त्रयोदश भागाः करणी चतुरश्रस्य अनित्या चतुरश्रं करोति । अनयोरनित्यत्वं विज्ञायते गणितविरोधात्परस्परविरोधाच्च । तथाहि--सप्तविधस्य सारत्निप्रादेशस्य रथचक्रचितावग्नेः क्षेत्रं लक्षमष्टौ च सहस्राण्यङ्गुलयः, तस्य चतुरश्रीकृतस्य करणी त्रीणि शतान्यष्टाविंशतिश्र्वाङ्गुलयोर्ऽधद्वाविंशाश्र्व तिलाः । तस्मिन्नुक्तेन मर्गेण मण्डले कृते त्रीणि शतानि चतुःसप्ततिश्र्वाङ्गुलयो विष्कम्भो भवति । तस्य परिणाहःसहस्रं पञ्चसप्ततिशताङ्गुलयः । यथाऽहुः- चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् । अयुतद्वयविष्कम्भक्यासन्नो वृत्तपरिणाहः ॥ इति । अस्य मण्डलस्य फलं लक्षं नवसहस्रमष्टौ शतानि षष्टिश्वाङ्गुलयो टृश्यन्ते उक्तं च - समपरिणाहस्यार्धं विष्कम्भार्धहतमेव वृत्तफलम् । इति । एवमग्निक्षेत्रे रथचक्रचिदादौ मण्डले कृते षष्ट्यधिकानि अष्टशतानि सहस्रं चाङ्गुलयो ऽतिरिच्यन्ते । तथा च परस्परविरोधः । अर्धद्वाविंशतितिलसहिताष्टाविंशतिशतत्रयाङ्गुलकरणीकस्याग्नेर्मण्डलीकृतस्य विष्कम्भः चतुःसप्ततिशतत्रयाङ्गुल उक्तः । तस्यैव मण्डलस्योक्तेन मार्गेण चतुरश्रीकरणे त्रीणि भवतीति पूर्वोक्तायाः करण्याःसाष्टादशतिलाश्चतस्रो ऽङ्गुलयो हीयन्ते । तस्मात्सूक्ष्ममिच्छता चतुरश्रस्य मण्डलकरणे सूत्रोक्तादतिशयतृतीयभागसहिताद्विष्कम्भार्धादष्टादशशतांशस्त्याज्यः । एवं कृते रथचक्रचितौ बिष्कम्भः षट्रतिलोनैकसप्ततिशतत्रयाङ्गुलो भवति । परिणाहश् च पञ्चषष्टिशतसहस्राङ्गुलयः । तस्य मण्डलस्य समपरिणाहस्येत्यादिना पूर्वोक्तेन आनीतं फलं लक्षमष्टौ सहस्राणि भवन्ति । मण्डलस्यापि चतुरश्रकरणे सूत्रोक्ते विष्कम्भे स्वस्मात् त्रिगुणात् त्रयस्त्रिंशच्छतांशं युञ्ज्यात् । तत्र श्लोकाः- चतुरश्रमण्डलकृतौ त्यक्तव्यो ऽष्टादशशताशः । सूत्रोक्ताद्व्यासार्धाद्व्यासार्धं मण्डलस्यैतत् ॥१ ॥ चतुरश्रव्यासे वा त्रिंशशतांशं समाभ्यस्य । पुनरष्टमं च युञ्ज्याद्विष्कम्भो मण्डलस्यैषः ॥२ ॥ मण्डलचतुरश्रकृतौ विष्कम्भे सूत्रचोदिते युञ्ज्यात् । त्रिगुणात्स्वकात्र्रयस्त्रिंशत्सातिशयान्मण्डलस्यैतत् ॥३ ॥ मण्डलविष्कम्भाद्द्वात्रिंशशतांशकं परित्यज्य । शिष्टान्नवमं जह्याच्चतुरश्रस्यैष विष्कम्भः ॥४ ॥ एवं कृते हि वह्नावेकशतविधे ऽपि वृत्तविष्कम्भे । स तिलद्वितयविशेषो न च भवति परस्परधिरोधः ॥५ ॥ कपर्दिभाष्यम् प्रमाणेन प्रमाणं विधीयते
