अर्धयोर्मध्ये अर्धमध्ये । उपान्त्ययोः-द्वितीयचतुर्थयोःशङ्क्वोः । निमित्तं--चिह्नम् । स्पष्टमन्यत् । एष योगःसमचतुरश्चविषयः । एवमुत्तरतः ॥ कपर्दिभाष्यम् अथापरोयोगः विहरणाविशेषः इत्यर्थः ॥ पृष्ठ्यान्तयोर् मध्ये च शङ्कून् निहत्यार्धे ऽर्धे तद्विशेषम् अभ्यस्य लक्षणं कृत्वार्धमगमयेत् । अन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्न् इतरं लक्षणेन दक्षिणमङ्कम् आयच्छेत् । उन्मुच्य पूर्वस्माद् अपरस्मिन् प्रतिमुच्य लक्षणेनैव दक्षिणां श्रोणिम् आयच्छेत् । एवम् उत्तरौ श्रोण्यंसौ
ardhayormadhye ardhamadhye / upāntyayoḥ-dvitīyacaturthayoḥśaṅkvoḥ / nimittaṃ--cihnam / spaṣṭamanyat / eṣa yogaḥsamacaturaścaviṣayaḥ / evamuttarataḥ // kapardibhāṣyam athāparoyogaḥ viharaṇāviśeṣaḥ ityarthaḥ // pṛṣṭhyāntayor madhye ca śaṅkūn nihatyārdhe 'rdhe tadviśeṣam abhyasya lakṣaṇaṃ kṛtvārdhamagamayet | antyayoḥ pāśau kṛtvā madhyame saviśeṣaṃ pratimucya pūrvasminn itaraṃ lakṣaṇena dakṣiṇamaṅkam āyacchet | unmucya pūrvasmād aparasmin pratimucya lakṣaṇenaiva dakṣiṇāṃ śroṇim āyacchet | evam uttarau śroṇyaṃsau
Sanskrit only: no published translation is held for this verse.
अर्धे--प्रमाणार्धमात्रे शुल्बे । तद्विशेषंअर्धस्यैव विशेषं अभ्यस्य तद्विशेषान्ते लक्षणं कृत्वा अन्यदर्धं निर्विरोषमागमयेत् । यथा--गार्हपत्यचितेः षण्णवत्यङ्गुलाया अन्तययोर्मध्ये च शङ्कून्निहत्य अर्वे ऽष्टाचत्वारिंशदङ्गुले तद्विरोषं चतुस्तिलोनं विंशत्यङ्गुलमभ्यस्य लक्षणं कृत्वान्यदर्धं अष्टाचत्वारिंशदङ्गुलं संयोजयेत् । एवं चतुस्तिलोनषोडशकोत्तरशताङ्गुलं शुल्बम् । अन्तयोरित्यादि स्पष्टम् । कपर्दिभाष्यम् प्रमाणं तिर्यग् द्विकरण्य् आयामस् तस्याक्ष्णयारज्जुस् त्रिकरणी
ardhe--pramāṇārdhamātre śulbe / tadviśeṣaṃardhasyaiva viśeṣaṃ abhyasya tadviśeṣānte lakṣaṇaṃ kṛtvā anyadardhaṃ nirviroṣamāgamayet / yathā--gārhapatyaciteḥ ṣaṇṇavatyaṅgulāyā antayayormadhye ca śaṅkūnnihatya arve 'ṣṭācatvāriṃśadaṅgule tadviroṣaṃ catustilonaṃ viṃśatyaṅgulamabhyasya lakṣaṇaṃ kṛtvānyadardhaṃ aṣṭācatvāriṃśadaṅgulaṃ saṃyojayet / evaṃ catustilonaṣoḍaśakottaraśatāṅgulaṃ śulbam / antayorityādi spaṣṭam / kapardibhāṣyam pramāṇaṃ tiryag dvikaraṇy āyāmas tasyākṣṇayārajjus trikaraṇī
Sanskrit only: no published translation is held for this verse.
