ये च गुरुत्वं बहुत्वं पश्यन्ति अद्भुतधर्मयुक्तं । दीर्घं च कालं पश्यन्ति तत्समुदागमाय । निमित्तं न पश्यन्ति चित्तालम्बनं । आत्मनश् च वीर्यं वयम् आरब्धवीर्या (म्स ५९) बुद्धत्वं प्राप्स्याम इति । तेषाम् एवं मानिनां बोधिसत्वानाम् औपलम्भिकत्वात् दूरे बोधिर् निरूप्यते । पश्यताम् कल्पनामात्रं सर्वम् एतद् यथोदितं । अकल्पबोधिसत्वानां प्राप्ता बोधिर् निरूप्यते
ye ca gurutvaṃ bahutvaṃ paśyanti adbhutadharmayuktaṃ | dīrghaṃ ca kālaṃ paśyanti tatsamudāgamāya | nimittaṃ na paśyanti cittālambanaṃ | ātmanaś ca vīryaṃ vayam ārabdhavīryā (Msa 59) buddhatvaṃ prāpsyāma iti | teṣām evaṃ mānināṃ bodhisatvānām aupalambhikatvāt dūre bodhir nirūpyate | paśyatām kalpanāmātraṃ sarvam etad yathoditaṃ | akalpabodhisatvānāṃ prāptā bodhir nirūpyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.