Library·Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja·8

Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja 8

मार्जालीयस्य प्रादेशायामा अष्टाङ्गुलिर् व्यासाः अष्टकानां प्रादेशायामाःषडङ्गुलव्यासाः) । ब्राह्नणाच्छंसीयस्य द्वे सरणे अष्टाङ्गुलायामं साष्टादशतिलषडङ्गुलव्यासमेकं करणम् । तेन तिस्र इष्टकाःषडङ्गुलव्यासा भवन्ति । नवतिलोननवाङ्गुलायाममपरम् । तेन अष्टाविष्टकाः । अन्येषु पिशीलमात्रेष्वेतदनुसारेणेष्टका द्रष्टव्याः ॥ अथ परिमण्डलानां षट्त्रिंशदङ्गुलविष्कम्बानां आग्नीध्रीयस्य मध्ये प्रादेशव्यासं परिमण्डलमश्मानं निधाय परितो ऽष्टाविष्टकास्तासां करणं, पार्श्वे द्वादशाङ्गुले, चतुर्दशाङ्गुलमष्टतिलोनमेकं तिर्यक्फलकं, तद्धनुरिव तक्षेत्, यथा अङ्गुलिः द्वादशतिलाश् च शरो भवति । सविंशतितिलं चतुरङ्गुलमन्यत्तिर्यक्फलकं, तच्च धनुरिव तक्षेत्, अन्तर्वक्रं तु भवति यथा पञ्चदशतिलाःशरः । एवमिष्टका अन्येषां धिष्णियानां त्रीणि करणानि । सर्वेषां च द्वेट्वे फलके अष्टादशाङ्गुले । होत्रीयस्य द्वादशकस्य तृतीयं फलके नवाङ्गुलं सैकादशतिलं, तद्धनुरिव तक्षेत्, यथैक विंशतितिलाःशरः एवं षोडशकादीनां च द्रष्टव्यम् । ब्राह्नणाच्छंसीयस्य तृतीयं फलकं दशाङ्गुलं सपञ्चदशतिलं, तद्धनुरिवतक्षेत, पञ्चविंशतितिलाःशारः, सप्ततिलमिति व्कचित् । मार्जा लीयस्य तृतीयमप्यष्टादशाङ्गुलं, तदर्धधनुरिव तक्षेत्, व्द्यङ्गुलं चतुर्दशतिलाःशरः । अष्टकानां तृतीयफलकं चतुर्दशाङ्गुलमष्टतिलोनं, तद्धनुरिव तक्षेत्, अङ्गुलिर्द्वादशतिलाश् च शरः । अन्येषां च पिशीलानामेतदनुसारेण द्रष्टव्यम् ॥ ॥ इति सप्तमः खण्डः ॥ इति सुन्दहहाजीये आपस्तम्बशुल्बसूत्रव्याख्याने शुल्बप्रदीपे द्वितीयः पटलः। --- । कपर्दिक्षाष्यम् उक्तानि हविर्यज्ञानां विहरणनि । सौमिकानि च साग्निचित्यस्य क्रतोरग्निक्षेत्रमानमिष्टकानां करणानि उपधानवि धिश् च नोक्तः । तद्वक्तुकामः प्रस्तौति- भवतीव खलु वा एष यो ऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा

mārjālīyasya prādeśāyāmā aṣṭāṅgulir vyāsāḥ aṣṭakānāṃ prādeśāyāmāḥṣaḍaṅgulavyāsāḥ) / brāhnaṇācchaṃsīyasya dve saraṇe aṣṭāṅgulāyāmaṃ sāṣṭādaśatilaṣaḍaṅgulavyāsamekaṃ karaṇam / tena tisra iṣṭakāḥṣaḍaṅgulavyāsā bhavanti / navatilonanavāṅgulāyāmamaparam / tena aṣṭāviṣṭakāḥ / anyeṣu piśīlamātreṣvetadanusāreṇeṣṭakā draṣṭavyāḥ // atha parimaṇḍalānāṃ ṣaṭtriṃśadaṅgulaviṣkambānāṃ āgnīdhrīyasya madhye prādeśavyāsaṃ parimaṇḍalamaśmānaṃ nidhāya parito 'ṣṭāviṣṭakāstāsāṃ karaṇaṃ, pārśve dvādaśāṅgule, caturdaśāṅgulamaṣṭatilonamekaṃ tiryakphalakaṃ, taddhanuriva takṣet, yathā aṅguliḥ dvādaśatilāś ca śaro bhavati / saviṃśatitilaṃ caturaṅgulamanyattiryakphalakaṃ, tacca dhanuriva takṣet, antarvakraṃ tu bhavati yathā pañcadaśatilāḥśaraḥ / evamiṣṭakā anyeṣāṃ dhiṣṇiyānāṃ trīṇi karaṇāni / sarveṣāṃ ca dveṭve phalake aṣṭādaśāṅgule / hotrīyasya dvādaśakasya tṛtīyaṃ phalake navāṅgulaṃ saikādaśatilaṃ, taddhanuriva takṣet, yathaika viṃśatitilāḥśaraḥ evaṃ ṣoḍaśakādīnāṃ ca draṣṭavyam / brāhnaṇācchaṃsīyasya tṛtīyaṃ phalakaṃ daśāṅgulaṃ sapañcadaśatilaṃ, taddhanurivatakṣeta, pañcaviṃśatitilāḥśāraḥ, saptatilamiti vkacit / mārjā līyasya tṛtīyamapyaṣṭādaśāṅgulaṃ, tadardhadhanuriva takṣet, vdyaṅgulaṃ caturdaśatilāḥśaraḥ / aṣṭakānāṃ tṛtīyaphalakaṃ caturdaśāṅgulamaṣṭatilonaṃ, taddhanuriva takṣet, aṅgulirdvādaśatilāś ca śaraḥ / anyeṣāṃ ca piśīlānāmetadanusāreṇa draṣṭavyam // // it.i saptamaḥ khaṇḍaḥ // iti sundahahājīye āpastambaśulbasūtravyākhyāne śulbapradīpe dvitīyaḥ paṭalaḥ. --- / kapardikṣāṣyam uktāni haviryajñānāṃ viharaṇani / saumikāni ca sāgnicityasya kratoragnikṣetramānamiṣṭakānāṃ karaṇāni upadhānavi dhiś ca noktaḥ / tadvaktukāmaḥ prastauti- bhavatīva khalu vā eṣa yo 'gniṃ cinute iti vijñāyate | vayasāṃ vā eṣa pratimayā cīyata ityākṛticodanāt | pratyakṣavidhānādvā

