जाताया अमनसिकारबाहुल्यं परिपन्थः । अजातायाः कौशीद्यं ग्राह्यग्राहकभूताया योगविभ्रमस् तथैवाभिनिवेशात् । मित्रादात्तायाः कुमित्रं विपरीतग्राहणात् । स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यं । अभ्रान्ताया अयोनिशो अमनसिकारः परिपन्थस् तद्विरोधित्वात् । प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता । शममात्राभिमानश् च तथा ऽपरिजयो मतः
jātāyā amanasikārabāhulyaṃ paripanthaḥ | ajātāyāḥ kauśīdyaṃ grāhyagrāhakabhūtāyā yogavibhramas tathaivābhiniveśāt | mitrādāttāyāḥ kumitraṃ viparītagrāhaṇāt | svātmato 'dhimukteḥ kuśalamūladaurbalyaṃ | abhrāntāyā ayoniśo amanasikāraḥ paripanthas tadvirodhitvāt | pramādo 'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā | śamamātrābhimānaś ca tathā 'parijayo mataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.