्रः प्रागायताः । उत्तरस्यां दक्षिणस्यां च विपर्यस्य कारिताः । अंसयोश्वैवम् । शेषे च षड्विंशतिर् अष्टौ षष्टयश् चतस्रः पञ्चम्यः
pucchaśeṣe caturthyo daśa tiryagāyatāḥ / śroṇyaṃseṣu cāṣṭau śroṇyāścatasraḥ prāgāyatāḥ / uttarasyāṃ dakṣiṇasyāṃ ca viparyasya kāritāḥ / aṃsayośvaivam / śeṣe ca ṣaḍviṃśatir aṣṭau ṣaṣṭayaś catasraḥ pañcamyaḥ
Sanskrit only: no published translation is held for this verse.
आत्मनि शेषे शिष्टे देशे षड्विंशतिश्चतुर्थ्यः । अष्टौ चतस्रः पञ्चम्यः । तासामुपधानमार्ग उच्यते - विशयानां मार्गे तिर्यगात्मनि चतुर्दश चतुर्थ्यः । तासां पार्श्वयोर्द्वे द्वे प्राच्यौ च विपर्यस्य कारिते । उत्तरे पार्श्वे चतुर्दशानामेव पार्श्वयोर्मध्ये द्वे द्वे तिर्यक् । एताःषड्विंशतिश्चतुर्थ्य उपहिताः । चतस्रश्चतुर्भागीयाकोणेषु स्थिताः । तासु चतस्रः पञ्चम्यः तिर्यक् । षष्टयश्वाष्टौ तिर्यगेव ॥ शिरसि चतुर्थ्यौ विशये । तयोश् च पुरस्तात् प्राच्यौ
ātmani śeṣe śiṣṭe deśe ṣaḍviṃśatiścaturthyaḥ / aṣṭau catasraḥ pañcamyaḥ / tāsāmupadhānamārga ucyate - viśayānāṃ mārge tiryagātmani caturdaśa caturthyaḥ / tāsāṃ pārśvayordve dve prācyau ca viparyasya kārite / uttare pārśve caturdaśānāmeva pārśvayormadhye dve dve tiryak / etāḥṣaḍviṃśatiścaturthya upahitāḥ / catasraścaturbhāgīyākoṇeṣu sthitāḥ / tāsu catasraḥ pañcamyaḥ tiryak / ṣaṣṭayaśvāṣṭau tiryageva // śirasi caturthyau viśaye | tayoś ca purastāt prācyau
Sanskrit only: no published translation is held for this verse.
एष द्विशतः प्रस्तारः
eṣa dviśataḥ prastāraḥ
Sanskrit only: no published translation is held for this verse.
तयोर्विशययोः पुरस्तात्प्राच्यौ चतुर्थ्यौ विपर्यस्य कारिता दक्षिणतः । एषेति । किर्मथमिदम् यावता द्विशत एव? परिभाषेयम् । यो ऽयं प्रस्तारो द्विशत(ःस) इति परिभाष्यते । सङ्ख्यां पूरयेदित्युक्ते द्विशत एव पूर्यते । इतरथा का संख्या पूरयितव्येति न ज्ञायते । अस्ति सहस्रसंख्येति चेन्न । प्रतिप्रस्तारं पूरयेदिति वचनमनर्थङ्कं सम्पद्यते । तस्मात्परिभाषेयमिति ॥ अपरस्मिन् प्रस्तारे पञ्चपञ्च निर्णामयोर्द्वितीयाः । अप्यययोश् च तृतीया आत्मानम् अष्टभागावेताः द्वितीया वक्रीभूताः । निर्णामो वक्रप्रदेशः । तस्मिन् प्रदेशे पञ्चपञ्च द्वितीयाः । अप्यययोश् च तृतीयाः - पक्षाप्यययोश्तृतीया आत्मानमष्टभागावेता व्याप्ताः । चतुर्भागीयेष्टकामात्रमात्मनि स्थिताः । पञ्छपञ्च विपर्यस्य कारिता उत्तरे पक्षाप्यये । शेषे पञ्चचत्वारिंशत् प्रथमाः प्राचीः
tayorviśayayoḥ purastātprācyau caturthyau viparyasya kāritā dakṣiṇataḥ / eṣeti / kirmathamidam yāvatā dviśata eva? paribhāṣeyam / yo 'yaṃ prastāro dviśata(ḥsa) iti paribhāṣyate / saṅkhyāṃ pūrayedityukte dviśata eva pūryate / itarathā kā saṃkhyā pūrayitavyeti na jñāyate / asti sahasrasaṃkhyeti cenna / pratiprastāraṃ pūrayediti vacanamanarthaṅkaṃ sampadyate / tasmātparibhāṣeyamiti // aparasmin prastāre pañcapañca nirṇāmayordvitīyāḥ | apyayayoś ca tṛtīyā ātmānam aṣṭabhāgāvetāḥ dvitīyā vakrībhūtāḥ / nirṇāmo vakrapradeśaḥ / tasmin pradeśe pañcapañca dvitīyāḥ / apyayayoś ca tṛtīyāḥ - pakṣāpyayayośtṛtīyā ātmānamaṣṭabhāgāvetā vyāptāḥ / caturbhāgīyeṣṭakāmātramātmani sthitāḥ / pañchapañca viparyasya kāritā uttare pakṣāpyaye / śeṣe pañcacatvāriṃśat prathamāḥ prācīḥ
Sanskrit only: no published translation is held for this verse.