प्रमाणं--प्रक्रमादेस्तिर्यङ्नानी । द्विकतणी--पार्श्वमानीतस्यैव प्रक्रमादेः । तस्यैवंभूतस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुस्त्रिकरणी--त्रिगुणां भूमिं करोति । तस्य तिर्यङ्भानीभूदस्य । कथं ? प्रमाणमेकं करोति पार्श्वमानी द्विकरणी सा द्वौ करोति । तदुभयमक्ष्णयारज्जुः करोति । तदुक्तं दीर्घस्याक्ष्णयारज्जुः । इति- तृतीयकरण्येतेन व्याख्याता । विभागस्तु नवधा
pramāṇaṃ--prakramādestiryaṅnānī / dvikataṇī--pārśvamānītasyaiva prakramādeḥ / tasyaivaṃbhūtasya dīrghacaturaśrasyākṣṇayārajjustrikaraṇī--triguṇāṃ bhūmiṃ karoti / tasya tiryaṅbhānībhūdasya / kathaṃ ? pramāṇamekaṃ karoti pārśvamānī dvikaraṇī sā dvau karoti / tadubhayamakṣṇayārajjuḥ karoti / taduktaṃ dīrghasyākṣṇayārajjuḥ / iti- tṛtīyakaraṇyetena vyākhyātā | vibhāgastu navadhā
Sanskrit only: no published translation is held for this verse.
तृतीयकरण्या चतुरश्रे कृते नवधा विभागः कार्यः । तस्यैको भागः प्रमाणक्षेत्रस्य तृतीयं भवति । त्रिकरण्यास्तृतीयं तस्य करणी ॥ कपर्दिभाष्यम् तुल्ययोश् चतुरश्रयोर् उक्तः समासः । नानाप्रमाणयोश् चतुरश्रयोः समासः समास एकीकरणम् । चतुरश्रस्याक्ष्णयारज्जुरिति सूत्रेणस्पष्टः । नानाप्रमाणयोश्चतुरश्रयोःसमास उच्यत इति शेषः । दीर्घस्य समस्य चतुरश्रस्य समास एकीकरणम् । ह्रसीयसः करण्या वर्षीयसो वृद्ध्रम् उल्लिखेत् । वृद्ध्रस्याक्ष्णयारज्जुर् उभे समस्यति । तद् उक्तम्
tṛtīyakaraṇyā caturaśre kṛte navadhā vibhāgaḥ kāryaḥ / tasyaiko bhāgaḥ pramāṇakṣetrasya tṛtīyaṃ bhavati / trikaraṇyāstṛtīyaṃ tasya karaṇī // kapardibhāṣyam tulyayoś caturaśrayor uktaḥ samāsaḥ | nānāpramāṇayoś caturaśrayoḥ samāsaḥ samāsa ekīkaraṇam / caturaśrasyākṣṇayārajjuriti sūtreṇaspaṣṭaḥ / nānāpramāṇayoścaturaśrayoḥsamāsa ucyata iti śeṣaḥ / dīrghasya samasya caturaśrasya samāsa ekīkaraṇam / hrasīyasaḥ karaṇyā varṣīyaso vṛddhram ullikhet | vṛddhrasyākṣṇayārajjur ubhe samasyati | tad uktam
Sanskrit only: no published translation is held for this verse.