trayodaśa bhāgāḥ karaṇī caturaśrasya anityā caturaśraṃ karoti / anayoranityatvaṃ vijñāyate gaṇitavirodhātparasparavirodhācca / tathāhi--saptavidhasya sāratniprādeśasya rathacakracitāvagneḥ kṣetraṃ lakṣamaṣṭau ca sahasrāṇyaṅgulayaḥ, tasya caturaśrīkṛtasya karaṇī trīṇi śatānyaṣṭāviṃśatiśrvāṅgulayor'dhadvāviṃśāśrva tilāḥ / tasminnuktena margeṇa maṇḍale kṛte trīṇi śatāni catuḥsaptatiśrvāṅgulayo viṣkambho bhavati / tasya pariṇāhaḥsahasraṃ pañcasaptatiśatāṅgulayaḥ / yathā'huḥ- caturadhikaṃ śatamaṣṭaguṇaṃ dvāṣaṣṭistathā sahasrāṇām / ayutadvayaviṣkambhakyāsanno vṛttapariṇāhaḥ // iti / asya maṇḍalasya phalaṃ lakṣaṃ navasahasramaṣṭau śatāni ṣaṣṭiśvāṅgulayo ṭṛśyante uktaṃ ca - samapariṇāhasyārdhaṃ viṣkambhārdhahatameva vṛttaphalam / iti / evamagnikṣetre rathacakracidādau maṇḍale kṛte ṣaṣṭyadhikāni aṣṭaśatāni sahasraṃ cāṅgulayo 'tiricyante / tathā ca parasparavirodhaḥ / ardhadvāviṃśatitilasahitāṣṭāviṃśatiśatatrayāṅgulakaraṇīkasyāgnermaṇḍalīkṛtasya viṣkambhaḥ catuḥsaptatiśatatrayāṅgula uktaḥ / tasyaiva maṇḍalasyoktena mārgeṇa caturaśrīkaraṇe trīṇi bhavatīti pūrvoktāyāḥ karaṇyāḥsāṣṭādaśatilāścatasro 'ṅgulayo hīyante / tasmātsūkṣmamicchatā caturaśrasya maṇḍalakaraṇe sūtroktādatiśayatṛtīyabhāgasahitādviṣkambhārdhādaṣṭādaśaśatāṃśastyājyaḥ / evaṃ kṛte rathacakracitau biṣkambhaḥ ṣaṭratilonaikasaptatiśatatrayāṅgulo bhavati / pariṇāhaś ca pañcaṣaṣṭiśatasahasrāṅgulayaḥ / tasya maṇḍalasya samapariṇāhasyetyādinā pūrvoktena ānītaṃ phalaṃ lakṣamaṣṭau sahasrāṇi bhavanti / maṇḍalasyāpi caturaśrakaraṇe sūtrokte viṣkambhe svasmāt triguṇāt trayastriṃśacchatāṃśaṃ yuñjyāt / tatra ślokāḥ- caturaśramaṇḍalakṛtau tyaktavyo 'ṣṭādaśaśatāśaḥ / sūtroktādvyāsārdhādvyāsārdhaṃ maṇḍalasyaitat //1 // caturaśravyāse vā triṃśaśatāṃśaṃ samābhyasya / punaraṣṭamaṃ ca yuñjyādviṣkambho maṇḍalasyaiṣaḥ //2 // maṇḍalacaturaśrakṛtau viṣkambhe sūtracodite yuñjyāt / triguṇātsvakātrrayastriṃśatsātiśayānmaṇḍalasyaitat //3 // maṇḍalaviṣkambhāddvātriṃśaśatāṃśakaṃ parityajya / śiṣṭānnavamaṃ jahyāccaturaśrasyaiṣa viṣkambhaḥ //4 // evaṃ kṛte hi vahnāvekaśatavidhe 'pi vṛttaviṣkambhe / sa tiladvitayaviśeṣo na ca bhavati parasparadhirodhaḥ //5 // kapardibhāṣyam pramāṇena pramāṇaṃ vidhīyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.