दक्षिणे पार्श्वे पञ्चविंशतिः । दक्षिणे पक्षे उत्तरे पार्श्वे पञ्चविंशतिरुत्तरे पक्षेविंशतिः । पुच्छपार्श्वयोः पञ्चपञ्च सप्तम्यः उत्तरे पार्श्वे विपर्यस्य कारिताः । द्वितीयचतुर्थोश् चान्यतरतः प्रतिसंहिताम् एकैकाम् द्वितीयायां रीत्यां चतुथर्यां च रीत्यां अन्यस्मिन्पार्श्वे एकैका सप्तमी । एका दक्षिणे पार्श्वे विपर्यस्य कारिता । अपरा उत्तरे पार्श्वे ॥ शेषे त्रयोदशाष्टम्यः
dakṣiṇe pārśve pañcaviṃśatiḥ / dakṣiṇe pakṣe uttare pārśve pañcaviṃśatiruttare pakṣeviṃśatiḥ / pucchapārśvayoḥ pañcapañca saptamyaḥ uttare pārśve viparyasya kāritāḥ / dvitīyacaturthoś cānyatarataḥ pratisaṃhitām ekaikām dvitīyāyāṃ rītyāṃ catutharyāṃ ca rītyāṃ anyasminpārśve ekaikā saptamī / ekā dakṣiṇe pārśve viparyasya kāritā / aparā uttare pārśve // śeṣe trayodaśāṣṭamyaḥ
Sanskrit only: no published translation is held for this verse.
पुच्छदेशे त्रयोदशाष्टम्यःशेरते । श्रोण्यंसेषु चाष्टौ चतुर्थ्यो दक्षिणा उदीचीश् च दक्षिणस्यां दक्षिणायते विपर्यस्य कारिते । उत्तरस्यां श्रोण्यां उदगायते । दक्षिणेंऽसे उदगायते विपर्यस्य कारिते ॥ शेषे च विंशतिस् त्रिंशत् षष्ठयः एकां पञ्चमीम्
pucchadeśe trayodaśāṣṭamyaḥśerate / śroṇyaṃseṣu cāṣṭau caturthyo dakṣiṇā udīcīś ca dakṣiṇasyāṃ dakṣiṇāyate viparyasya kārite / uttarasyāṃ śroṇyāṃ udagāyate / dakṣiṇeṃ'se udagāyate viparyasya kārite // śeṣe ca viṃśatis triṃśat ṣaṣṭhayaḥ ekāṃ pañcamīm
Sanskrit only: no published translation is held for this verse.
चकारेण चतुर्थ्यो ऽनुकृष्यन्ते । त्रिंशत् षष्ठयः एका च पञ्चमी । तासामुपाधानदेश उच्यते - आत्मनो दक्षिणे पार्श्वे दश चतुर् थ्यः । पञ्च प्राचीः पञ्च प्रतीचीः एवमुत्तरे पार्श्वे । मध्ये त्रिंशत् षष्ठयः प्राचीः एका च पञ्चमी । तासां पञ्चदश प्राचीः ॥ शिरसि चतुर्थ्यौ तयोश् च पुरस्ताच्चतस्रो नवम्यः
cakāreṇa caturthyo 'nukṛṣyante / triṃśat ṣaṣṭhayaḥ ekā ca pañcamī / tāsāmupādhānadeśa ucyate - ātmano dakṣiṇe pārśve daśa catur thyaḥ / pañca prācīḥ pañca pratīcīḥ evamuttare pārśve / madhye triṃśat ṣaṣṭhayaḥ prācīḥ ekā ca pañcamī / tāsāṃ pañcadaśa prācīḥ // śirasi caturthyau tayoś ca purastāccatasro navamyaḥ
Sanskrit only: no published translation is held for this verse.
एष द्विशतप्रस्तारः
eṣa dviśataprastāraḥ
Sanskrit only: no published translation is held for this verse.
व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्
vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet
Sanskrit only: no published translation is held for this verse.