Sanskrit only: no published translation is held for this verse.

यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषान् अवमिमोते विधिविभक्तेरभावात् । नित्यो ऽग्निरुत्तरवेदिवत् । "अग्निष्टोम उत्तरवेदिरुत्तरेषु क्रतुष्वग्निःऽ इति नित्यवचनात् । यदि प्रस्तावो ऽनया श्रुत्या स्वीक्रियते गार्हपत्यचितेः पूर्वमेव प्रस्तावो न कर्तव्यः । सत्यमेतत् । इह प्रस्ताववचनस्येदं प्रयोजनम्- वक्ष्यमाणानि धमार्णि महाग्नेरेव यथा स्युरिति । कानि पुनस्तानि? जानुदघ्राजो महाग्नेवेति कात्यायनीये शुल्बे महाग्ननेरेवैते धर्मा इति स्पष्टमुक्तम् । किं चाश्चेहाग्निशब्देन निरुपपदेन चोदिता धर्मा यथा स्युरिति । यथा--"तं वा एतं यजमान एव चिन्वीतऽ इति यजमानो महाग्नेरेव कर्ता न गार्हपत्यादेः । गार्हपत्यधिष्णयानामध्वर्युरेव कर्ता । पश्चाद्विधातव्यानां धिष्णियानां पूर्वं विधानस्यैतत्प्रयोजनम् । यो ऽग्नेश्वेता स भवत्येव । यद्यपि बहवो भ्रातृव्या इति क्रियते ऽनया श्रुत्या । वयसां--पक्षिणां एषो ऽग्निः प्रतिमया प्रकृत्या चेतव्य इति आकृतेःस्वरूपस्य विधानं क्रियते । स चोत्पततां छाययेत्यर्थ इति बोधायनेनोक्तम् । वैशब्दो निश्वये । असावप्याचार्यो वक्ष्यति "वक्रपुच्छो व्यस्तपक्षऽ इति । तस्माच्छ्येनचिदेव प्रथमः । शुल्बान्तरे चोक्तं "श्येनचिदग्नीनां प्रथमो ऽग्निःऽ इति । यदि श्येनो नित्यः कथं स्वर्गकाम इति ? यूपद्रव्यवत् । यथा खादिरं स्वर्गकामस्येति खादिरस्य नित्यत्वं काम्यत्वं च । प्रत्यक्षविधानाद्यावदाम्रायेन । वाशब्दः पक्षव्यावृत्तौ । तेन नैषापृतिचोदनापि श्येनः प्रकृतिः । कुतः? प्रत्यक्षविधानात् । प्रत्यक्षमेवात्र विधीयते । पक्षीभवतीत्यारभ्य पक्षपुच्छानामपि प्रमाणं विहितम् । तेन विरोधात् । नन्क्तमाकृतिचोदनेति, नैषा चोदना; नापि विधिः; विधिविभक्तेरभावात् । चीयत इति निर्दिश्यते; न चिनुयाच्चेतव्यमिति वा । विध्यन्तरशेषभूतत्वाच्च पश्यामो न विधायिकेति । "ब्रह्नवादिनो वदन्ति न्यङ्ङग्निश्वेतव्या ३ उत्ताना ३ इत्यारभ्य प्राचीनमुत्तानं पुरूषशीर्षमुपदधातिऽ इति पुरुषशिरसः उपधानं विधीयते । तस्य शेषभूतमिदं न विधायकम् । श्येनचिदग्नीनां प्रथम इति पिठकश्येनमधिकृत्यैतदुक्तं पुरुषमात्रपक्षपुच्छस्य समाख्या श्येन इति । तस्मादविरोधः । यावदाम्नानं तावदेव सारूप्यं । पक्षपुच्छवत्तथा सारूप्यं गृहीत्वा वयःशब्दो वर्तते । तस्मात्पुरुषमात्रपक्षपुच्छवानग्निरिति तामेव प्रकृतिं निश्वित्य अन्ये आकृतिविशेषा वक्रपक्षादयः काम्या इति सिद्धम् । वक्ष्यति "काम्या गुणविकाराऽ इति । वेणुना चतुरश्र आत्मनि पुरुषानवमिमीते--अग्निकल्पे उक्तलक्षणेन वेणुना मिमीते--मिनोति स्थण्डुलार्धं क्षेत्रं वक्ष्यमाणेन मागैण सर्वतो द्विपुरुष आत्मा द्वाभ्यां चत्वारीति वचनाच्चतवारि च पुरुषक्षेत्राण्यात्मनि--- पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषम् उत्तरे पुरुषमेकं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे--विवं त्रीणि चतुरश्राणि पुरुषप्रमाणानि, आत्मना सह सप्त पुरुषक्षेत्राणि ॥ अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवम् उत्तरत उत्तरम् अरत्निप्रमाणेन दक्षिणतः दक्षिणं वक्षं वर्धयति--दीर्घङ्करोति । उत्तरतश्चोत्तरं पक्षम् ॥ प्रादेशेन वितस्त्या वा पश्चात्पुच्छम्

