बाह्वोरन्तरालं पिशीलमिति केचित् । मुष्टिकृतो ऽरत्निः पिशीलमित्यन्यो । प्रादेशः पिशीलमित्यपरे । चतुरश्रा धिष्ण्या इत्येकेषां श्रुतिः । परिमण्डला इत्येकेषाम् । मृदो देहान् कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थाने ऽश्मानम् उपपध्यात्
bāhvorantarālaṃ piśīlamiti kecit / muṣṭikṛto 'ratniḥ piśīlamityanyo / prādeśaḥ piśīlamityapare / caturaśrā dhiṣṇyā ityekeṣāṃ śrutiḥ / parimaṇḍalā ityekeṣām / mṛdo dehān kṛtvāgnīdhrīyaṃ navadhā vyavalikhya, ekasyāḥ sthāne 'śmānam upapadhyāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.