आमुखायाः प्रमादस् तस्या अप्रमादकृतत्वात् । घोषाचाराया अल्पश्रुतत्वं नीतार्थसूत्रान्ताश्रवणात् । एषिकायाः श्रुतमात्रसंतुष्टत्वम् अल्पचिन्तासंतुष्टत्वं च । ईक्षिकायाश् चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश् च । हार्याव्यवकीर्णयोर् अपरिजयः परिपन्थः । अनुद्वेगस् तथोद्वेग आवृतिश् चाप्य् अयुक्तता । असंभृतिश् च विज्ञेयाऽधिमुक्तिपरिपन्थता
āmukhāyāḥ pramādas tasyā apramādakṛtatvāt | ghoṣācārāyā alpaśrutatvaṃ nītārthasūtrāntāśravaṇāt | eṣikāyāḥ śrutamātrasaṃtuṣṭatvam alpacintāsaṃtuṣṭatvaṃ ca | īkṣikāyāś cintāmātrasaṃtuṣṭatvaṃ śamathamātrābhimānaś ca | hāryāvyavakīrṇayor aparijayaḥ paripanthaḥ | anudvegas tathodvega āvṛtiś cāpy ayuktatā | asaṃbhṛtiś ca vijñeyā'dhimuktiparipanthatā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.