yāvadāmnānena veṇunā caturaśre ātmani puruṣān avamimote vidhivibhakterabhāvāt / nityo 'gniruttaravedivat / "agniṣṭoma uttaravediruttareṣu kratuṣvagniḥ' iti nityavacanāt / yadi prastāvo 'nayā śrutyā svīkriyate gārhapatyaciteḥ pūrvameva prastāvo na kartavyaḥ / satyametat / iha prastāvavacanasyedaṃ prayojanam- vakṣyamāṇāni dhamārṇi mahāgnereva yathā syuriti / kāni punastāni? jānudaghrājo mahāgneveti kātyāyanīye śulbe mahāgnanerevaite dharmā iti spaṣṭamuktam / kiṃ cāścehāgniśabdena nirupapadena coditā dharmā yathā syuriti / yathā--"taṃ vā etaṃ yajamāna eva cinvīta' iti yajamāno mahāgnereva kartā na gārhapatyādeḥ / gārhapatyadhiṣṇayānāmadhvaryureva kartā / paścādvidhātavyānāṃ dhiṣṇiyānāṃ pūrvaṃ vidhānasyaitatprayojanam / yo 'gneśvetā sa bhavatyeva / yadyapi bahavo bhrātṛvyā iti kriyate 'nayā śrutyā / vayasāṃ--pakṣiṇāṃ eṣo 'gniḥ pratimayā prakṛtyā cetavya iti ākṛteḥsvarūpasya vidhānaṃ kriyate / sa cotpatatāṃ chāyayetyartha iti bodhāyanenoktam / vaiśabdo niśvaye / asāvapyācāryo vakṣyati "vakrapuccho vyastapakṣa' iti / tasmācchyenacideva prathamaḥ / śulbāntare coktaṃ "śyenacidagnīnāṃ prathamo 'gniḥ' iti / yadi śyeno nityaḥ kathaṃ svargakāma iti ? yūpadravyavat / yathā khādiraṃ svargakāmasyeti khādirasya nityatvaṃ kāmyatvaṃ ca / pratyakṣavidhānādyāvadāmrāyena / vāśabdaḥ pakṣavyāvṛttau / tena naiṣāpṛticodanāpi śyenaḥ prakṛtiḥ / kutaḥ? pratyakṣavidhānāt / pratyakṣamevātra vidhīyate / pakṣībhavatītyārabhya pakṣapucchānāmapi pramāṇaṃ vihitam / tena virodhāt / nanktamākṛticodaneti, naiṣā codanā; nāpi vidhiḥ; vidhivibhakterabhāvāt / cīyata iti nirdiśyate; na cinuyāccetavyamiti vā / vidhyantaraśeṣabhūtatvācca paśyāmo na vidhāyiketi / "brahnavādino vadanti nyaṅṅagniśvetavyā 3 uttānā 3 ityārabhya prācīnamuttānaṃ purūṣaśīrṣamupadadhāti' iti puruṣaśirasaḥ upadhānaṃ vidhīyate / tasya śeṣabhūtamidaṃ na vidhāyakam / śyenacidagnīnāṃ prathama iti piṭhakaśyenamadhikṛtyaitaduktaṃ puruṣamātrapakṣapucchasya samākhyā śyena iti / tasmādavirodhaḥ / yāvadāmnānaṃ tāvadeva sārūpyaṃ / pakṣapucchavattathā sārūpyaṃ gṛhītvā vayaḥśabdo vartate / tasmātpuruṣamātrapakṣapucchavānagniriti tāmeva prakṛtiṃ niśvitya anye ākṛtiviśeṣā vakrapakṣādayaḥ kāmyā iti siddham / vakṣyati "kāmyā guṇavikārā' iti / veṇunā caturaśra ātmani puruṣānavamimīte--agnikalpe uktalakṣaṇena veṇunā mimīte--minoti sthaṇḍulārdhaṃ kṣetraṃ vakṣyamāṇena māgaiṇa sarvato dvipuruṣa ātmā dvābhyāṃ catvārīti vacanāccatavāri ca puruṣakṣetrāṇyātmani--- puruṣaṃ dakṣiṇe pakṣe puruṣaṃ pucche puruṣam uttare puruṣamekaṃ dakṣiṇe pakṣe puruṣaṃ pucche puruṣamuttare--vivaṃ trīṇi caturaśrāṇi puruṣapramāṇāni, ātmanā saha sapta puruṣakṣetrāṇi // aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ vardhayati | evam uttarata uttaram aratnipramāṇena dakṣiṇataḥ dakṣiṇaṃ vakṣaṃ vardhayati--dīrghaṅkaroti / uttarataścottaraṃ pakṣam // prādeśena vitastyā vā paścātpuccham

Sanskrit only: no published translation is held for this verse.