ह्रसीयसः करणीं तिर्यङ्मानीं कृत्वा वर्षीयसःसंबन्धिनं वृर्धं दीर्घचतुरश्रमुल्लिखेत्, वर्षीयसः करण्येव पार्श्वमानी । एवं कृतस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुःसमस्तुयोः करणी भवति । तदुक्तं "दीर्घस्याक्ष्णयारज्जुःऽ इत्यादिना । यथा पञ्चविधे ऽग्नौ क्लियमाणे द्विपुरुषेण चतुरश्रे कृते चतुष्पुरुषो भवति । तत्र पुरुषमात्रश्चतुरश्रः प्रक्षेप्तव्यः । तत्र द्विपुरुषकरणिके चतुरश्रे तदायामं पुरुषव्यासं दीर्घचतुरश्रमुल्लिखेत् । तस्याक्ष्णयारज्जुरष्टषष्टिशताङ्गुला सैकादशतिला, सा पञ्चविधाग्नेः करणी भवति । कपर्दिभाष्यम् चतुरश्राच् चतुरश्रं निर्जिहीर्षन् यावन् निर्जिहीर्षेत् तस्य करण्या वर्षीयसो वृद्ध्रमुल्लिखेत् पूर्वस्माच्चतुरश्राच्चतुरश्रं निर्जिहीर्षन् चतुरश्रप्रमाणेन वृध्रमुल्लिखेत् । वृर्धस्य पार्श्वमानीम् अक्ष्णयेतरत् पार्श्वम् उपसंहरेत् संयोजयेत् । सा यत्र निपतेत् तद् अपच्छिन्द्यात् सा पार्श्वमानी इतरस्मिन् पार्श्व यत्र निपतति स्पृशति तत्रापच्छिन्द्यात् । छिन्नया निरस्तम्
hrasīyasaḥ karaṇīṃ tiryaṅmānīṃ kṛtvā varṣīyasaḥsaṃbandhinaṃ vṛrdhaṃ dīrghacaturaśramullikhet, varṣīyasaḥ karaṇyeva pārśvamānī / evaṃ kṛtasya dīrghacaturaśrasyākṣṇayārajjuḥsamastuyoḥ karaṇī bhavati / taduktaṃ "dīrghasyākṣṇayārajjuḥ' ityādinā / yathā pañcavidhe 'gnau kliyamāṇe dvipuruṣeṇa caturaśre kṛte catuṣpuruṣo bhavati / tatra puruṣamātraścaturaśraḥ prakṣeptavyaḥ / tatra dvipuruṣakaraṇike caturaśre tadāyāmaṃ puruṣavyāsaṃ dīrghacaturaśramullikhet / tasyākṣṇayārajjuraṣṭaṣaṣṭiśatāṅgulā saikādaśatilā, sā pañcavidhāgneḥ karaṇī bhavati / kapardibhāṣyam caturaśrāc caturaśraṃ nirjihīrṣan yāvan nirjihīrṣet tasya karaṇyā varṣīyaso vṛddhramullikhet pūrvasmāccaturaśrāccaturaśraṃ nirjihīrṣan caturaśrapramāṇena vṛdhramullikhet / vṛrdhasya pārśvamānīm akṣṇayetarat pārśvam upasaṃharet saṃyojayet / sā yatra nipatet tad apacchindyāt sā pārśvamānī itarasmin pārśva yatra nipatati spṛśati tatrāpacchindyāt / chinnayā nirastam
Sanskrit only: no published translation is held for this verse.
