Library·Aitareya Upaniṣad·1·1.1

Aitareya Upaniṣad 1.1

आत्मा वा इदम् एक एवाग्र आसीत् । नान्यत् किञ्चन मिषत् । स ईक्षत लोकान् नु सृजा इति

ātmā vā idam eka evāgra āsīt | nānyat kiñcana miṣat | sa īkṣata lokān nu sṛjā iti

Sanskrit only: no published translation is held for this verse.

स इमांल् लोकान् असृजताम्भो मरीचीर् मरम् आपः । अदो ऽम्भः परेण दिवम् । द्यौः प्रतिष्ठा । अन्तरिक्षं मरीचयः । पृथिवी मरः । या अधस्तात् ता आपः

sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ | ado 'mbhaḥ pareṇa divam | dyauḥ pratiṣṭhā | antarikṣaṃ marīcayaḥ | pṛthivī maraḥ | yā adhastāt tā āpaḥ

Sanskrit only: no published translation is held for this verse.

स ईक्षतेमे नु लोकाः । लोकपालान् नु सृजा इति । सो ऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत्

sa īkṣateme nu lokāḥ | lokapālān nu sṛjā iti | so 'dbhya eva puruṣaṃ samuddhṛtyāmūrcchayat

Sanskrit only: no published translation is held for this verse.

तम् अभ्यतपत् । तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् । मुखाद् वाक् । वाचो ऽग्निः । नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः । प्राणाद् वायुः । अक्षिणी निरभिद्येताम् । अक्षीभ्यां चक्षुः । चक्षुष आदित्यः । कर्णौ निरभिद्येताम् । कर्णाभ्यां श्रोत्रम् । श्रोत्राद् दिशः । त्वङ् निरभिद्यत । त्वचो लोमानि । लोमभ्य ओषधिवनस्पतयः । हृदयं निरभिद्यत । हृदयान् मनः । मनसश् चन्द्रमाः । नाभिर् निरभिद्यत । नाभ्या अपानः । अपानान् मृत्युः । शिश्नं निरभिद्यत । शिश्नाद् रेतः । रेतस आपः

tam abhyatapat | tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam | mukhād vāk | vāco 'gniḥ | nāsike nirabhidyetām | nāsikābhyāṃ prāṇaḥ | prāṇād vāyuḥ | akṣiṇī nirabhidyetām | akṣībhyāṃ cakṣuḥ | cakṣuṣa ādityaḥ | karṇau nirabhidyetām | karṇābhyāṃ śrotram | śrotrād diśaḥ | tvaṅ nirabhidyata | tvaco lomāni | lomabhya oṣadhivanaspatayaḥ | hṛdayaṃ nirabhidyata | hṛdayān manaḥ | manasaś candramāḥ | nābhir nirabhidyata | nābhyā apānaḥ | apānān mṛtyuḥ | śiśnaṃ nirabhidyata | śiśnād retaḥ | retasa āpaḥ

Sanskrit only: no published translation is held for this verse.