इति । केचित्तु वितस्तिं त्रयोदशांङ्गुलां मन्वाना द्वादशाङ्गुलेन प्रादेशेन विकल्पयन्तः पक्षपुच्छानामरत्नन्यादिप्रवृद्धिं नित्यामाहुः । तेषामष्टविधप्रभृतीनां यदन्यत्सप्तधा विभज्य विधासप्तमकरणीमित्यादि न संगच्छते । तत्त्योदशाङ्गुलवितस्त्यभ्युपगमे पुच्छे विंशतिशताङ्गुलमात्रं क्षेत्रमुपधातुं न शक्यते । तत्र कश्विदाह - पुरीषेण पूर्यतामिति, तत्सूत्रकारो न सहते । यदाह "अर्धान्तरत्वात् पुरीषस्यऽ इति "यत्पच्यमानानां प्रतिह्रसेतऽ इति च । किञ्च पुरीषेण चेत्सर्वस्य न्यूनस्य पूर्तिः; किमिति महता ग्रन्थेन इष्टकाप्रमाणार्धमधुना प्रयत्यते । तस्मान्न किञ्चि देतत्र्रयोदशाङ्गुला वितस्तिरिति । अन्ये मन्यन्ते - द्वादशाङ्गुल योरेव वितस्तिप्रादेशयोः आमिक्षापयस्ययोरिव बिधिभेदाच्छब्दभेदः । तयोश् च परस्परं विकल्प इति । तेषामपि पूर्वोक्तासंगतिः स्पष्टैव । ब्राह्नणविरोधश् च । तैत्तिरीयके हि पुच्छस्य प्रवृद्धिः पाक्षिकत्वेनापि नोक्ता । तस्मादरत्ननिप्रादेशानां पाक्षिकत्वमेव ज्यायो मन्यामहे । किञ्च यदेवेष्टकानामष्टाङ्गुलानां पञ्चमं करणं तदप्यस्मिन्नर्धे लिङ्गं कथम्? तत्र हि प्रथमतृतीयकरणाभ्यामेव उपधाने शक्ये अन्यानि त्रीणि करणानि भेदपरिहारार्थानि । तत्र पञ्चमेन विनाप्युपधानं सुकरम् । सरत्न्यादिप्रवृद्धौ नित्यायां तत्प्रकारश् च दर्शितो भगवता बोधायनेन - "उरधाने पूर्वापरयोः पक्षपार्श्वयोःऽ । इत्यादि । अन्यश् च प्रकारः - आत्मनि पुरस्तात् दशार्धेष्टकाः । उदगायताः पञ्चदश । पक्षाग्रर्योर्मध्ये तिस्रस्तिस्रः प्राच्यः । पुच्छापार्श्वयोः पञ्चपञ्च । पुच्छाग्रकोणयोर्द्वे प्रादेशमात्र्यौ । ताभ्यामध्यर्धे ऽष्टके उदीच्यौ । पक्षाग्रकोणेष्वेकैका अध्यर्धा उदगायता । अप्ययोश् च पञ्चपञ्च यथासूत्रं । पुच्छाग्रमध्ये द्वे प्राच्यौ । शेषे पञ्चम्यः । एष द्विशतः प्रस्तारः । अपरस्मिंस्तु पक्षपार्श्वयोःषट्षडर्धेष्टका उदीच्यः । आत्मनि दक्षिणत उत्तरतश् च षट् षट् प्राच्यः । श्रोण्यंसेषु द्वेद्वे अध्यर्धे उदीच्यौ । पुच्छाप्यये पञ्च प्रागायताः आत्मानमरत्ननिनोपेताः । शेषे पञ्चम्यः । पुच्छाग्रेषु मध्यमामुद्धृत्य द्वे अर्धे ऽष्टके उदीच्यौ । एष द्विशतः प्रस्तारः । एवं चतुर्भिः करणैरुपधाने सिद्धे यत्पञ्चमं करणं तदरत्ननिप्रादेशाभावे ऽपि भेदपरिहारेण द्विशतपूरणार्थम् । निरूपणीयं चैतत्सर्वं सूरिभिरित्युपरम्यते ॥ कपर्दिक्षाष्यम् एकविधः प्रथमो ऽग्निर् द्विविधो द्वितीयस् त्रिविधस् तृतीयः त एवम् एवोद्यन्त्यैकशतविधात्