चतुरश्रादिति । इदमपि करणीविधानमेव । महतश्चतुरश्रादल्पं चतुरश्रं निर्जिहीर्षन् विहर्तुमिच्छन् यावत् प्रमाणं चतुरश्रमपनेतुमिच्छति तस्याल्पस्य सरण्या माहतश्चतुरश्रस्यैकदेशं यथा छिन्नं भवति तथोल्लिखेत् । एवं कृते छिन्नं निरसि तव्यक्षेत्रप्रमाणतिर्यङ्भानीकं महत्क्षेत्रपार्श्वमानीकं प्रमाणपार्श्व मानीकं दीर्घचतुरश्रं भवति । अस्य क्षेत्रस्य पार्श्वमानीमक्ष्णयेतरत् पार्श्वमुपसंहरेत्--गमयेत्, सा पार्श्वमानीमक्ष्णयेतरता यत्रेतरस्याः पार्श्वमान्याः प्रदेशे निपतति तदपछिन्द्यात्--पार्श्वमानीमपाच्छित्याधिकं त्यजेत्, छिन्नया निरस्तं--छिन्नं पार्श्वमानीनिरसितव्यक्षेत्रस्य करणी भवति । तया पार्श्वमान्या चतुरश्रे कृते निरसितव्यक्षेत्रं निरस्तं भवतीत्यर्थः । सुन्दरराजीया व्याख्या चतुरश्रातछिन्नया निरस्तम् निर्हारो--निरसनम् । यथा निविधे ऽग्नौ क्रियमाणे द्विपुरुषेण चतुरश्रे कृते चतुष्पुरुषो भवति । तत्रैकपुरुषत्यागार्थं पुरुषमात्रतिर्यङ्भान्या वृध्रमुल्लिख्य तस्योत्तरां पार्श्वमानीं दक्षिणां प्राचीमितरत्पार्श्वं गमयेत् । सा च तत्र द्विपुरुषप्रमाणायां चत्वारिंशच्छतद्वयाङ्गुलप्रमाणायां पञ्चतिलाश्वापच्छिन्द्यात् । परिशि ष्टया करण्या चतुरश्रे कृते पुरुषो निरस्तो भवति । कपर्दिभाष्यम् यथा स्वयमेव दर्शयति- उपसंहृताक्षणयारज्जुः सा चतुष्करणी छिन्ना चेतरा च यत् पृथग्भूते कुरुतस् तद् उभयं करोति उपसंहृता पूर्वं पार्श्वमानी । इदानीमक्ष्णयारज्जुश् च रश्रस्यसा चतुष्करणी द्विपुरुषात् छिन्ना पार्श्वमानी इतरातिर्यह्भानी यत्पृथग्भूते कुरुतः तदुभयं करोति ॥ कथमित्याह- तिर्यङ्मानी पुरुषं शेषस् त्रीन् तिर्यङ्भानी पुरुषं करोति । शेषस्त्वक्ष्णयारज्जुद्वौ । तदुभयं तस्याक्ष्णयारजुरिति त्रीन्करोति ॥ तद् उक्तम्
caturaśrāditi / idamapi karaṇīvidhānameva / mahataścaturaśrādalpaṃ caturaśraṃ nirjihīrṣan vihartumicchan yāvat pramāṇaṃ caturaśramapanetumicchati tasyālpasya saraṇyā māhataścaturaśrasyaikadeśaṃ yathā chinnaṃ bhavati tathollikhet / evaṃ kṛte chinnaṃ nirasi tavyakṣetrapramāṇatiryaṅbhānīkaṃ mahatkṣetrapārśvamānīkaṃ pramāṇapārśva mānīkaṃ dīrghacaturaśraṃ bhavati / asya kṣetrasya pārśvamānīmakṣṇayetarat pārśvamupasaṃharet--gamayet, sā pārśvamānīmakṣṇayetaratā yatretarasyāḥ pārśvamānyāḥ pradeśe nipatati tadapachindyāt--pārśvamānīmapācchityādhikaṃ tyajet, chinnayā nirastaṃ--chinnaṃ pārśvamānīnirasitavyakṣetrasya karaṇī bhavati / tayā pārśvamānyā caturaśre kṛte nirasitavyakṣetraṃ nirastaṃ bhavatītyarthaḥ / sundararājīyā vyākhyā caturaśrātachinnayā nirastam nirhāro--nirasanam / yathā nividhe 'gnau kriyamāṇe dvipuruṣeṇa caturaśre kṛte catuṣpuruṣo bhavati / tatraikapuruṣatyāgārthaṃ puruṣamātratiryaṅbhānyā vṛdhramullikhya tasyottarāṃ pārśvamānīṃ dakṣiṇāṃ prācīmitaratpārśvaṃ gamayet / sā ca tatra dvipuruṣapramāṇāyāṃ catvāriṃśacchatadvayāṅgulapramāṇāyāṃ pañcatilāśvāpacchindyāt / pariśi ṣṭayā karaṇyā caturaśre kṛte puruṣo nirasto bhavati / kapardibhāṣyam yathā svayameva darśayati- upasaṃhṛtākṣaṇayārajjuḥ sā catuṣkaraṇī chinnā cetarā ca yat pṛthagbhūte kurutas tad ubhayaṃ karoti upasaṃhṛtā pūrvaṃ pārśvamānī / idānīmakṣṇayārajjuś ca raśrasyasā catuṣkaraṇī dvipuruṣāt chinnā pārśvamānī itarātiryahbhānī yatpṛthagbhūte kurutaḥ tadubhayaṃ karoti // kathamityāha- tiryaṅmānī puruṣaṃ śeṣas trīn tiryaṅbhānī puruṣaṃ karoti / śeṣastvakṣṇayārajjudvau / tadubhayaṃ tasyākṣṇayārajuriti trīnkaroti // tad uktam
Sanskrit only: no published translation is held for this verse.
