अर्धयोर्मध्ये अर्धमध्ये । उपान्त्ययोः-द्वितीयचतुर्थयोःशङ्क्वोः । निमित्तं--चिह्नम् । स्पष्टमन्यत् । एष योगःसमचतुरश्चविषयः । एवमुत्तरतः ॥ कपर्दिभाष्यम् अथापरोयोगः विहरणाविशेषः इत्यर्थः ॥ पृष्ठ्यान्तयोर् मध्ये च शङ्कून् निहत्यार्धे ऽर्धे तद्विशेषम् अभ्यस्य लक्षणं कृत्वार्धमगमयेत् । अन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्न् इतरं लक्षणेन दक्षिणमङ्कम् आयच्छेत् । उन्मुच्य पूर्वस्माद् अपरस्मिन् प्रतिमुच्य लक्षणेनैव दक्षिणां श्रोणिम् आयच्छेत् । एवम् उत्तरौ श्रोण्यंसौ
ardhayormadhye ardhamadhye / upāntyayoḥ-dvitīyacaturthayoḥśaṅkvoḥ / nimittaṃ--cihnam / spaṣṭamanyat / eṣa yogaḥsamacaturaścaviṣayaḥ / evamuttarataḥ // kapardibhāṣyam athāparoyogaḥ viharaṇāviśeṣaḥ ityarthaḥ // pṛṣṭhyāntayor madhye ca śaṅkūn nihatyārdhe 'rdhe tadviśeṣam abhyasya lakṣaṇaṃ kṛtvārdhamagamayet | antyayoḥ pāśau kṛtvā madhyame saviśeṣaṃ pratimucya pūrvasminn itaraṃ lakṣaṇena dakṣiṇamaṅkam āyacchet | unmucya pūrvasmād aparasmin pratimucya lakṣaṇenaiva dakṣiṇāṃ śroṇim āyacchet | evam uttarau śroṇyaṃsau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.