iti / kecittu vitastiṃ trayodaśāṃṅgulāṃ manvānā dvādaśāṅgulena prādeśena vikalpayantaḥ pakṣapucchānāmaratnanyādipravṛddhiṃ nityāmāhuḥ / teṣāmaṣṭavidhaprabhṛtīnāṃ yadanyatsaptadhā vibhajya vidhāsaptamakaraṇīmityādi na saṃgacchate / tattyodaśāṅgulavitastyabhyupagame pucche viṃśatiśatāṅgulamātraṃ kṣetramupadhātuṃ na śakyate / tatra kaśvidāha - purīṣeṇa pūryatāmiti, tatsūtrakāro na sahate / yadāha "ardhāntaratvāt purīṣasya' iti "yatpacyamānānāṃ pratihraseta' iti ca / kiñca purīṣeṇa cetsarvasya nyūnasya pūrtiḥ; kimiti mahatā granthena iṣṭakāpramāṇārdhamadhunā prayatyate / tasmānna kiñci detatrrayodaśāṅgulā vitastiriti / anye manyante - dvādaśāṅgula yoreva vitastiprādeśayoḥ āmikṣāpayasyayoriva bidhibhedācchabdabhedaḥ / tayoś ca parasparaṃ vikalpa iti / teṣāmapi pūrvoktāsaṃgatiḥ spaṣṭaiva / brāhnaṇavirodhaś ca / taittirīyake hi pucchasya pravṛddhiḥ pākṣikatvenāpi noktā / tasmādaratnaniprādeśānāṃ pākṣikatvameva jyāyo manyāmahe / kiñca yadeveṣṭakānāmaṣṭāṅgulānāṃ pañcamaṃ karaṇaṃ tadapyasminnardhe liṅgaṃ katham? tatra hi prathamatṛtīyakaraṇābhyāmeva upadhāne śakye anyāni trīṇi karaṇāni bhedaparihārārthāni / tatra pañcamena vināpyupadhānaṃ sukaram / saratnyādipravṛddhau nityāyāṃ tatprakāraś ca darśito bhagavatā bodhāyanena - "uradhāne pūrvāparayoḥ pakṣapārśvayoḥ' / ityādi / anyaś ca prakāraḥ - ātmani purastāt daśārdheṣṭakāḥ / udagāyatāḥ pañcadaśa / pakṣāgraryormadhye tisrastisraḥ prācyaḥ / pucchāpārśvayoḥ pañcapañca / pucchāgrakoṇayordve prādeśamātryau / tābhyāmadhyardhe 'ṣṭake udīcyau / pakṣāgrakoṇeṣvekaikā adhyardhā udagāyatā / apyayoś ca pañcapañca yathāsūtraṃ / pucchāgramadhye dve prācyau / śeṣe pañcamyaḥ / eṣa dviśataḥ prastāraḥ / aparasmiṃstu pakṣapārśvayoḥṣaṭṣaḍardheṣṭakā udīcyaḥ / ātmani dakṣiṇata uttarataś ca ṣaṭ ṣaṭ prācyaḥ / śroṇyaṃseṣu dvedve adhyardhe udīcyau / pucchāpyaye pañca prāgāyatāḥ ātmānamaratnaninopetāḥ / śeṣe pañcamyaḥ / pucchāgreṣu madhyamāmuddhṛtya dve ardhe 'ṣṭake udīcyau / eṣa dviśataḥ prastāraḥ / evaṃ caturbhiḥ karaṇairupadhāne siddhe yatpañcamaṃ karaṇaṃ tadaratnaniprādeśābhāve 'pi bhedaparihāreṇa dviśatapūraṇārtham / nirūpaṇīyaṃ caitatsarvaṃ sūribhirityuparamyate // kapardikṣāṣyam ekavidhaḥ prathamo 'gnir dvividho dvitīyas trividhas tṛtīyaḥ ta evam evodyantyaikaśatavidhāt

Sanskrit only: no published translation is held for this verse.

एकः पुरुषो यस्मिन्निति एकविधः, एकपुरुषादेकोत्तरं चिन्वीतेति प्रथमातिक्रमे कारणाभावादिति प्रथम एकपुरुषविधा इष्टका अस्मिन्विधीयन्ते इति अग्निक्षेत्रम् । "आतश्वोपसर्गेऽ इर्यङ् । एका चासौ विधा लोचनीयम् । उद्यन्ति गच्छन्ति आ एकशत विधात् । अभिविधावाङ् । तद् उ ह वै सप्तविधम् एव चिन्वीत । सप्तविधो वाव प्राकृतो ऽग्निः । तत ऊर्ध्वम् एकोत्तरान् इति विज्ञायते

ekaḥ puruṣo yasminniti ekavidhaḥ, ekapuruṣādekottaraṃ cinvīteti prathamātikrame kāraṇābhāvāditi prathama ekapuruṣavidhā iṣṭakā asminvidhīyante iti agnikṣetram / "ātaśvopasarge' iryaṅ / ekā cāsau vidhā locanīyam / udyanti gacchanti ā ekaśata vidhāt / abhividhāvāṅ / tad u ha vai saptavidham eva cinvīta | saptavidho vāva prākṛto 'gniḥ | tata ūrdhvam ekottarān iti vijñāyate

Sanskrit only: no published translation is held for this verse.