तच्चाप्युक्तम् ॥ करविन्दीया व्याख्या इमं प्रकारमुदाहरणमुखेन स्पष्टिकरिष्यन्नाह- उरसंहता तदुक्तम् उपेति । सर्वतो द्विपुरुषप्रमाणं चतुष्पुरुषं चतुरश्रं विषयीकृ त्योदाहरति । एकस्य चतुरश्रस्यावयवभूते दीर्घचतुरश्रे या पार्श्वमान्यक्ष्णयोपसंहृता सा चतुष्करणी चतुष्करणी चतुष्पुरुषकरणीति प्रतिज्ञाता । अस्य तिर्यङ्भानी च पुरुषमात्रकरणीति । अस्य दीर्घचतुरश्रस्य छिन्ना पार्श्वमानी कियत्करणीति न ज्ञाता, सैवात्रावगन्तव्या । अत्र पुरुषप्रमाणं तिर्यङ्भान्या पृथग्भूतया यत्क्रियते छिन्नया पार्श्वमान्या पृथग्भूतया यत्क्रियते अक्ष्णयारज्जुः तदुभयक्षेत्रकरणीति न्यायतो ऽवगता । तत्राक्ष्णयारज्जुफलभूताच्चतुष्पुरुषाच्चतुरश्रादेकप्रमाणं तिर्यङ्भानीफले त्वेकस्मिन्नपनीते त्रयः पुरुषाः परिशेष्यात् सा त्रिपुरुषकरणीत्यवगन्तव्या । अत इदमुक्तं तिर्यङ्भानी पुरुषं करोति शेषः छिन्ना पार्श्वमानी । त्रीन् पुरुषान् इति पुल्लिङ्गनिर्देशः पुरुषभिप्रायः । पुरुषनिर्देशश्वाग्नौ पुरुषेण विमानं पुरुषाभ्यासापचयौ समासनिर्हारयोः उदाहरणमिति । अयमर्थः--सर्वतो द्विप्रमाणाच्चतुष्पुरुषाच्चतुरश्रादेकं पुरुषमपनीय त्रिपुरुषं समचतुरश्रं कर्तुमिच्छन् तच्चतुरश्रं पुरुषप्रमाणया रज्ज्वा मध्ये परिच्छिद्य द्विधा कृत्वा तदर्घस्यैकां पार्श्वमानीमपरां पार्श्वमानीं प्रत्यक्ष्णयोपगमयित्वा तयोर्यत्र संपातः तत्रावस्थितां पार्श्वमानीं छिच्वावशिष्टं निरस्य शिष्टया पार्श्वमान्या समचतुरश्रे कृते तच्चतुरश्रं त्रिपुरुषचतुरश्रं भवति । तथा सर्वतश्वतुष्पुरुषाच्चतुरश्राच्चतुरः पुरुषानपनीय द्वादशपुरुषं समचतुरश्रं कर्तुमिच्छद्द्विपुरुषप्रमाणया तिर्यङ्भान्या समचतुरश्रं विभज्यार्धस्यैकां पार्श्वमानीमन्यां प्रति गमयित्वा तयोःसन्निपाते ऽवस्थितां पार्श्वमानीमवच्छिद्य छेदं निरस्य शिष्टया पार्श्वमान्या चतुरश्रे कृते तत् क्षेत्रं द्वादशपुरुषसमचतुरश्रं भवति । छिन्नशिष्टा पार्श्वमानी तत्करणी भवतीत्यर्थः । एवं प्रमाणक्षेत्रे तृतीयद्विकरणीमपनीय तृतीयकरणी भवति । एवमेव सर्वत्र चतुष्करणीचतुर्थकरणीप्रभृतयः करण्यो ऽवगन्तव्याः । तदुक्तं "दीर्घस्याक्ष्मयारज्जुरित्यनेन । अस्योपयोगो द्रोणादिषु, सुन्दरराजीया