जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजस् अस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥१॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejas asmākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam ||1||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स निरृत्याः पाशान् मा मोचि ॥२॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa nirṛtyāḥ pāśān mā moci ||2||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । सो ऽभूत्याः पाशान् मा मोचि ॥३॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | so 'bhūtyāḥ pāśān mā moci ||3||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स निर्भूत्याः पाशान् मा मोचि ॥४॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa nirbhūtyāḥ pāśān mā moci ||4||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स पराभूत्याः पाशान् मा मोचि ॥५॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa parābhūtyāḥ pāśān mā moci ||5||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स देवजामीनां पाशान् मा मोचि ॥६॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa devajāmīnāṃ pāśān mā moci ||6||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स बृहस्पतेः पाशान् मा मोचि ॥७॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa bṛhaspateḥ pāśān mā moci ||7||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स प्रजापतेः पाशान् मा मोचि ॥८॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa prajāpateḥ pāśān mā moci ||8||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स ऋषीणां पाशान् मा मोचि ॥९॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa ṛṣīṇāṃ pāśān mā moci ||9||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स आर्षेयाणां पाशान् मा मोचि ॥१०॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa ārṣeyāṇāṃ pāśān mā moci ||10||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । सो ऽङ्गिरसां पाशान् मा मोचि ॥११॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | so 'ṅgirasāṃ pāśān mā moci ||11||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स आङ्गिरसानां पाशान् मा मोचि ॥१२॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa āṅgirasānāṃ pāśān mā moci ||12||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । सो ऽथर्वणाम् पाशान् मा मोचि ॥१३॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | so 'tharvaṇām pāśān mā moci ||13||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स आथर्वणानां पाशान् मा मोचि ॥१४॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa ātharvaṇānāṃ pāśān mā moci ||14||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स वनस्पतीणां पाशान् मा मोचि ॥१५॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa vanaspatīṇāṃ pāśān mā moci ||15||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स वानस्पत्यानां पाशान् मा मोचि ॥१६॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa vānaspatyānāṃ pāśān mā moci ||16||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स ऋतूनां पाशान् मा मोचि ॥१७॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa ṛtūnāṃ pāśān mā moci ||17||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स आर्तवानां पाशान् मा मोचि ॥१८॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa ārtavānāṃ pāśān mā moci ||18||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स मासानां पाशान् मा मोचि ॥१९॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa māsānāṃ pāśān mā moci ||19||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । सो ऽर्धमासानां पाशान् मा मोचि ॥२०॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | so 'rdhamāsānāṃ pāśān mā moci ||20||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । सो ऽहोरात्रयोः पाशान् मा मोचि ॥२१॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | so 'horātrayoḥ pāśān mā moci ||21||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । सो ऽह्नोः संयतोः पाशान् मा मोचि ॥२२॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | so 'hnoḥ saṃyatoḥ pāśān mā moci ||22||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स द्यावापृथिव्योः पाशान् मा मोचि ॥२३॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa dyāvāpṛthivyoḥ pāśān mā moci ||23||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स इन्द्राग्न्योः पाशान् मा मोचि ॥२४॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa indrāgnyoḥ pāśān mā moci ||24||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स मित्रावरुणयोः पाशान् मा मोचि ॥२५॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa mitrāvaruṇayoḥ pāśān mā moci ||25||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । स राज्ञो वरुणस्य पाशान् मा मोचि ॥२६॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | sa rājño varuṇasya pāśān mā moci ||26||
Sanskrit only: no published translation is held for this verse.
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥२७॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam ||27||
Sanskrit only: no published translation is held for this verse.