सप्तविधस्य प्रकृतित्वमाशङ्क्य तेनैव प्रकृतित्वं प्रतिपादयितुमाह विधीयते मीयत इति विधा अग्ननिविमानं, पुरुषमात्रेण वेणुना पुरुषक्षेत्राणि एकैकशो ऽत्र मीयन्त इति विधाशब्दः पुरुषक्षेत्रवाची । एका विधा यस्याग्नेः स एकविधः । प्रथमातिक्रमे कारणाभावात् प्रथम एकविधःस एव प्रकृतिः, इतरे विकृतयः, ते चाग्नय एवमेकपुरुषवृद्ध्या उद्यन्ति अधिका भवन्ति - वर्धन्त इत्यर्थः । आ एकशतविधात् । आङ्गाभिविधौ । कथं विधाशब्दस्य विमा नपर्यायत्वं, उच्यते - विदधाति करोतीत्यर्थः । करणीव्यापारेषु विमानेषु करोतिः तत्रतत्रद् दश्यते । अतो विधाविमा नयोः पर्यायत्वम् । तस्मादेकविधः प्रथमः । स एकविधः प्रकृतिश् च । द्विविधादयस्तद्विकारा इति । तदुहवै सप्तविधमेव चिन्वीत - तदुहवा इति निपातसमुदायः पक्षव्यावृत्तौ । नैतदस्त्येकविधः प्रथम इति । किं? तस्मिन् सप्तविधमेव प्रथमं चिन्वीतेति । कुतः? सप्तविधो वाव प्राकृतो ऽग्निः । वाव इत्यवधारणे । "एष वाव सर्वतो राजाऽ इत्यादौ दर्शनात् । प्रकृतिरेव प्राकृतः स्वार्थे तद्धितः, तस्मात्सप्तविध एव प्रकृतिभूतो ऽग्निः । तस्मात्सप्तविध एव प्रथमं चेतव्यः, नैकविधः तस्मिन्नेव पक्षपुच्छाद्यङ्गानामुपदेशादित्यभिप्रायः । सप्तविध इत्यर्धाष्टम एवोच्यते । यावानग्निःसारत्निप्रादेशःसप्तविधःसंपद्यत इति वक्ष्यमाणत्वात् । तत ऊर्ध्वं ततःसप्तविधादूर्ध्वमेकोत्तरानेकेनाधिकानग्नींश्विन्वीतेति श्रुतिः । अग्निर्बलोक्तं वाजसनेयकमिति । तस्माद्द्वितीयाद्याहारेषु सप्तविधमेव चिन्वीतेत्येतदशमः इत्येवमेकोत्तरविधत्वं एकशतविधात् द्रष्टव्यम् । सुन्दरराजीया व्याख्या। एकविधःअविधात् विधीयत इति विधा - पुरुषमात्रं क्षेत्रम् । प्रथमाहारे एकविधः । एवं द्विविधादि । एकशततम आहारे एकशतपुरुषः । तदुहवै विज्ञायते पक्षान्तरमाह - प्रकृतिरेव प्राकृतः प्रज्ञाद्यण् । सप्तविधादूर्ध्वमेकोत्तरानेकशतविधात् । सर्वत्रारद्निप्रादेशानां न वृद्धिः, विधानामेव वृद्धिवचनात् । "एकविंशे पुरुषाभ्यासो नारत्ननिप्रादे शानाम्ऽ इति लिङ्गाच्च । व्यक्तोक्तमेतद्बोधायनेन - "अर्धाष्टमाः पुरुषाः प्रथमो ऽग्निः अर्धनवमा द्वितीयोर्ऽधदशमास्तृतीयःऽ इत्यादि । यस्त्वेकविधादिक्रमेणाहरते तस्य सप्तविधादिष्वप्यर त्निप्रादेशानामभावः, एकोत्तरत्वाविरोधात् सारत्निप्रादेशे सप्तविध आहृते उत्तरे ऽपि नारत्निप्रादेशाः । कपर्दिक्षाष्यम् वाजसनेयिकमिति अग्निविकल्पविधानात् विकल्पं सप्तार्धमपि द्वितीये विहारे चिन्वीतेत्येतदपि लभ्यते । एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच् छ्रुतिविप्रतिषेधाच् च

saptavidhasya prakṛtitvamāśaṅkya tenaiva prakṛtitvaṃ pratipādayitumāha vidhīyate mīyata iti vidhā agnanivimānaṃ, puruṣamātreṇa veṇunā puruṣakṣetrāṇi ekaikaśo 'tra mīyanta iti vidhāśabdaḥ puruṣakṣetravācī / ekā vidhā yasyāgneḥ sa ekavidhaḥ / prathamātikrame kāraṇābhāvāt prathama ekavidhaḥsa eva prakṛtiḥ, itare vikṛtayaḥ, te cāgnaya evamekapuruṣavṛddhyā udyanti adhikā bhavanti - vardhanta ityarthaḥ / ā ekaśatavidhāt / āṅgābhividhau / kathaṃ vidhāśabdasya vimā naparyāyatvaṃ, ucyate - vidadhāti karotītyarthaḥ / karaṇīvyāpāreṣu vimāneṣu karotiḥ tatratatrad daśyate / ato vidhāvimā nayoḥ paryāyatvam / tasmādekavidhaḥ prathamaḥ / sa ekavidhaḥ prakṛtiś ca / dvividhādayastadvikārā iti / taduhavai saptavidhameva cinvīta - taduhavā iti nipātasamudāyaḥ pakṣavyāvṛttau / naitadastyekavidhaḥ prathama iti / kiṃ? tasmin saptavidhameva prathamaṃ cinvīteti / kutaḥ? saptavidho vāva prākṛto 'gniḥ / vāva ityavadhāraṇe / "eṣa vāva sarvato rājā' ityādau darśanāt / prakṛtireva prākṛtaḥ svārthe taddhitaḥ, tasmātsaptavidha eva prakṛtibhūto 'gniḥ / tasmātsaptavidha eva prathamaṃ cetavyaḥ, naikavidhaḥ tasminneva pakṣapucchādyaṅgānāmupadeśādityabhiprāyaḥ / saptavidha ityardhāṣṭama evocyate / yāvānagniḥsāratniprādeśaḥsaptavidhaḥsaṃpadyata iti vakṣyamāṇatvāt / tata ūrdhvaṃ tataḥsaptavidhādūrdhvamekottarānekenādhikānagnīṃśvinvīteti śrutiḥ / agnirbaloktaṃ vājasaneyakamiti / tasmāddvitīyādyāhāreṣu saptavidhameva cinvītetyetadaśamaḥ ityevamekottaravidhatvaṃ ekaśatavidhāt draṣṭavyam / sundararājīyā vyākhyā. ekavidhaḥavidhāt vidhīyata iti vidhā - puruṣamātraṃ kṣetram / prathamāhāre ekavidhaḥ / evaṃ dvividhādi / ekaśatatama āhāre ekaśatapuruṣaḥ / taduhavai vijñāyate pakṣāntaramāha - prakṛtireva prākṛtaḥ prajñādyaṇ / saptavidhādūrdhvamekottarānekaśatavidhāt / sarvatrāradniprādeśānāṃ na vṛddhiḥ, vidhānāmeva vṛddhivacanāt / "ekaviṃśe puruṣābhyāso nāratnaniprāde śānām' iti liṅgācca / vyaktoktametadbodhāyanena - "ardhāṣṭamāḥ puruṣāḥ prathamo 'gniḥ ardhanavamā dvitīyor'dhadaśamāstṛtīyaḥ' ityādi / yastvekavidhādikrameṇāharate tasya saptavidhādiṣvapyara tniprādeśānāmabhāvaḥ, ekottaratvāvirodhāt sāratniprādeśe saptavidha āhṛte uttare 'pi nāratniprādeśāḥ / kapardikṣāṣyam vājasaneyikamiti agnivikalpavidhānāt vikalpaṃ saptārdhamapi dvitīye vihāre cinvītetyetadapi labhyate / ekavidhaprabhṛtīnāṃ na pakṣapucchāni bhavanti | saptavidhavākyaśeṣatvāc chrutivipratiṣedhāc ca

Sanskrit only: no published translation is held for this verse.