व्याख्या तदेवोदाहरति--- उपसंहृता तदुक्तम् या अक्ष्णयोपसंहृता-एकीभूता रज्जुःसा चतुष्करणी द्विपुरुषापच्छिन्ना पार्श्वमानी अपच्छिन्ना पञ्चतिलोनाष्टशतद्वयाङ्गुला । इतरा--पुरुषमात्री तिर्यङ्भानी च यत्पृथग्भूते कुरुतस्तदुभयं करति कर्णरज्जुत्वात् । तत्र तिर्यङ्भानी स्पष्टमेव हि पुरुषमात्रं करोति । पारिशेष्यात्पार्श्वमानी त्रीन् पुरुषान् करोतीति ज्ञातुं शक्यते । तदुक्तं "दीर्घस्याक्ष्णयारज्जुःऽ इत्यादिना । कपर्दिभाष्यम् दीर्घचतुरश्रं समचतुरश्रं चिकीर्षन् तिर्यङ्मान्यापच्छिद्य शेषं विभज्योभयत उपदध्यात् दीर्घचतुरश्रं समचतुरश्रं कर्तुमिच्छन् तिर्यङ्भन्या तिर्यङ्भानीप्रमाणेनापच्छिद्य शेषं विभज्य--द्विधा कृत्वा तदुभयतः अग्रतः पार्श्वतश्रोपदध्यात्--निक्षिपेत् । खण्डम् आगन्तुना संपुरयेत् खण्डमागन्तुनातिरिक्तेन पूरयेत् । पूरयित्वा तदतिरिक्तं त्यचेत् । तस्य निर्हार उक्तः
taccāpyuktam // karavindīyā vyākhyā imaṃ prakāramudāharaṇamukhena spaṣṭikariṣyannāha- urasaṃhatā taduktam upeti / sarvato dvipuruṣapramāṇaṃ catuṣpuruṣaṃ caturaśraṃ viṣayīkṛ tyodāharati / ekasya caturaśrasyāvayavabhūte dīrghacaturaśre yā pārśvamānyakṣṇayopasaṃhṛtā sā catuṣkaraṇī catuṣkaraṇī catuṣpuruṣakaraṇīti pratijñātā / asya tiryaṅbhānī ca puruṣamātrakaraṇīti / asya dīrghacaturaśrasya chinnā pārśvamānī kiyatkaraṇīti na jñātā, saivātrāvagantavyā / atra puruṣapramāṇaṃ tiryaṅbhānyā pṛthagbhūtayā yatkriyate chinnayā pārśvamānyā pṛthagbhūtayā yatkriyate akṣṇayārajjuḥ tadubhayakṣetrakaraṇīti nyāyato 'vagatā / tatrākṣṇayārajjuphalabhūtāccatuṣpuruṣāccaturaśrādekapramāṇaṃ tiryaṅbhānīphale tvekasminnapanīte trayaḥ puruṣāḥ pariśeṣyāt sā tripuruṣakaraṇītyavagantavyā / ata idamuktaṃ tiryaṅbhānī puruṣaṃ karoti śeṣaḥ chinnā pārśvamānī / trīn puruṣān iti pulliṅganirdeśaḥ puruṣabhiprāyaḥ / puruṣanirdeśaśvāgnau puruṣeṇa vimānaṃ puruṣābhyāsāpacayau samāsanirhārayoḥ udāharaṇamiti / ayamarthaḥ--sarvato dvipramāṇāccatuṣpuruṣāccaturaśrādekaṃ puruṣamapanīya