इतश् च पश्यामः सप्तार्धविध एव चेतव्य इति । यस्मादेकविधप्रभृतीनां षड्विधपर्यन्तानां न पक्षपुच्छानि भवन्ति । किमुक्तं भवति? यतः पक्षपुच्छानि न भवन्ति तेषु न शेरत इत्यर्थः । कुत इत्याह - सप्तेति । सप्तविधमग्निं प्रकुत्य विधीयन्त इत्यर्थः । रथन्तरं दक्षिणे पक्षे उपदधाति बृहदुत्तरपक्ष इत्येवमादयो न वियुज्यन्ते । तस्मान्न चेतव्या एकविधादयः । सप्तविध एव चेतव्यः । तेष्वेव पक्षपुच्छानि किमिति न क्रियेरन्नित्यत आह - श्रुतीति । विरोधो - विप्रतिषेधः । यद्येकविधस्यपक्षपुच्छात्मनां विभागः क्रियते; पक्षपुच्छत्मनां व्यायाममात्रता हीयते । अथैष दोषो न भवेदिति व्यायाममात्रता पक्षपुच्छात्मनां गृह्येत; तदैकविधत्वं हीयेत । तस्माद्विरोधः । अतश् च विरो धान्न कर्तव्या एकविधादयः षड्विधपर्यन्ताः । कथमष्टविधादयो मातव्या इत्यत आह - अष्टविधप्रभृतीनां यद् अन्यत् सप्तभ्यस् तत् सप्तधा विभज्य प्रतिपुरुषम् आवेशयेत् अष्टविधप्रभृतीनां एकशतविधपर्यन्तानां यदन्यत्सप्तभ्यः सप्तार्धेभ्यः तत्सप्तधा सप्तार्धधा यदन्यत्सप्तार्धेभ्यः प्रक्षेप्तव्यमासीत् तत्सप्तार्धधा विभज्य सप्तार्धेभ्य इति कुत एतल्लभ्यते? सप्तविध इत्युक्तेर्ऽधाष्टम एव गृह्यते । अरत्निप्रादेशानां तदन्तर्गतत्वात् । वक्ष्यति सप्तविध इति । अष्टविध एकः प्रक्षेप्तव्यः नवविधे द्वौ । दशविधे त्रय इत्येवं द्रष्टव्यमेकशतविधात् पुरुषात् । पुरुषं सप्तार्धधा विभक्तं कृत्वा प्रतिपुरुषमेको भागः क्षेप्तव्यः । सप्तास्वर्धपञ्चारत्निप्रादेशेषु पुरुषे त्रिंशत्पञ्चदशभागीयाः । अर्ध पुरुषे पञ्चदश । एवमेकस्मिन्पुरुषक्षेत्रे द्वे शते पञ्चविंशतिश् च पञ्चदशभागीयाःशेरते । अष्टविधे ताः प्रक्षेप्तव्याः । एकस्मिन्पुरुषक्षेत्रे त्रिंशत्पञ्चदशभागीयाः । तासु प्राक्षिप्तासु पञ्चपञ्चाशदधिकशतद्वयमापद्यते । षोडशानां वर्गं षट्पञ्चाशदधिकम् । तच्चतुरश्राच्चतुरश्रमित्यनेन न्यायेन एकस्मिन्पञ्चदशभागयिक्षेत्रे ऽपनीते या रज्जुः सा पुरुषस्थानीया । तस्याः पञ्चमो भागो ऽरत्निस्थानीयः । तेन मानेन कृते सर्वपुरुषक्षेत्रं लिप्तं भवति । एवं नवविधादिषु द्रष्टव्यम् । आकृतिविकारस्याश्रुतत्वात्