tripuruṣaṃ samacaturaśraṃ kartumicchan taccaturaśraṃ puruṣapramāṇayā rajjvā madhye paricchidya dvidhā kṛtvā tadarghasyaikāṃ pārśvamānīmaparāṃ pārśvamānīṃ pratyakṣṇayopagamayitvā tayoryatra saṃpātaḥ tatrāvasthitāṃ pārśvamānīṃ chicvāvaśiṣṭaṃ nirasya śiṣṭayā pārśvamānyā samacaturaśre kṛte taccaturaśraṃ tripuruṣacaturaśraṃ bhavati / tathā sarvataśvatuṣpuruṣāccaturaśrāccaturaḥ puruṣānapanīya dvādaśapuruṣaṃ samacaturaśraṃ kartumicchaddvipuruṣapramāṇayā tiryaṅbhānyā samacaturaśraṃ vibhajyārdhasyaikāṃ pārśvamānīmanyāṃ prati gamayitvā tayoḥsannipāte 'vasthitāṃ pārśvamānīmavacchidya chedaṃ nirasya śiṣṭayā pārśvamānyā caturaśre kṛte tat kṣetraṃ dvādaśapuruṣasamacaturaśraṃ bhavati / chinnaśiṣṭā pārśvamānī tatkaraṇī bhavatītyarthaḥ / evaṃ pramāṇakṣetre tṛtīyadvikaraṇīmapanīya tṛtīyakaraṇī bhavati / evameva sarvatra catuṣkaraṇīcaturthakaraṇīprabhṛtayaḥ karaṇyo 'vagantavyāḥ / taduktaṃ "dīrghasyākṣmayārajjurityanena / asyopayogo droṇādiṣu, sundararājīyā vyākhyā tadevodāharati--- upasaṃhṛtā taduktam yā akṣṇayopasaṃhṛtā-ekībhūtā rajjuḥsā catuṣkaraṇī dvipuruṣāpacchinnā pārśvamānī apacchinnā pañcatilonāṣṭaśatadvayāṅgulā / itarā--puruṣamātrī tiryaṅbhānī ca yatpṛthagbhūte kurutastadubhayaṃ karati karṇarajjutvāt / tatra tiryaṅbhānī spaṣṭameva hi puruṣamātraṃ karoti / pāriśeṣyātpārśvamānī trīn puruṣān karotīti jñātuṃ śakyate / taduktaṃ "dīrghasyākṣṇayārajjuḥ' ityādinā / kapardibhāṣyam dīrghacaturaśraṃ samacaturaśraṃ cikīrṣan tiryaṅmānyāpacchidya śeṣaṃ vibhajyobhayata upadadhyāt dīrghacaturaśraṃ samacaturaśraṃ kartumicchan tiryaṅbhanyā tiryaṅbhānīpramāṇenāpacchidya śeṣaṃ vibhajya--dvidhā kṛtvā tadubhayataḥ agrataḥ pārśvataśropadadhyāt--nikṣipet / khaṇḍam āgantunā saṃpurayet khaṇḍamāgantunātiriktena pūrayet / pūrayitvā tadatiriktaṃ tyacet / tasya nirhāra uktaḥ
Sanskrit only: no published translation is held for this verse.