itaś ca paśyāmaḥ saptārdhavidha eva cetavya iti / yasmādekavidhaprabhṛtīnāṃ ṣaḍvidhaparyantānāṃ na pakṣapucchāni bhavanti / kimuktaṃ bhavati? yataḥ pakṣapucchāni na bhavanti teṣu na śerata ityarthaḥ / kuta ityāha - sapteti / saptavidhamagniṃ prakutya vidhīyanta ityarthaḥ / rathantaraṃ dakṣiṇe pakṣe upadadhāti bṛhaduttarapakṣa ityevamādayo na viyujyante / tasmānna cetavyā ekavidhādayaḥ / saptavidha eva cetavyaḥ / teṣveva pakṣapucchāni kimiti na kriyerannityata āha - śrutīti / virodho - vipratiṣedhaḥ / yadyekavidhasyapakṣapucchātmanāṃ vibhāgaḥ kriyate; pakṣapucchatmanāṃ vyāyāmamātratā hīyate / athaiṣa doṣo na bhavediti vyāyāmamātratā pakṣapucchātmanāṃ gṛhyeta; tadaikavidhatvaṃ hīyeta / tasmādvirodhaḥ / ataś ca viro dhānna kartavyā ekavidhādayaḥ ṣaḍvidhaparyantāḥ / kathamaṣṭavidhādayo mātavyā ityata āha - aṣṭavidhaprabhṛtīnāṃ yad anyat saptabhyas tat saptadhā vibhajya pratipuruṣam āveśayet aṣṭavidhaprabhṛtīnāṃ ekaśatavidhaparyantānāṃ yadanyatsaptabhyaḥ saptārdhebhyaḥ tatsaptadhā saptārdhadhā yadanyatsaptārdhebhyaḥ prakṣeptavyamāsīt tatsaptārdhadhā vibhajya saptārdhebhya iti kuta etallabhyate? saptavidha ityukter'dhāṣṭama eva gṛhyate / aratniprādeśānāṃ tadantargatatvāt / vakṣyati saptavidha iti / aṣṭavidha ekaḥ prakṣeptavyaḥ navavidhe dvau / daśavidhe traya ityevaṃ draṣṭavyamekaśatavidhāt puruṣāt / puruṣaṃ saptārdhadhā vibhaktaṃ kṛtvā pratipuruṣameko bhāgaḥ kṣeptavyaḥ / saptāsvardhapañcāratniprādeśeṣu puruṣe triṃśatpañcadaśabhāgīyāḥ / ardha puruṣe pañcadaśa / evamekasminpuruṣakṣetre dve śate pañcaviṃśatiś ca pañcadaśabhāgīyāḥśerate / aṣṭavidhe tāḥ prakṣeptavyāḥ / ekasminpuruṣakṣetre triṃśatpañcadaśabhāgīyāḥ / tāsu prākṣiptāsu pañcapañcāśadadhikaśatadvayamāpadyate / ṣoḍaśānāṃ vargaṃ ṣaṭpañcāśadadhikam / taccaturaśrāccaturaśramityanena nyāyena ekasminpañcadaśabhāgayikṣetre 'panīte yā rajjuḥ sā puruṣasthānīyā / tasyāḥ pañcamo bhāgo 'ratnisthānīyaḥ / tena mānena kṛte sarvapuruṣakṣetraṃ liptaṃ bhavati / evaṃ navavidhādiṣu draṣṭavyam / ākṛtivikārasyāśrutatvāt

Sanskrit only: no published translation is held for this verse.

पुरुषमात्रेण विमिमीतेऽ वेणुना विमिमीते, इति विज्ञायते

puruṣamātreṇa vimimīte' veṇunā vimimīte, iti vijñāyate

Sanskrit only: no published translation is held for this verse.

यदि पुरुषक्षेत्रमेकत्र क्षिप्यते, विक्रियेताकृतिः । न विद्यते श्रुतिर्यस्याःसा अश्रुतिः । आकृतिविकारस्य श्रुतेरभावात् इत्यर्थः । पुरुषमात्रेणेति द्रव्यमपेक्षते । वेणुनेति च मात्रामपेक्षते । तयोर्नष्टाश्वदग्धरथवत्संबन्धः । पुरुषमात्रेण वेणुना मिनोति । यावान् यजमान ऊर्ध्वबाहुस् तावद् अन्तराले वेणोश् छिद्रे करोति मध्ये तृतीयम्

yadi puruṣakṣetramekatra kṣipyate, vikriyetākṛtiḥ / na vidyate śrutiryasyāḥsā aśrutiḥ / ākṛtivikārasya śruterabhāvāt ityarthaḥ / puruṣamātreṇeti dravyamapekṣate / veṇuneti ca mātrāmapekṣate / tayornaṣṭāśvadagdharathavatsaṃbandhaḥ / puruṣamātreṇa veṇunā minoti / yāvān yajamāna ūrdhvabāhus tāvad antarāle veṇoś chidre karoti madhye tṛtīyam

Sanskrit only: no published translation is held for this verse.

यजमानग्रहणादध्वर्युप्रमाणो वेणुर्न गृह्यते । छिद्रयोरन्तरालं यजमानमात्रं यथा भवति तथा छिद्रे करोति । तयोर्मध्ये वेणोश्छिद्रमेकं करोतीति शेषः । अपरेण यूपावटदेशम् अनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून् निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक् परिलिखेद् आन्तात्

yajamānagrahaṇādadhvaryupramāṇo veṇurna gṛhyate / chidrayorantarālaṃ yajamānamātraṃ yathā bhavati tathā chidre karoti / tayormadhye veṇośchidramekaṃ karotīti śeṣaḥ / apareṇa yūpāvaṭadeśam anupṛṣṭhyaṃ veṇuṃ nidhāya chidreṣu śaṅkūn nihatyonmucyāparābhyāṃ dakṣiṇāprāk parilikhed āntāt

Sanskrit only: no published translation is held for this verse.

सञ्चरस्य पश्चादनुपृष्ठ्यं पृष्ठ्या यथा तथा वेणुं निधाय त्रिषु छिद्रेषु शङ्कुं निहत्य अपराभ्यां शङ्कुभ्यामुन्मुच्य दक्षिणाप्राक्सव्यं परिलिखेदान्तात् अग्निक्षेत्रात् । उन्मुच्य पूर्वस्माद् अपरस्मिन् प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेद् आन्तात्

sañcarasya paścādanupṛṣṭhyaṃ pṛṣṭhyā yathā tathā veṇuṃ nidhāya triṣu chidreṣu śaṅkuṃ nihatya aparābhyāṃ śaṅkubhyāmunmucya dakṣiṇāprāksavyaṃ parilikhedāntāt agnikṣetrāt / unmucya pūrvasmād aparasmin pratimucya dakṣiṇā pratyakparilikhed āntāt

Sanskrit only: no published translation is held for this verse.